राजोवाच श्रीमन्मम कन्या वैदेही रामाय दित्सिता स्वयंवरे कुलरूपबलोत्साह संपन्नानेकभूपराक्षसविप्रादिसर्वप्राणिसमागमे रामाधिकबलो यदि तामग्रहीष्यत् तदा वचनमनृतं मम पापं च भविष्यति
प्रत्युत दशरथोऽपि सर्वानेवागतान्विजेतुमलं क्षत्रकदनश्च रामो यद्यायास्यति तर्हि मम सुतां किं करिष्यति वा किंकिं वा प्रेषयिष्यति कीदृशं कारयिष्यति मम किंवा करिष्यति सर्वथा हि प्रभूतबलवाहनो नरपतिरशेषमपि त्रिभुवनं हन्यात् किमुत मामल्पसत्वं किमुत बहुना भवानेव शरणं ममोपायं वद यथा विवाहे श्रेयो भविष्यति रामश्च जामाता भविष्यति
शंभुरपि तथा करोमीत्युवाच
राम एव नाथः सीताया भविष्यति रामं च कृत्वा स्वस्त्यद्यैव करिष्यामि गृहाणाजगवं धनुरिदम्
राजोवाच- किमेतेनाजगवेन धनुषा स्वयंवरे सीतां रामं प्रापय
शंकर उवाच- इदं धनुरसज्यं मे यस्तु सज्यं करिष्यति तस्मै देया मया सीता प्रतिज्ञामेवमाचर
इत्येवमुक्त्वा भगवान्गणैरंतर्दधे हरः । अथादातुं धनू राजा न शशाकातियत्नतः
अथोज्ज्वलं शतसहस्रगजबलं समाहूय गृहाणेत्युवाच
स चापि मातुलं नत्वाट्टहासं कृत्वोत्प्लुत्य धनुर्द्वाभ्यां कराभ्यामुद्दधार जानुपर्यंतं मातुलो मारीचः श्रुत्वा एकाकी विप्रवेषं कृत्वा विदेहमयाचत वैश्वदेवांते प्राप्तमतिथिं मामवैहि
राजोवाच- स्वागतं भो इदं ब्रह्मन्नासनं तत्र निषीदेति
स चातिथिस्तथेत्युक्त्वा निषसाद
अथ राजा जलमादाय पादौ प्रक्षाल्य गंधपुष्पाक्षतैरभ्यर्च्य महाजं तस्मै निवेद्य भोजनाय प्रार्थयामास
स चापि तदन्नं षड्रसोपेतं सौवर्णभाजनगतमीक्षमाणइवेतस्ततो विलोकयामास
तस्मिन्नेवावसरे सीता पद्मकिंजल्कप्रभेषदरुणवसनं बिभ्रती नीलकुटिलकुंतलैश्चलद्भिर्यूनां मनांस्याकर्षयद्भिः प्रेक्षमाणदृष्टिभग्नकलैरिव स्त्रीणां चित्तमीदृशमिति दर्शयद्भिरिवोपशोभित-ललाटानंगचापसुभ्रूपद्मपत्रारुणविलोचना तिलप्रसूननासामृदुस्निग्धरो मशकपोलानंतरा रक्तोष्ठराक्तासनमाणिक्यनिभदाडिमीदशना जपाकुसुमारुणाधरातिशोभितचिबुकाशुक्ति-कर्णासमदीर्घकंठातिमांसलवक्षाः पीनोद्भिन्नकुचकुड्मलानेकहारोपशोभिता सुभगाका-। रानतिमांसलबाहुलता मुग्धायतसमानांगुलिशिखापद्मारुणपल्लवाविविधबहुरत्नांगुलिभूषणामुष्टिग्राह्यमध्यासु रोमराजिगंभीरनाभिः पृथुजघनाकरिकरोरुस्तूणीरजंघासुपादकमला-नूपुरादि पादविभूषणा पादांगुलीभूषिता विकसितसौगंधिकं विदधती भुंजानमारीचस्य पुरतश्चागता
वीक्ष्यासावचिंतयदेनां कथमपहरामि कथमालिंगामि कथमन्यत्किंचित्करोमीत्येवमवसरमलभमानस्तूष्णीमेव विनिर्गतः
अथ देवा धनुःसज्जीकरणाय यतमाना अहंपूर्विकया विद्यमाना अन्योन्यतिरस्कारेण महेंद्रः प्राप धनुरुत्तमं प्रांतद्वयात्परं नावनमयितुं शशाक
अथ सूर्यो धनुरादाय नमयन्नेव निपपात
वायुर्बलवतां श्रेष्ठो जग्राहाजगवमथ स्वेनैव करेणोत्कर्षयन्नधः पपात धनुश्च वायोरुपरि पपात अहसंस्तदा सर्वे
एतस्मिन्नंतरे तुरगवरमारुह्य बाणासुरः सहस्रबाहुरनेकानेकशिरोभिर्दैत्यैः परिवृतः प्रह्लादसमेतो विदेहपुरीमाजगाम
अथ स्वविभूषणोद्भासितां दिशं कुर्वन्स्वतेजसापयशसो देवताः कुर्वन्नानाविधगीतं शृण्वन्द्व्यंगुलमात्रेण शक्तो विरराम
प्रह्लादोबलिश्चैवधावातेऽथविरेमतुः
अथ राक्षसेषु तूष्णींभूतेषु राजानोऽतिबलिनः समागता ज्याबंधाशक्ता अपसृत्य तस्थुः
अथ ब्राह्मणाः समागताः
अथ विश्वामित्रो धनुरादाय एकांगुलपर्यंतं सज्यं कृत्वा विरराम निवृत्ताश्चापरे
अथ दिनमात्रे धनुषि तूष्णींभूतेषु राघवः सहानुजैरागत्य धनुर्निरीक्ष्यास्पृशत्
अथ राजकुमाराः शतशः समागताः सर्वाभरणभूषिता धनुर्दृष्ट्वापस्पृशुर्न चालनक्षमाः
अथ दाशरथिप्रमुखाःकुमाराः समागताः
अथ वेत्रझर्झरपाणयः समागमन्सर्वानेवापसारयामासुः
अथ रामो लक्ष्मरणहस्तं गृहीत्वा सर्वाभरणभूषितो धनुरासाद्य स्पृष्ट्वा नत्वा प्रदक्षिणीकृत्य धनुरादायोद्दधार
तदादानसमये सर्व एवैत्य सहासमूचुः अत्र भग्ना महारथा इति