अथ मुष्टियुद्धमन्योन्यमभूत्
रामोऽपि वालिनं जघान
पपात च वाल्याह चाशस्त्रयुद्धे वा बाणघातोऽथ शोणितसर्वांगो बभूव
अथ तारा चांगदश्च समागत्य व्यथितौ बभूवतुः
अथ राघवं वानराः समायाता वाल्युपांते निपेतूरुरुदुश्च
अथ तारा रामं बभाषे शास्त्रकुशलाः शूरा धार्मिका राघवाः पुरा चापि राम कथं पापमकार्षीः
न क्षत्रधर्म्मं जानीषे राजगणसेवितम्
अन्योन्यं युद्ध्यतोर्युद्धे जयो वा मरणं भवेत् । अन्यो यदितयोर्हन्याद्ब्रह्महा स निगद्यते
किं वैरेण वालिनमाहनः किं वानरमांसाशया
अभोज्यं वानरं मांसं यद्यात्मनोऽप्रियात्सुखाभावादपरेषामपि तथाभावं मन्यसे अहो विमोहाद्यदिमामादातुमिदं कृतमेकपत्नीव्रतं तव
यदि रावणहृतां सीतामानेतुं सुग्रीवसहायाय कृतमेवमेव हा महदंतरं बलवृद्धेन महाबलेन वालिना सद्भावेन दिनकरावर्तितांतरे सीतामानेतुं समर्थेन स्मरणागतरावणदानमर्थेन वानरराजेन पंचाशत्परार्द्धवानरभल्लूकसेनावता आत्मकार्येण सिद्ध्यत इति किं सुग्रीवेणाल्पवी-र्येण सप्तपरार्द्धसेनापतिना कपिना किं सिद्ध्यति कार्यं वचनवतः
अहो ज्ञातं सर्वदेव भद्रं यदुक्तोसि
वक्ति च रामः पृथिवीपतिना मया दुष्टनिग्रहणं कार्यं शिष्टपरिपालनं च वालिना सुग्रीवमहिषी रुमापहृता राज्यं च अतश्च न तादृग्वधे दोषः
तारोवाच- सुग्रीवोऽपि तर्हि वध्यो दुंदुभिना युद्ध्यता वालिना बिलेप्रविष्टेन वत्सरं तत्रोषितं तदंतरे च मामपहृत्य राज्यं च कृतं सुग्रीवेण तं पूर्वमपि पश्चात्तं हंतु
राम उवाच-। कियत्कालात्पूर्वमिदं च वद
तारोवाच- षष्टिवर्षसहस्रादर्वाकशीतितमे वर्षे रक्षोयुद्धे सुग्रीवेण राज्यमपहृतम्
पुनश्च वर्षांतरे प्राप्तेन वालिना सुग्रीवः पलायितः
अपहृता तस्य भार्या राज्यं चापहृतम्
तस्मिन्नेव दिने भवतः पितुर्दशरथस्याभिषेकः
राघव उवाच- मया पितुरनुशासनाद्राज्यगतदुष्टनिग्रहणं कृतम् । गुरुवचनस्यानुल्लंघनीयत्वात्तदपहरणवेलायां यो राजासनाचरत्
अथवा स्वतंत्रौ मृगौ मृगयोर्हतश्च वाली मृगाणामन्योन्यं दारणाद्य जगुप्सा च
यतो मम मृगयावदाथवा मृगाणाम् । चलितस्थितबद्धानां चलद्भ्रांतपलायिनाम् । अथावसृजतासंगमुज्झिता मृगया तथा
मृगयाशास्त्रविधितो मृगयेयं मया कृता । दर्शनादर्शनाभ्यां च धावताधावता तथा
अवरोहात्परं स्थानं सात्विकानां प्रभिद्यते । राज्ञश्च मृगयाधर्मो विना आमिषभोजनम्
अथ रामवचनमाकर्ण्य सर्व एव प्राकंपयञ्छिरांसि
वाली बभाषे राममंजलिमस्तके निधाय नमस्ते राम शृणु वचनं मम
शंखचक्रगदापाणिः पीतवासा जगद्गुरुः । नारायणः स्वयं साक्षाद्भवानिति मया श्रुतम्
त्वां योगिनश्चिंतयंति त्वां यजंति च यज्विनः । हव्यकव्यभुगे कस्त्वं पितृदेवस्वरूपधृक्
मरणे चिंतयानस्य त्वां विमुक्तिरदूरतः । सत्वं मे दर्शनं प्राप्तो राम मे पापसंक्षयः
गृहाण बाणं काकुत्स्थ व्यथितो भृशमस्म्यहम्