अथ जांबवानाह । हनूमानेको गच्छतु बुध्यतु लंकाम्
अथ हनूमानगमल्लंकापुरं विचित्य सीतामशोकवनिकायामासीनां तथा च संभाष्य विश्वासं कृत्वा वनं बभंज वनरक्षकांश्च
बद्धो रक्षसा लंकां दग्ध्वा उत्तरकूलं गत्वा रामं दृष्ट्वा वृत्तांतं कथयित्वा तूष्णीमतिष्ठत्
अथ रामः सर्वैर्विचारयामास जांबवानुवाच रामेण लंका कपिभिर्विनश्यतीति नारदेन ममोक्तम्
अथ सागरोत्तरणे यत्नतया स्थेयम्
अथ रामः शंकरमाराध्य सर्वं निवेदयित्वा त्वदुक्तं करोमीति वचनमुक्त्वा शिवमभ्यर्च्य प्रणतो भूत्वा व्यजिज्ञपत्
हे महादेव महाभूतग्रास महाप्रलयकारण महाहिभूषण महारुद्र शंकर परमेश्वर विरूपाक्ष नागयज्ञोपवीतकरि कृत्तिवसन ब्रह्मशिरः कपालमालाभरभूषण –नरकास्थिभूषणभसित परनारायणप्रिय शुभचरित पंचब्रह्मादिदेव पंचानन चतुर्वदन वेदवेद्य भक्तसुलभा भक्तदुर्लभ परमानंदविज्ञान पर पूषदंतपातन दक्षशिरश्छेदन ब्रह्मपंचमशिरोहरण पार्वतीवल्लभ नारदोपगीयमान शुभचरित शर्व त्रिनेत्र त्रिशूलधर पिनाकपाणे कपर्दिन्ननेकरूपधर वृषभवाहन शुद्धस्फटिकसंकाश चतुर्भुज नानायुध दक्षिणामूर्ते ईश्वर देवपते गंगाधर त्रिपुरहर श्रीशैलनिवास काशीनाथ केदारेश्वर भूषणसिद्धेश्वर गोकर्णेश्वर कनखलेश्वर पर्वतेश्वर चक्रप्रद बाणचिंतापादक मुरहर पूजितचरणकमल सोमसोमभूषण सर्वज्ञ ज्योतिर्मय जगन्मय नमस्ते नमस्ते
एवं स्तुवतो रामस्य पुरतो लिंगमध्यकोपेतस्तेजोमयमूर्तिराविर्बभूव
अभयवानथ पुनः पद्मासनासीनमुमाधिष्ठितांकमीशमामुक्तसर्वाभरणं सुकांतिकिरीटिनं हैमवतीकटिस्पर्शं करद्वयेनाभयवरप्रदं तरंगितानेकदिशाभिः । पूर्णतेजस्विनं हासमुखं प्रसन्नवदनं ददर्श रामः
परमेशितारं ननाम बद्धांजलिपुनश्च दंडवत्पपात
अथ रामं परमेश्वरोऽपि वरं वृणु त्वं वरदोऽहमित्युक्तवान्
राम उवाच- लंकां गमिष्यामि समुद्रतरणे उपायमेकं मम देहि शंभो
शंभुरुवाच- ममाजगवं धनुरस्ति तत्कालरूपमविकल्पं वा भवति । तदारुह्य समुद्रं तीर्त्वा लंकामाप्नुहि
रामस्तथेति निश्चित्य सस्माराजगवम्
आगतं धनुस्ततश्च रामोऽपूजयत्
अथ हरो धनुरादाय रामाय दत्तवान्
रामोऽपि जलधावपातयत्
आरुरुहुः सर्वे वानरा रामलक्ष्मणौ च षष्टिपरार्द्धं तेषामसंख्येषु वानरेषु धनुरारूढेषु निकामं ययौ
धनुस्तटं वानराश्च ततस्ततो गत्वा निरीक्षयामासुः
अथातिकायो नाम रक्षः कपिबलमालोक्य रावणायोक्तवान्
रावणोऽपि किं कपिभिः शाखामृगैः किं वा मानुषाभ्यां रामलक्ष्मणाभ्यां किमायातं। दैवागतमसकं भोजनमित्युवाच
अथ सुग्रीवः पश्चिमावलंबिनि भास्वति हनूमज्जांबवदादिमहाबलैश्चातिकायैरसंख्यातैर्लंकापार्श्वं गत्वा उपवनं प्रवश्यि नानाफलानि खादित्वा पयः पीत्वोपवनरक्षिराक्षसान्विद्राव्य सर्वविपिनमेकैकशो गृहीत्वा प्राद्रवन्लंकां गोपुरं च गत्वा समारुह्य प्रासादं च विशीर्यैकैकशः केचित्स्तंभमादाय रक्षोभिर्युयुधुः
एके च शालां बभंजुर्गृहाणि चूर्णयामासुर्बालवृद्धस्त्रीजनादिकं सर्वमेव निजघ्नुः
अथैकं प्राकारं निर्जितमाज्ञाय रावण इंद्रजितं संदिदेश
इंद्रजिता च युद्धं वानराः कृत्वा भीताः पलायिताश्च
अथ हनूमानखिलं निर्गतमाज्ञाय रावणं ज्ञात्वा वानरानाहूय निर्भर्त्स्य सेनां महतीं कारयित्वा दशमुखं कल्पयित्वा मोदयामास
अथ खस्थ एवेंद्रजिद्युयुधे न च वानरास्तं दृष्टवंतः
अथ हनूमज्जांबवंतौ खमुत्पत्य पर्वतशिखराभ्यामिन्द्रजितं निजघ्नतुः
अथ भुविपपात तं लक्ष्मणश्च यमलोकगामिनं चकार
अथातिकायमहाकायौ वानरसैन्यं बहुशो हत्वा लक्ष्मणं पीडयित्वा रामेण संयुध्य सुग्रीवं कृत्वा हनूमज्जांबवद्भ्यां युयुधाते पराजितौ गृहीत्वा तौ च योद्धारावादाय रामसमीपं गत्वा रामाय न्यवेदयताम्