स च सुग्रीवस्य हनूमानित्युवाच
रामं नत्वा सुग्रीवमेत्य नत्वा देवनारायणइवापरः पुरुषो युवा मेघश्यामो जटी आजानुबाहुरतियशस्वी सूर्यसंकाशेन सहापरेण नरेण इहास्ते
अथ तरुच्छायाधः संस्थितौ सर्वलक्षणसंपन्नौ राजपुत्रौ दृष्ट्वा उक्तश्च ताभ्यां सुग्रीवाय निवेदयेति तत्त्वयि निवेदितम्
अथ सुग्रीवः सत्वरमुत्थाय पुष्पसलिलादिद्रव्यमादाय पादप्रक्षालनादिकं कृत्वा फलानि समर्प्य व्यज्ञापयत्
कौ युवां किमर्थमागतौ राजपुत्रौ तपस्विनाविति सुग्रीववचनमाकर्ण्य लक्ष्मणेनाभाषत रामः
दशरथतनयावावां रामलक्ष्मणौ दुष्टनिग्रह शिष्टपरिपालनाय वनं गताविति
अथ सुग्रीव आह युवयोरुपकारमपकारं कार्यमस्तीति लक्ष्यते
अन्यथा सेनासमेतावागमिष्यतः लक्ष्मण आह अस्ति कार्यांतरम् अमुष्य भार्या केनापहृता न ज्ञायते तामन्वेष्टुमागतौ तदेवावयोः कार्य्यमन्यदानुषंगिकम् तदर्थमपि जलधिं तराव अपि पातालं प्रविशाव अपि नाकं साधयावः अपि महेंद्रं पातयावः अपि बलिनं हनावः किमपि कुर्वहे
सुग्रीव उवाच- रावणेनापहृतया कयाचिद्ध्रियमाणागतया विभूषणानि कानिचित्परित्यक्ता निगतानि मया संगृहीतानि तानि दर्शयामीत्याभाष्य रामं मंदिरमागमय्य दर्शयामास
रामोऽपि निरीक्ष्य निश्चित्य प्ररुद्य क्व गतोऽसौ रावण इति पप्रच्छ स च दक्षिणामाशां गत इति बभाषे
अथ रामस्तेन सख्यमकरोत् अपृच्छच्च किमर्थमिह भार्य्याहीनः स्थित इति
सुग्रीव उवाच-। मम भ्राता वाली महाबलो ममभार्य्यां राज्यं चापहृत्य किष्किन्धायामास्ते युद्धेन चाहं पराजितः तद्वधाय सर्वथा मम चिंता यथासौ त्वया निहन्यते तथाहमपि सागरं बद्ध्वा परतीरे लंकायां स्थितां सीतां रावणेनापहृतां तव समर्पयामीत्याभाष्य शपथं कृत्वा सुग्रीवो वालिनातिबलिना युद्धायाहूतेन युयुधे
रामोप्यनंतरमनिश्चयाद्वालिनं नाहनत्
अथ सुग्रीवः पलायितो राममिदमभाषत
तव चित्तमविज्ञाय प्रवृत्तोऽहमरणाय
रामोपि युवयोर्विशेषाज्ञानान्मया तूष्णीं भूतं चिह्नितं त्वा निरीक्ष्यतं हन्मि
अथ सुग्रीवश्चिह्नं कृत्वा वालिनं युद्धायाहूय समतिष्ठत
तारा बभाषे वालिनम्
सहायवानिव लक्ष्यते सुग्रीवो नोचेदेवं नाह्वयति ज्ञातं मया रामलक्ष्मणौ दशरथतनयौ नारायणांशौ भूभारावतरणाय समागतौ तावस्य सहायभूतौ
वाल्युवाच- नीतिमान्राम इति मया श्रुतः । नहि बलवंतं विहाय दुर्बलं भजते तादृशः समायातु वा रामः प्रतिपन्नमधिकं कृत्वा बिभेति वीरो यदि रामः स्वयं युद्धाय यातस्तदा युद्धं कर्तव्यमित्याभाष्य तारां संभाव्य सुग्रीवयुद्धाय निर्य्यातः
अथ मुष्टियुद्धमन्योन्यमभूत्
रामोऽपि वालिनं जघान
पपात च वाल्याह चाशस्त्रयुद्धे वा बाणघातोऽथ शोणितसर्वांगो बभूव
अथ तारा चांगदश्च समागत्य व्यथितौ बभूवतुः
अथ राघवं वानराः समायाता वाल्युपांते निपेतूरुरुदुश्च
अथ तारा रामं बभाषे शास्त्रकुशलाः शूरा धार्मिका राघवाः पुरा चापि राम कथं पापमकार्षीः
न क्षत्रधर्म्मं जानीषे राजगणसेवितम्
अन्योन्यं युद्ध्यतोर्युद्धे जयो वा मरणं भवेत् । अन्यो यदितयोर्हन्याद्ब्रह्महा स निगद्यते
किं वैरेण वालिनमाहनः किं वानरमांसाशया
अभोज्यं वानरं मांसं यद्यात्मनोऽप्रियात्सुखाभावादपरेषामपि तथाभावं मन्यसे अहो विमोहाद्यदिमामादातुमिदं कृतमेकपत्नीव्रतं तव