बालिकाश्च विद्युल्लतांशुशोधितगात्रयष्टय उद्भिन्नकुचकमलकुड्मलविविधहारोपशोभिवक्षसो यत्किंचिद्भाषिण्योऽतिचपलमृदुगतयो वृद्धवनिताश्चागच्छन्
अथ विदेहे पुरतः क्रोशमात्रे चूतवनिकायां विविधविटपविस्तरप्रदेशविविधविहंगकूजिता-कर्णनदत्तकर्णवनहरिणशाववत्यां महारजतनिर्मितोच्चनीचप्रासादोपशोभितप्रदेशविविधविहंगायां हेमवल्कलसंवीतभसितो-द्धूलितशरीरजटिलमुनिगणध्यानोपासनोपशोभितवृक्षमालायां विविधविद्यधरवधूपयोधरभाराभिभूतविचरिततरंगसरसीयुतायां सरस्तीरमिलितसैरंध्रीयुवतिभिराहूयमान तरुणजनायां नानावर्णकुसुमसौरभवासिताशेषप्रदेशायामितस्ततो रिरंसया प्रदर्शितस्फारशफरीविलोचनतरलचक्षुषा प्रभाविलसितशरीरवेश्याजनायां विविधाश्चर्ययुतायां दशरथः सामात्यपुरोहिताभिरामरामादिपुत्रसहितः सुखमुवास
अथ वैदेहोऽपि मिथिलां नानापताकोपशोभितां विविधप्रासादगोपुरोद्यानदेवतायतनोपशोभितामन्योन्यकेलिचतुरयुवतिजनानुकीर्णामुशीरविरचितमहाप्रपां सुकेलीजनोपशोभितविशिखां । विविधपण्योपशोभितरथ्यां तत्रतत्र ब्रह्मघोषशोभितमठां प्रतिमंदिरं मीमांसादिव्याख्यानसंपादि सामाध्ययनां सुपुण्यहविर्गंधसामादिस्वरपदक्रमश्रुतिब्राह्मणवाटिकामनेकपरिवृढमंदिरप्रवेशनिष्क्रीतागुरुकुंकुमाध्वर्य्युवेषां मृदुलवसन तांबूल रक्तदंतच्छदकामिनीमृदुवचनकठिनवचनकरसंज्ञानिर्द्धारित प्रतिवचनविविधोपायना हरणकरजनोपशोभितां मृदुधवलजघनपरिवीतवस्त्रोपरिभागेन स्निग्धवर्तुलपरस्परसंघर्षपयोधरमध्यप्रदेशोपशोभित वामांसकंदोपशोभितवनितां विविधमुक्ताहारजपासंकाशदशनच्छद मंदहासमालाकारसहस्रोपशोभितां पुण्यासवसाधनमंदिरां तत्रतत्र विचित्रतोरणां विशुद्धवीथिकां तत्रतत्र स्थापितकल्पपादपां रंभाविभूषितद्वारां पुरीं शोभितां शोभयामास
अथाभिकलनार्थं विलासिन्यो निशादूर्वाक्षतामंत्रमंगलकज्जलितकैशिकधमिल्ललताग्रंथि-त जटोपशोभित सीमंतशीर्षशोभितनासामुखविचित्राभरणार्हणहेमपात्रावस्थिताज्यगुग्गलु फलादिसौभाग्यद्रव्यमुद्वहंतीभिः स्त्रीभिरन्यैरपिशोभितजनैः स राजा निर्जगाम
तदानीं मंगलतुर्यघोषादेव दुंदुभिभेरीनिःसाणमर्दलशंखादिनादाः प्रादुर्बभूवुः
गायकाश्च मंगलानि जगुः
मंगलवेदवाक्यानुपाठेन वैदिकाः ब्राह्मणाः । कुलपाठका भेरीघोषेण कृत्स्नमाकाशमापूरयन्
अथान्योन्याक्षतपूर्वमंगीकुर्वंतः सूतबंदिजनादिभिः स्तूयमानाः पुरं प्रविविशुः
विदेहनगरात्पश्चिमभागे निर्मितं मंदिरं दशरथः प्रविवेश
अवशिष्टाश्च यथायोग्यं भवनं विविशुः
अथ नारदो मिथिलां तदानीमेवागच्छत्
विदेहोऽपि देवर्षिमभिपूज्य स्वागतं दृष्ट्वा भोजनं कारयित्वा। सुखासीनाय मुनये सघनसारं तांबूलं दत्वा व्यज्ञापयत्
श्वो विवाहे भवान्स्थातुमर्हति कारयितुं विवाहम्
श्वो हि नक्षत्रं सूर्यनक्षत्रदर्शनं तत्र विवाहो न कर्तव्य इति
अथ मौहूर्तिकं वृद्धगार्ग्यमाहूय राजा पप्रच्छ क्व विवाहमुहूर्तः
श्व इति गार्ग्य उवाच
राजा च नारदं गार्ग्यं चोदीक्ष्य भो इदमित्थमिति पप्रच्छ
अथ नारदो गार्ग्यमुवाच
कथमुक्तं लग्नं दास्यसि
अथ गार्ग्यो विषघटिकाश्च विहाय लग्नं दास्यामि इत्युवाच
नारदोपि ब्रह्मवचनानि किं न जानासीत्युक्तवान्गार्ग्यम्
गार्ग्यस्तुष्टस्तान्दोषानपठत्
उल्का च ब्रह्मदंडश्च मोघः कंपस्तथैव च । सर्वकार्यविनाशाय दृष्टा वै ब्रह्मणा पुरा
प्रतिष्ठासु विवाहेषु मौंजीबंधाभिषेकतः । अन्येषु सर्वकार्येषु विषनाडीर्विवर्जयेत्
अतः परं तु कार्य्याणां करणेन च दोषभाक् । विवाहादिषु कार्येषु दोषमेव वदाम्यतः
उल्का दहेत्कुलं सर्वं ब्रह्मदंडो विनाशयेत् । मोघस्तु मरणा यस्यात्कंपः कंपाय कर्म्मणः
इति नारदोक्तमाकर्ण्य गार्ग्यो मुनिर्मौनपरोऽभवत्
दध्यौ रविं ग्रहपतिं विहाय विषनाडीर्विवाहः क्रियतमिति
नारद उवाच- कथं ब्रह्मवचनम्
सूर्य उवाच- देशभेदेन व्यवस्थोदिता तदस्मिन्देशे विवाहो विषघटिकां विहाय कर्तव्य एव