अथ रामं परमेश्वरोऽपि वरं वृणु त्वं वरदोऽहमित्युक्तवान्
राम उवाच- लंकां गमिष्यामि समुद्रतरणे उपायमेकं मम देहि शंभो
शंभुरुवाच- ममाजगवं धनुरस्ति तत्कालरूपमविकल्पं वा भवति । तदारुह्य समुद्रं तीर्त्वा लंकामाप्नुहि
रामस्तथेति निश्चित्य सस्माराजगवम्
आगतं धनुस्ततश्च रामोऽपूजयत्
अथ हरो धनुरादाय रामाय दत्तवान्
रामोऽपि जलधावपातयत्
आरुरुहुः सर्वे वानरा रामलक्ष्मणौ च षष्टिपरार्द्धं तेषामसंख्येषु वानरेषु धनुरारूढेषु निकामं ययौ
धनुस्तटं वानराश्च ततस्ततो गत्वा निरीक्षयामासुः
अथातिकायो नाम रक्षः कपिबलमालोक्य रावणायोक्तवान्
रावणोऽपि किं कपिभिः शाखामृगैः किं वा मानुषाभ्यां रामलक्ष्मणाभ्यां किमायातं। दैवागतमसकं भोजनमित्युवाच
अथ सुग्रीवः पश्चिमावलंबिनि भास्वति हनूमज्जांबवदादिमहाबलैश्चातिकायैरसंख्यातैर्लंकापार्श्वं गत्वा उपवनं प्रवश्यि नानाफलानि खादित्वा पयः पीत्वोपवनरक्षिराक्षसान्विद्राव्य सर्वविपिनमेकैकशो गृहीत्वा प्राद्रवन्लंकां गोपुरं च गत्वा समारुह्य प्रासादं च विशीर्यैकैकशः केचित्स्तंभमादाय रक्षोभिर्युयुधुः
एके च शालां बभंजुर्गृहाणि चूर्णयामासुर्बालवृद्धस्त्रीजनादिकं सर्वमेव निजघ्नुः
अथैकं प्राकारं निर्जितमाज्ञाय रावण इंद्रजितं संदिदेश
इंद्रजिता च युद्धं वानराः कृत्वा भीताः पलायिताश्च
अथ हनूमानखिलं निर्गतमाज्ञाय रावणं ज्ञात्वा वानरानाहूय निर्भर्त्स्य सेनां महतीं कारयित्वा दशमुखं कल्पयित्वा मोदयामास
अथ खस्थ एवेंद्रजिद्युयुधे न च वानरास्तं दृष्टवंतः
अथ हनूमज्जांबवंतौ खमुत्पत्य पर्वतशिखराभ्यामिन्द्रजितं निजघ्नतुः
अथ भुविपपात तं लक्ष्मणश्च यमलोकगामिनं चकार
अथातिकायमहाकायौ वानरसैन्यं बहुशो हत्वा लक्ष्मणं पीडयित्वा रामेण संयुध्य सुग्रीवं कृत्वा हनूमज्जांबवद्भ्यां युयुधाते पराजितौ गृहीत्वा तौ च योद्धारावादाय रामसमीपं गत्वा रामाय न्यवेदयताम्
अतिकायमभाषत रामः
रावणस्य मम युद्धं ब्रूहि सचिवानामन्येषां महाभयानां च
अतिकाय उवाच- निश्चितमिदं पुरास्माभिः कार्यं सेनां विभागशः कृत्वा विद्युन्मालीनाम राक्षसो महाबलो विचित्रयोधी दर्शनादर्शनयोधी वानरैः सर्वैरेक एव युध्यते
अपरे च बलिनो महांतः शिक्षितास्त्राश्चागता आवां च युवाभ्यां युध्यावो रावणः पुष्पकमारुह्यापरभागेन त्वामेव निहनिष्यति
अन्ये च राक्षसाः कुंभकर्णमुखाश्चात्मरूपं कृत्वा त्वां परिवार्य गृहीत्वा सीतायै दर्शयित्वा तत्संनिधावेव हनिष्यति
रामः प्राह अहो बलवतां किमसाध्यमेवं भवति दैवगतिः कुटिला सुग्रीवोऽतिकोपनः सक्रोधं दृष्ट्वा राममुवाच
वध्यावेतौ न मोचनीयौ
रामः प्राहावध्यौ मोचनीयावेतौ वसनानि भूषणान्यानयेत्युक्तमात्रे हनूमता तान्यानीतानि रामस्ताभ्यां दत्तवान्
नत्वा यदेतल्लंकाद्वारे दृश्यते दारुपंचवक्त्रं शुक्रेणोक्तमेतेन च्छिन्नेन रावणो हन्यते
अथ च दारुच्छेदनसमनंतरं पातालं गंतव्यमिति भार्गवभाषितं शासनं लिखितम्