नारदोप्यनुमेने
उवाच श्वः पराह्णे च क्षत्त्रविवाहश्च भवेदतः स्वयं वरार्थं नृपा आगच्छंतु तन्नृपदूतान्प्रेषय
अथ राजा दशरथानुमतेन सर्वानेव नृपानागमय्याचिंतयत् कथं सर्वानेव तिरस्कृत्य वैदेही रामाय देयेति
अथ रात्रौ मुहुर्मुहुर्निःश्वस्य निद्रालुरपि न निद्रामाप
अथ मध्ये निशं राजा शुचिर्भूत्वा त्र्यंबकं सांबिकं मंगलदुकूलधारिणं कमलभवपुरुषोत्तमशक्र-प्रमुखनिखिलदेवैर्भृगुप्रमुखमुनिवरैर्हाहाप्रमुखगंधर्वैस्तुंबुरुप्रमुखैश्च श्रुतिस्मृतीतिहासपुराणैर्मूर्तिमद्भिश्च सिद्धविद्याधरादिमातृकागणैश्च नंदीप्रमुखगणैश्च सेव्यमान पादकमलं सर्वामंगलपरिमोचकमतिपुण्यसलिलया गंगया निष्कलं केन चंद्रमसा सेव्यमान शिरोभागं वामांकारूढया गिरिजया प्रदीयमानवीटिं सहासं सकामं सहावेक्षणमाददानं गोक्षीरसदृशं प्रतिकूलकस्तूरिकासदृशकंठं मृदुसूक्ष्मस्निग्धजटाभिर्विरचितकपर्दं विशुद्धकार्तस्वरकुंडलोपशोभितगंडभागं द्विरष्टवर्षवयसं गोक्षीरसदृश स्थूलमुक्ताफलकौसुंभवर्णांचलेनावेष्टितशिरोभागं विविधरत्नविरचितकार्तस्वरभूषितवक्षःस्थलमतिधवलोपवीतेनोपशोभितशरीरमंबिकानुलग्नकुंकुमारुणसुगंधिशरीरमीक्षमाणं तर्जमानकाममार्गणं कोटिकंदर्पसदृशं मनसाचिंतयत्
जजाप शतरुद्रियं जुहाव च तेनैव कामाहुतीः प्रास्तुवच्च पुरुषसूक्तेन
अथ तादृश एव महेश्वरस्तत्र प्रादुरभूत्
अथ राजा नमस्कृत्यास्तुवीत
राजोवाच- क्षितिसलिलगगनपवनदहनरविशशियजमानमूर्तिभिरष्टमूर्ते विश्वमूर्ते लोकमूर्त्ते त्रिभुवनमूर्ते वेदपुराणमूर्त्ते यज्ञमूर्ते स्तोत्रमूर्त्ते शास्त्रमूर्त्तेस्वधामूर्त्ते नारायणमूर्त्ते सर्वदेवतामूर्त्ते त्रयीमयत्रयीप्रमाणत्रयीनेत्रसा-मप्रियवसुधाराप्रियभक्तिप्रियभक्तसुलभाभक्तविदूरस्तुतिप्रिय धूपप्रिय दीपप्रिय घृतक्षीरप्रिय द्रो णकरवीरप्रिय श्रीपत्रप्रिय कमलकह्लारप्रिय नंद्यावर्तप्रिय बकुलप्रिय यूथिकाप्रिय कोकनदप्रिय ग्रीष्मजलावासप्रिय यमनियमप्रिय नियतेंद्रियप्रिय जपप्रिय श्राद्धप्रिय गायनप्रिय गायत्रीप्रिय पंचब्रह्मप्रिय सदाचारप्रिय गोत्रोत्सादिकमलभवहरिहरनयनसमर्चित पादकमलजयप्रद हरिप्रार्थितजलोत्पादितचक्रप्रदर्शकृत्स्मृतियुक्तिप्रद स्मृतमंगलप्रद मृत्युञ्जय नमस्ते नमस्ते
इति स्तोत्रमाकर्ण्य भगवान्भवो राजानमुवाच वरदोऽहं वरं वृणु
राजोवाच श्रीमन्मम कन्या वैदेही रामाय दित्सिता स्वयंवरे कुलरूपबलोत्साह संपन्नानेकभूपराक्षसविप्रादिसर्वप्राणिसमागमे रामाधिकबलो यदि तामग्रहीष्यत् तदा वचनमनृतं मम पापं च भविष्यति
