एवं विदित्वा मंत्रार्थं तद्भक्तिं सम्यगाचरेत् । दासभूतमिदं तस्य जगत्स्थावरजंगमम्
श्रीमन्नारायणः स्वामी जगतां प्रभुरीश्वरः । माता पिता सुतो बंधुर्निवासः शरणं गतिः
कल्याणगुणवान्श्रीशः सर्वकामफलप्रदः । योऽसौ निर्गुण इत्युक्तः शास्त्रेषु जगदीश्वरः
प्राकृतैर्हेयसंयुक्तैर्गुणैर्हीनत्वमुच्यते । यत्र मिथ्या प्रपञ्चत्वं वाक्यैर्वेदांतगोचरैः
दृश्यमानमिदं सर्वमनित्यमिति चोच्यते । अत्रापि प्राकृतं रूपमण्डस्यैव विनाशनम्
प्राकृतानां हि रूपाणामनित्यत्वं तथोच्यते । इममर्थं महादेवि प्रकृतेरुद्भवं हरेः
क्रीडार्थं देवदेवस्य विष्णोर्लीलाधिकारिणः । लोकैश्चतुर्भिर्दशभिः सागरैर्द्वीपसंयुतैः
भूतैश्चतुर्विधैश्चापि भूधरैश्च महोच्छ्रयैः । परिपूर्णमिदं रम्यमंडं प्रकृतिसंभवम्
दशोत्तरगुणोपेतं सप्तावरणसंवृतम् । कलाकाष्ठादिरूपेण यः कालं परिवर्तते
कालेनैव जगत्सर्गस्थितिसंहरणं भवेत् । चतुर्युगसहस्रं वै ब्रह्मणो दिवसो भवेत्
तावंति रात्रिवर्षाणि ब्रह्मणोऽव्यक्तजन्मनः । क्षये तु ब्रह्मणः प्राप्ते सर्वसंहारको भवेत्
अंडमंडगता लोका दह्यंते कालवह्निना । सर्वात्मानस्तथा विष्णोः प्रकृतौ विनिवेशिताः
अंडावरणभूतानि प्रकृतौ लयमाप्नुयुः । सा सर्वजगदाधारा प्रकृतिर्हरिसंश्रिता
तया जगत्सर्गलयौ करोति भगवान्सदा । क्रीडार्थं देवदेवेन सृष्टा माया जगन्मयी
अविद्या प्रकृतिर्माया गुणत्रयमयी सदा । सर्गस्थितिलयानां सा हेतुभूता सनातनी
योगनिद्रा महामाया प्रकृतिस्त्रिगुणान्विता । अव्यक्ता च प्रधानं च विष्णोर्लीलाविकारिणः
जगत्सर्गलयौ स्यातां प्रकृतेरेव सर्वदा । असंख्यप्रकृतेः स्थानं निबिडध्वान्तमव्ययम्
ऊर्ध्वं तु सीम्नि विरजा निस्सीमाधस्सनातनी । तयादृतं जगत्सर्वं स्थूलसूक्ष्माद्यवस्थया
विकाससंकोचावस्थे तस्यां सर्गलयौ स्मृतौ । एवं सर्वाणि भूतानि प्रकृत्यंतर्गतानि वै
ततः शून्यमिदं सर्वं प्रकृत्यंतर्गतं महत् । एवं प्रकृतिरूपाया विभूते रूपमुत्तमम्
त्रिपाद्विभूतिरूपं तु शृणु भूधरनंदिनि । प्रधान परमव्योम्नोरंतरे विरजा नदी
वेदांगस्वेदजनिततोयैः प्रस्राविता शुभा । तस्याः पारे परे व्योम्नि त्रिपाद्भूतिस्सनातनी
अमृतं शाश्वतं नित्यमनन्तं परमं पदम् । शुद्धं सत्वमयं दिव्यमक्षरं ब्रह्मणः पदम्
अनेककोटिसूर्याग्नि तुल्य वर्चसमव्ययम् । सर्ववेदमयं शुद्धं सर्गप्रलयवर्जितम्
असंख्यमजरं नित्यं जाग्रत्स्वप्नादिवर्जितम् । हिरण्मयं मोक्षपदं ब्रह्मानंदसुखावहम्
समानाधिक्यरहितमाद्यंतरहितं शुभम् । तेजसात्यद्भुतं रम्यं नित्यमानंदसागरम्
एवमादिगुणोपेतं तद्विष्णोः परमं पदम् । न तद्भासयते सूर्यो न शशांको न पावकः
यद्गत्वा न निवर्तंते तद्धाम परमं हरेः । तद्विष्णोः परमं धाम शाश्वतं नित्यमच्युतम् । न हि वर्णयितुं शक्यं कल्पकोटिशतैरपि
हरेः पदं वर्णयितुं न शक्यं मया च धात्रा च मुनींद्रसङ्घैः । यस्मिन्पदे ह्यच्युत ईश्वरो यः सो अङ्ग वेद यदि वा न वेद
यदक्षरं वेदगुह्यं यस्मिन्देवा अधि विश्वे निषेदुः । यस्तन्नो वेद किमृचा करिष्यति ये तद्विदुस्त इमे समासते