तस्मात्त्वमिदं दार्वेकप्रयत्नैकबाणनिपातेन पंचधाच्छिंधि ततस्तव शक्तिं ज्ञात्वा युद्धमतिदृढं कुर्वीमहि
अथ भार्गववचोविज्ञाय रामः पूर्वकोट्यां स्पर्शमात्रेण सज्यं कृत्वा धनुषि बाणं संयोज्य रक्षोभ्यां हनूमताश्रावयन्नेव बाणं मुमोच
बाणं धनुषश्चलितं तौ राक्षसौ बाणमार्गं निरीक्षमाणौ दारु बाणेन पंचधा च्छिन्नं निरीक्ष्य रामं व्यज्ञापयतामावयोः शिशवो रक्षणीयास्त्वयेति तथेत्याह रामः राक्षसौ लंकां प्रविष्टौ
अथ प्राकारयुद्धं कर्तुं वानरा गत्वा सर्वतो वरणमात्रं हि पार्ष्णिभिः पादैर्जानुभिः करैः पृष्ठैश्च तलसमं कृत्वा द्वितीयप्राकारं गतास्तदा च रावणः समागत्य सर्वानेवेषुभिर्द्रावयित्वा तदनुगच्छन्राममगात्
अथ राममपि पंचभिर्बाणैर्विव्याध
अथ रामो दशभिर्बाणै रावणं सव्रणं चकार
अनयोरतिदारुणमन्योन्यं युद्धं बभूव
रावणो दशभिर्बाणैर्विव्याध
अथ रामबाणैश्च क्षतशरीरो राक्षसः पलायनपरोऽभवत्
वानरा लक्ष्मणश्च कोटिकोटिराक्षसानघ्नन्
अथपरस्मिन्नहनि विभीषणो रावणं विचार्येदमुवाच
तृतीयोपायकालोऽयं चतुर्थं न विचारय । चतुर्थो विपरीतो न शस्तः शस्तार्थकारिणः
परस्य चाऽत्मनः शक्तिं विदित्वा चाऽत्मनोऽधिकाम् । तदा युद्धं प्रशस्तं स्याद्विपरीतं विनाशकम्
रामेण बलिनानैव युद्धं ते दुर्बलस्य च । एकेषुवालिहन्ताऽसौ वालिर्ज्ञातस्त्वया पुरा
मारीचमेकबाणेन भवानपि पलायितः । निहता राक्षसाः शूरा इन्द्र जिच्च सुतो हतः
वरेण्यत्रितयं भग्नं तेन युद्धं च नैव ते । दासभावमथो वाऽपि दत्त्वा सीतामथाऽप्नुहि
गोपुरस्थं तथा दारु पञ्चवक्त्रमथेषुणा । चिच्छेद पञ्चधा तेन रामस्त्वां मारयिष्यति
त्वदर्थं बहवो नष्टा नाशमेष्यंति चापरे । एको न्यायः सुखार्थाय न च मौढ्यं सहोदर
मानुषीं मृत्युसंयुक्तामनिच्छन्तीं पतिव्रताम् । पत्नीं बलवतश्चापि पूजयित्वा विसर्जय
अनिच्छन्त्याः समायोगे भवेद्दुःखपरंपरा । दुर्गन्धमलसंयुक्तो नारीसङ्गो जुगुप्सितः
विरक्तिरथ चेज्जाता दुःखायाकार्यवर्तनम् । अनुरागोयदि भवेन्मरणं नरकं ततः
आत्मनो मरणं व्यर्थं तस्याश्चाद्य समागमे । त्यागो वा मरणं तात धर्मपत्न्यास्तथा भवेत्
एवमादि तथाऽन्यच्च कश्मलं संभविष्यति । अन्यदाख्यामि ते वाक्यं सर्वेषां च प्रियं हितम्
गत्वा रामान्तिकं नत्वा स्तुत्वा विज्ञाप्य राघवम् । क्षम राम महावीर शरणागतवत्सल
तामसा राक्षसाः सर्वे वयमेते सुपापिनः । सीतापहारजं दोषं त्यक्त्वा पुत्रानवेहि नः
त्वदधीना वयं राम रक्ष वा मारयेच्छया । इत्युदीर्य पुरस्तस्य राघवस्य स्थिता वयम्
स्थिरायुषो भविष्यामः स्थिरराज्या दशानन । अथाऽहं रावणो वाक्यमहो नो राक्षसो भवान्
न शूरो राजधर्मं च न च जानासि शाश्वतम् । परनारीपरद्र व्यपरराज्यनिषेवया
शूराणामुत्तमो धर्मो न षण्ढानां भवादृशाम् । शत्रुपक्षं समालिग्य निर्गच्छेच्छा हि चेन्नृप
अथ बिभीषणो मन्दिरं गत्वा रामान्तिकं गत्वा तं शरणमभजत्