प्रत्युत दशरथोऽपि सर्वानेवागतान्विजेतुमलं क्षत्रकदनश्च रामो यद्यायास्यति तर्हि मम सुतां किं करिष्यति वा किंकिं वा प्रेषयिष्यति कीदृशं कारयिष्यति मम किंवा करिष्यति सर्वथा हि प्रभूतबलवाहनो नरपतिरशेषमपि त्रिभुवनं हन्यात् किमुत मामल्पसत्वं किमुत बहुना भवानेव शरणं ममोपायं वद यथा विवाहे श्रेयो भविष्यति रामश्च जामाता भविष्यति
शंभुरपि तथा करोमीत्युवाच
राम एव नाथः सीताया भविष्यति रामं च कृत्वा स्वस्त्यद्यैव करिष्यामि गृहाणाजगवं धनुरिदम्
राजोवाच- किमेतेनाजगवेन धनुषा स्वयंवरे सीतां रामं प्रापय
शंकर उवाच- इदं धनुरसज्यं मे यस्तु सज्यं करिष्यति तस्मै देया मया सीता प्रतिज्ञामेवमाचर
इत्येवमुक्त्वा भगवान्गणैरंतर्दधे हरः । अथादातुं धनू राजा न शशाकातियत्नतः
अथोज्ज्वलं शतसहस्रगजबलं समाहूय गृहाणेत्युवाच
स चापि मातुलं नत्वाट्टहासं कृत्वोत्प्लुत्य धनुर्द्वाभ्यां कराभ्यामुद्दधार जानुपर्यंतं मातुलो मारीचः श्रुत्वा एकाकी विप्रवेषं कृत्वा विदेहमयाचत वैश्वदेवांते प्राप्तमतिथिं मामवैहि
राजोवाच- स्वागतं भो इदं ब्रह्मन्नासनं तत्र निषीदेति
स चातिथिस्तथेत्युक्त्वा निषसाद
अथ राजा जलमादाय पादौ प्रक्षाल्य गंधपुष्पाक्षतैरभ्यर्च्य महाजं तस्मै निवेद्य भोजनाय प्रार्थयामास
स चापि तदन्नं षड्रसोपेतं सौवर्णभाजनगतमीक्षमाणइवेतस्ततो विलोकयामास
तस्मिन्नेवावसरे सीता पद्मकिंजल्कप्रभेषदरुणवसनं बिभ्रती नीलकुटिलकुंतलैश्चलद्भिर्यूनां मनांस्याकर्षयद्भिः प्रेक्षमाणदृष्टिभग्नकलैरिव स्त्रीणां चित्तमीदृशमिति दर्शयद्भिरिवोपशोभित-ललाटानंगचापसुभ्रूपद्मपत्रारुणविलोचना तिलप्रसूननासामृदुस्निग्धरो मशकपोलानंतरा रक्तोष्ठराक्तासनमाणिक्यनिभदाडिमीदशना जपाकुसुमारुणाधरातिशोभितचिबुकाशुक्ति-कर्णासमदीर्घकंठातिमांसलवक्षाः पीनोद्भिन्नकुचकुड्मलानेकहारोपशोभिता सुभगाका-। रानतिमांसलबाहुलता मुग्धायतसमानांगुलिशिखापद्मारुणपल्लवाविविधबहुरत्नांगुलिभूषणामुष्टिग्राह्यमध्यासु रोमराजिगंभीरनाभिः पृथुजघनाकरिकरोरुस्तूणीरजंघासुपादकमला-नूपुरादि पादविभूषणा पादांगुलीभूषिता विकसितसौगंधिकं विदधती भुंजानमारीचस्य पुरतश्चागता
वीक्ष्यासावचिंतयदेनां कथमपहरामि कथमालिंगामि कथमन्यत्किंचित्करोमीत्येवमवसरमलभमानस्तूष्णीमेव विनिर्गतः
अथ देवा धनुःसज्जीकरणाय यतमाना अहंपूर्विकया विद्यमाना अन्योन्यतिरस्कारेण महेंद्रः प्राप धनुरुत्तमं प्रांतद्वयात्परं नावनमयितुं शशाक
अथ सूर्यो धनुरादाय नमयन्नेव निपपात
वायुर्बलवतां श्रेष्ठो जग्राहाजगवमथ स्वेनैव करेणोत्कर्षयन्नधः पपात धनुश्च वायोरुपरि पपात अहसंस्तदा सर्वे
एतस्मिन्नंतरे तुरगवरमारुह्य बाणासुरः सहस्रबाहुरनेकानेकशिरोभिर्दैत्यैः परिवृतः प्रह्लादसमेतो विदेहपुरीमाजगाम
अथ स्वविभूषणोद्भासितां दिशं कुर्वन्स्वतेजसापयशसो देवताः कुर्वन्नानाविधगीतं शृण्वन्द्व्यंगुलमात्रेण शक्तो विरराम