अथ रावणः पुरान्निर्गत्य रामेण लक्ष्मणवानरै राक्षसा अपि युयुधिरे
अथ रावणं महाबलं हन्तुमशक्तोरामो विभीषणमुखमवलोक्य तदुक्तचिह्नपदं बाणेन निर्भिद्यामारयत्
अथ कुम्भकर्णो महागदामादाय सर्वं निष्पाद्य वानराननेकशो भक्षयित्वा रामोत्तमाङ्गं गदयाऽहन्
अथ रामो निशितबाणशतेन तमहन्ममार कुम्भकर्णः
अथ विभीषणेन रावणादेः श्राद्धादिकं कारयित्वा शिवालयं तन्नाम्ना कारयित्वा तमेव लङ्काराज्ये विभीषणमभिषिच्य सीतामग्निप्रवेशशुद्धामुमामहेश्वराभ्यां नमयित्वा पुरहरेण दत्ताखिलामृतबलायुष्यः सुपुष्पकमारुह्य जलधिमुत्तीर्य पारावारतटे सेनां समवस्थाप्य शिवप्रतिष्ठां तत्र कृत्वा मुनिभिर्देवैरभ्यर्चितोऽयोध्यामगमत्
अथ भरतादिसमुपेतो नागरैर्वसिष्ठेन मुनिभिश्चाभ्यर्चितःस्वगृहमगमत्
आत्मनाऽगतानिन्द्रा दिदेवानासनादिनाऽभ्यर्च्य वानरान्संपूज्य मुक्तजटोऽभिषिक्तो राज्ये रावणवधहर्षिता देवा राममूचुः
त्वयाऽत्मराज्ये स्थापिता वयं नः सर्वदा परिपालय त्वमादिनारायणो देवो निखिलदुष्टनिग्रहार्थमवतीर्णो रावणं सबान्धवं हत्वा लोकत्रयरक्षकोऽसि श्रिया सह सुखी भवेत्युदीर्य स्वर्गं गताः
अथायोध्यावासिनो रामं प्रहर्षिता ऊचुः
हत्वा शत्रून्समायातो दृष्ट्वा प्राप्तोऽसि वै शिवम् । दिष्ट्या त्वं राजसे राम दिष्ट्या पालयसे प्रजाः
त्वया यज्ञाः करिष्यंते त्वया धर्मो विवर्धते । इतिपौरवचःश्रुत्वारामो राजीवलोचनः
वस्त्रादिभिरथोसर्वान्नागरान्समपूजयत् । मुनीनुवाचधर्म्मात्मापूजयित्वाखिलैर्जनैः
कच्चित्तपःसमृद्धंवःकच्चिद्यज्ञःस्वनुष्ठितः । कच्चित्स्वदारनिरताःकच्चिदीशोभिपूज्यते
कच्चित्सुप्रजसोभार्याःकच्चित्सर्वंसुखोत्तरम्
मुनय ऊचुः - त्वयि राजनि काकुत्स्थ सर्वं स्वस्थं तपस्विनाम् । गच्छामहे पदमितः किं वा त्वं मन्यसे नृप
राम उवाच- यस्य विप्राः प्रसीदंति तस्य शंभुः प्रसीदति । यस्य प्रसीदतीशानस्तस्य भद्रं भविष्यति
तत्कृत्वा भोजनमिह गंतुमर्हा अनंतरम् । अथेत्युक्त्वा मुनिगणाः कृत्वा भोजनमुत्तमम्
अभिवर्ध्यतमाशीर्भिर्हृष्टाः स्वं स्वं पदं ययुः । रामोऽपि परमप्रीतः सभार्यश्च सहानुजः
अकंटकं स कृतवान्राज्यं सर्वजनप्रियः । शृणोत्येतदुपाख्यानं यः कश्चिदपि पातकी
सर्वपापविनिर्मुक्तः परं ब्रह्माधिगच्छति । न दुर्गतिर्भवेत्तस्य यश्चेदं स्मरते नरः
यश्चापि कीर्तयेत्तस्य एवमेतदुदीरितम्
श्रीगणेशाय नमः। श्रीकुलदेवतायै नमः। श्रीगुरुचरणारविंदाभ्यां नमः । नारायणं नमस्कृत्य नरं चैव नरोत्तमम् । देवींसरस्वतीं व्यासं ततो जयमुदीरयेत्
ऋषय ऊचुः। श्रुतं सर्वं महाभाग स्वर्गखंडं मनोहरम् । त्वत्तोऽधुना वदायुष्मञ्छ्रीरामचरितं हि नः
सूत उवाच। अथैकदा धराधारं पृष्टवान्भुजगेश्वरम् । वात्स्यायनो मुनिवरः कथामेतां सुनिर्मलाम्
श्रीवात्स्यायन उवाच। शेषाशेष कथास्त्वत्तो जगत्सर्गलयादिकाः । भूगोलश्च खगोलश्च ज्योतिश्चक्रविनिर्णयः
महत्तत्त्वादिसृष्टीनां पृथक्तत्त्वविनिर्णयः । नानाराजचरित्राणि कथितानि त्वयानघ
सूर्यवंशभवानां च राज्ञां चारित्रमद्भुतम् । तत्रानेकमहापापहरा रामकृता कथा
तस्य वीरस्य रामस्य हयमेधकथा श्रुता । संक्षेपतो मया त्वत्तस्तामिच्छामि सविस्तराम्
या श्रुता संस्मृता चोक्ता महापातकहारिणी । चिंतितार्थप्रदात्री च भक्तचित्तप्रतोषदा
शेष उवाच। धन्योसि द्विजवर्य त्वं यस्य ते मतिरीदृशी । रघुवीरपदद्वंद्व मकरंद स्पृहावती