अथ रामस्तेन सख्यमकरोत् अपृच्छच्च किमर्थमिह भार्य्याहीनः स्थित इति
सुग्रीव उवाच-। मम भ्राता वाली महाबलो ममभार्य्यां राज्यं चापहृत्य किष्किन्धायामास्ते युद्धेन चाहं पराजितः तद्वधाय सर्वथा मम चिंता यथासौ त्वया निहन्यते तथाहमपि सागरं बद्ध्वा परतीरे लंकायां स्थितां सीतां रावणेनापहृतां तव समर्पयामीत्याभाष्य शपथं कृत्वा सुग्रीवो वालिनातिबलिना युद्धायाहूतेन युयुधे
रामोप्यनंतरमनिश्चयाद्वालिनं नाहनत्
अथ सुग्रीवः पलायितो राममिदमभाषत
तव चित्तमविज्ञाय प्रवृत्तोऽहमरणाय
रामोपि युवयोर्विशेषाज्ञानान्मया तूष्णीं भूतं चिह्नितं त्वा निरीक्ष्यतं हन्मि
अथ सुग्रीवश्चिह्नं कृत्वा वालिनं युद्धायाहूय समतिष्ठत
तारा बभाषे वालिनम्
सहायवानिव लक्ष्यते सुग्रीवो नोचेदेवं नाह्वयति ज्ञातं मया रामलक्ष्मणौ दशरथतनयौ नारायणांशौ भूभारावतरणाय समागतौ तावस्य सहायभूतौ
वाल्युवाच- नीतिमान्राम इति मया श्रुतः । नहि बलवंतं विहाय दुर्बलं भजते तादृशः समायातु वा रामः प्रतिपन्नमधिकं कृत्वा बिभेति वीरो यदि रामः स्वयं युद्धाय यातस्तदा युद्धं कर्तव्यमित्याभाष्य तारां संभाव्य सुग्रीवयुद्धाय निर्य्यातः
अथ मुष्टियुद्धमन्योन्यमभूत्
रामोऽपि वालिनं जघान
पपात च वाल्याह चाशस्त्रयुद्धे वा बाणघातोऽथ शोणितसर्वांगो बभूव
अथ तारा चांगदश्च समागत्य व्यथितौ बभूवतुः
अथ राघवं वानराः समायाता वाल्युपांते निपेतूरुरुदुश्च
अथ तारा रामं बभाषे शास्त्रकुशलाः शूरा धार्मिका राघवाः पुरा चापि राम कथं पापमकार्षीः
न क्षत्रधर्म्मं जानीषे राजगणसेवितम्
अन्योन्यं युद्ध्यतोर्युद्धे जयो वा मरणं भवेत् । अन्यो यदितयोर्हन्याद्ब्रह्महा स निगद्यते
किं वैरेण वालिनमाहनः किं वानरमांसाशया
अभोज्यं वानरं मांसं यद्यात्मनोऽप्रियात्सुखाभावादपरेषामपि तथाभावं मन्यसे अहो विमोहाद्यदिमामादातुमिदं कृतमेकपत्नीव्रतं तव
यदि रावणहृतां सीतामानेतुं सुग्रीवसहायाय कृतमेवमेव हा महदंतरं बलवृद्धेन महाबलेन वालिना सद्भावेन दिनकरावर्तितांतरे सीतामानेतुं समर्थेन स्मरणागतरावणदानमर्थेन वानरराजेन पंचाशत्परार्द्धवानरभल्लूकसेनावता आत्मकार्येण सिद्ध्यत इति किं सुग्रीवेणाल्पवी-र्येण सप्तपरार्द्धसेनापतिना कपिना किं सिद्ध्यति कार्यं वचनवतः
अहो ज्ञातं सर्वदेव भद्रं यदुक्तोसि
वक्ति च रामः पृथिवीपतिना मया दुष्टनिग्रहणं कार्यं शिष्टपरिपालनं च वालिना सुग्रीवमहिषी रुमापहृता राज्यं च अतश्च न तादृग्वधे दोषः
तारोवाच- सुग्रीवोऽपि तर्हि वध्यो दुंदुभिना युद्ध्यता वालिना बिलेप्रविष्टेन वत्सरं तत्रोषितं तदंतरे च मामपहृत्य राज्यं च कृतं सुग्रीवेण तं पूर्वमपि पश्चात्तं हंतु
राम उवाच-। कियत्कालात्पूर्वमिदं च वद
तारोवाच- षष्टिवर्षसहस्रादर्वाकशीतितमे वर्षे रक्षोयुद्धे सुग्रीवेण राज्यमपहृतम्
पुनश्च वर्षांतरे प्राप्तेन वालिना सुग्रीवः पलायितः
अपहृता तस्य भार्या राज्यं चापहृतम्
तस्मिन्नेव दिने भवतः पितुर्दशरथस्याभिषेकः
राघव उवाच- मया पितुरनुशासनाद्राज्यगतदुष्टनिग्रहणं कृतम् । गुरुवचनस्यानुल्लंघनीयत्वात्तदपहरणवेलायां यो राजासनाचरत्