दुर्भगस्य मम प्रस्वाः पापमार्जनमादरात् । करोमि रामचंद्रांघ्रिं स्मारं स्मारं सुमंत्रिणः
धन्या सुमित्रा सुतरां वीरसूः स्वपतिप्रिया । यस्यास्तनूजो रामस्य चरणौ सेवतेऽन्वहम्
यत्र ग्रामे स्थितो नूनं भरतो भ्रातृवत्सलः । विलापं प्रकरोत्युच्चैस्तं ग्रामं स ददर्श ह
शेष उवाच। अथ तद्दर्शनोत्कण्ठा विह्वलीकृतचेतसा । पुनः पुनः स्मृतो भ्राता भरतो धार्मिकाग्रणीः
उवाच च हनूमंतं बलवंतं समीरजम् । प्रस्फुरद्दशनव्याज चन्द्रकांतिहतांधकः
शृणु वीर हनूमंस्त्वं मद्गिरं भ्रातृनोदिताम् । चिरंतनवियोगेन गद्गदीकृतविह्वलाम्
गच्छ तं भ्रातरं वीर समीरणतनूद्भव । मद्वियोगकृशां यष्टिं वपुषो बिभ्रतं हठात्
यो वल्कलं परीधत्ते जटां धत्ते शिरोरुहे । फलानां भक्षणमपि न कुर्याद्विरहातुरः
परस्त्री यस्य मातेव लोष्टवत्कांचनं पुनः । प्रजाः पुत्रानिवोद्रक्षेद्बांधवो मम धर्मवित्
मद्वियोगजदुःखाग्निज्वालादग्धकलेवरम् । मदागमनसंदेश पयोवृष्ट्याशु सिंचतम्
सीतया सहितं रामं लक्ष्मणेन समन्वितम् । सुग्रीवादिकपींद्रैश्च रक्षोभिः सबिभीषणैः
प्राप्तं निवेदय सुखात्पुष्पकासनसंस्थितम् । येन मे सोऽनुजः शीघ्रं सुखमेति मदागमात्
इति श्रुत्वा ततो वाक्यं रघुवीरस्य धीमतः । जगाम भरतावासं नंदिग्रामं निदेशकृत्
गत्वा स नंदिग्रामं तु मंत्रिवृद्धैः सुसंयतम् । भरतं भ्रातृविरहक्लिन्नं धीमान्ददर्श ह
कथयंतं मंत्रिवृद्धान्रामचंद्रकथानकम् । तदीय पदापाथोज मकरंदसुनिर्भरः
नमश्चकार भरतं धर्मं मूर्तियुतं किल । विधात्रा सकलांशेन सत्त्वेनैव विनिर्मितम्
तं दृष्ट्वा भरतः शीघ्रं प्रत्युत्थाय कृतांजलि । स्वागतं चेति होवाच रामस्य कुशलं वद
इत्येवं वदतस्तस्य भुजो दक्षिणतोऽस्फुरत् । हृदयाच्च गतः शोको हर्षास्रैः पूरिताननः
विलोक्य तादृशं भूपं प्रत्युवाच कपीश्वरः । निकटे हि पुरः प्राप्तं विद्धि रामं सलक्ष्मणम्
रामागमनसंदेशामृतसिक्तकलेवरः । प्रापयद्धर्षपूरं हि सहस्रास्यो न वेद्म्यहम्
जगाद मम तन्नास्ति यत्तुभ्यं दीयते मया । दासोऽस्मि जन्मपर्यंतं रामसंदेशहारकः
वसिष्ठोऽपि गृहीत्वार्घ्यं मंत्रिवृद्धाः सुहर्षिताः । जग्मुस्ते रामचंद्रं च हनुमद्दर्शिताध्वना
दृष्ट्वा दूरात्समायांतं रामचंद्रं मनोरमम् । पुष्पकासनमध्यस्थं ससीतं सहलक्ष्मणम्
रामोऽपि दृष्ट्वा भरतं पादचारेण संगतम् । जटावल्कलकौपीन परिधानसमन्वितम्
अमात्यान्भ्रातृवेषेण समवेषाञ्जटाधरान् । नित्यं तपः क्लिष्टतया कृशरूपान्ददर्श ह
रामोऽपि चिंतयामास दृष्ट्वा वै तादृशं नृपम् । अहो दशरथस्यायं राजराजस्य धीमतः
पुत्रः पदातिरायाति जटावल्कलवेषभृत् । न दुःखं तादृशं मेऽन्यद्वनमध्यगतस्य हि
यादृशं मद्वियोगेन चैतस्य परिवर्त्तते । अहो पश्यत मे भ्राता प्राणात्प्रियतमः सखा
श्रुत्वा मां निकटे प्राप्तं मंत्रिवृद्धैः सुहर्षितैः । द्रष्टुं मां भरतोऽभ्येति वसिष्ठेन समन्वितः
इति ब्रुवन्नरपतिः पुष्पकान्नभसोंऽगणात् । बिभीषणहनूमद्भ्यां लक्ष्मणेन कृतादरः