अथ स रामो धनुर्ज्यास्थानमवनमय्य धनुषि जानुं कृत्वा सज्यमेककरेणोत्पादयन्कोट्यामनामयत्
अथसज्जीकृतं दृष्ट्वा सर्व एव नासाग्रन्यस्तांगुलयोऽभवन्
रामोऽपि ज्यामन्वनादयत् । तेन नादेन सर्वेषां मनांसि क्षुभितान्यासन्
रामेणसज्यितं धनुरिति सर्वत्र वादः संजातः
जनकोऽपि सीतां रामाय ददौ राजभिश्च युद्धं कृत्वा तान्निर्ज्जित्य स्वपुरीमागात्
अथैकदा दशरथो रामं यौवराज्येभिषिच्य सुखी बभूव सर्वप्रजारंजनाच्च रामो राजानुमत इति सर्वप्रजावादोऽभूत्
अथ कैकयदेशाधिपतितनया सुवेषा रामं राजानमसहमाना राजानमुवाच मम वरदानावसर इति राजाचिंतयत्किं देयमिति
देव्युवाच-। चतुर्दशवर्षाणि रामो वनं विशतु पालयतु राज्यं भरतः
राजानृतवचनदोषभयात्कथंकथमपि स्वीचकार
अथ वसिष्ठं भावितयावोचत रामो वनाय निर्गच्छति अस्य किंवा भवेदिति विचार्य शुभाशुभं ब्रूहि
वसिष्ठो विचार्य सहर्षं राजानमुवाच
गत्वा वनं निखिलदानववीरहंता शंभोरनेकविधपूजनमातनोति । सीतावियोगरुषितः कपिसेनया च तीर्त्वोदधिं दशमुखं च निहंति रामः
आगम्य राज्यं रघुनंदनोऽपि बहूनि वर्षाणि समातनोति । प्रशस्तकीर्तिर्निखिलेपि लोके शर्वेण देवेन चिरं न्यवात्सीत्
सुपुत्रयुक्तो बहुयज्ञयाजी परिवृढः सर्वगुणाधिकश्च
इति वसिष्ठवचनं श्रुत्वा दशरथो रामगुणाननुस्मरन्नित्युवाच श्रेयो मे मरणं रामस्य निर्गमने इति
अथ रामो मातरं पितरं गुरुं च वसिष्ठं पितृपत्नीर्नमस्कृत्य वनाय जगाम
अथोपवने दिनमेकं स्थित्वा जटाः कारयित्वा वल्कलं वासो धृत्वैकोपवीती कृतदंतशुद्धिरेकेनोपवीतेन जटां बद्ध्वा भस्मोद्धूलितसर्वांगो भसित निष्ठुरकायो मुक्ताफलदाममणिव्यत्यस्त रुद्राक्षमालामुरसि दधानोऽल्पभूषणाधिभूषित सीतासहायो लक्ष्मणानुचरो विवेश वनांतरम्
अथानेक राक्षसांस्तस्मिन्निजघान भवानिव निखिलं चकार सीतापहरणादिनिखिलमपि भवता यथातथा स्याथ सुग्रीवाश्रममृष्यमूकपर्वतं रामो जगाम निबिडच्छायाचूतवृक्षमासाद्य लक्ष्मणसहायः परिश्रयमकल्पयत् । वृक्षे तु धनुषी आरोप्यासीनलक्ष्मणांके शिरः कृत्वा हरिचर्मशय्याशयनोलक्षितांगीतिं शृण्वन्वृक्षफलं निरीक्षमाणो वानरमेकं मणिकुंडलं हेमपिंगलं सदृढबद्धमौंजीकौपीनमच्छोपवीतिनमतिचंचलं फलमादायात्मनिविक्षिपंतं पुष्पमंजरीश्च किरंतं गानमनुकुर्वंतं व्यजनेन रामं वीजयंतमारुह्य शाखामपि तथा वीजयंतमाबद्धचूतफलमात्रं रामो वीक्ष्य लक्ष्मणमभाषत
लक्ष्मण कोऽयं कपिरिति
लक्ष्मणोऽपि न जान इत्युवाच अथ रामः समाहूय कस्य त्वं किं नामत्येपृच्छत्
स च सुग्रीवस्य हनूमानित्युवाच
रामं नत्वा सुग्रीवमेत्य नत्वा देवनारायणइवापरः पुरुषो युवा मेघश्यामो जटी आजानुबाहुरतियशस्वी सूर्यसंकाशेन सहापरेण नरेण इहास्ते
अथ तरुच्छायाधः संस्थितौ सर्वलक्षणसंपन्नौ राजपुत्रौ दृष्ट्वा उक्तश्च ताभ्यां सुग्रीवाय निवेदयेति तत्त्वयि निवेदितम्
अथ सुग्रीवः सत्वरमुत्थाय पुष्पसलिलादिद्रव्यमादाय पादप्रक्षालनादिकं कृत्वा फलानि समर्प्य व्यज्ञापयत्
कौ युवां किमर्थमागतौ राजपुत्रौ तपस्विनाविति सुग्रीववचनमाकर्ण्य लक्ष्मणेनाभाषत रामः
दशरथतनयावावां रामलक्ष्मणौ दुष्टनिग्रह शिष्टपरिपालनाय वनं गताविति
अथ सुग्रीव आह युवयोरुपकारमपकारं कार्यमस्तीति लक्ष्यते
अन्यथा सेनासमेतावागमिष्यतः लक्ष्मण आह अस्ति कार्यांतरम् अमुष्य भार्या केनापहृता न ज्ञायते तामन्वेष्टुमागतौ तदेवावयोः कार्य्यमन्यदानुषंगिकम् तदर्थमपि जलधिं तराव अपि पातालं प्रविशाव अपि नाकं साधयावः अपि महेंद्रं पातयावः अपि बलिनं हनावः किमपि कुर्वहे
सुग्रीव उवाच- रावणेनापहृतया कयाचिद्ध्रियमाणागतया विभूषणानि कानिचित्परित्यक्ता निगतानि मया संगृहीतानि तानि दर्शयामीत्याभाष्य रामं मंदिरमागमय्य दर्शयामास
रामोऽपि निरीक्ष्य निश्चित्य प्ररुद्य क्व गतोऽसौ रावण इति पप्रच्छ स च दक्षिणामाशां गत इति बभाषे