प्रसन्नो भगवान्मुनिरीप्सितं पुत्रं यच्छति तदमुमाराधयस्वेति दशरथमुक्तवान्
स चापि साध्यं तत्र स्थाप्य गत्वायोध्यां तथा सर्वं कृतवान्
अथ पुत्रकामेष्टौ समाप्तायामाहवनीयाद्यज्ञमूर्तिः शंखचक्रगदापाणिरुदतिष्ठत् । राजानं च वरं वृणीष्वेत्युक्तवान्
स च राजा वव्रे पुत्रानतिधार्म्मिकान्दीर्घायुषश्चतुरोलोकोपकारकान्देहीति
अथ राजमहिष्यश्चतस्रः कौशल्या सुमित्रा सुरूपा सुवेषा चेति
राजानमब्रुवन्देव प्रतियोषमेकेन पुत्रेण भवितव्यम्
अथ कौशल्योवाच एष यदि प्रसन्नो देवस्तदायमुत्पद्यतां मम
राजोवाच- मम यदिष्टं तदयं प्रार्थ्यते हरिः । विष्णोप्रसीददेवेश कमलापते शंखचक्रगदाधरविभीषणसृष्टिसमस्तलोकपालादिपूजित पादयुगलशाश्वतहरे नमस्ते नमस्ते एवं स्तुतो भगवानथ राजानमाह
माधव उवाच- तव पुत्रो भविष्यामि कौशल्यायाम् । अथ चरुं प्राविशद्धरिः । तं चरुं हि चतुर्धा विभज्य भार्य्याभ्यो दत्तवान्
अथ कौशल्यायां रामो लक्ष्मणः सुमित्रायां सुरूपायां भरतः सुवेषायां शत्रुघ्नो जज्ञे खात्पुष्पवृष्टिश्च पपात
अथ चतुराननः स्वयमुपेत्य जातकर्मादिकाः क्रियाश्चक्रे
त्रिभुवनाभिरामतया राम इति नाम चक्रे रूपशौर्य्यादिलक्ष्मीयोग्यतया लक्ष्मण इत्यपरस्य भुवं भारात्तारयतीति भरतः शत्रून्हंतीति शत्रुघ्न इति नामानि कृत्वा ब्रह्मा स्वभवनं जगाम शिशवश्च वृद्धिमीयुः
अथ पादसंचारिणं बालचंद्र संकाशदर्शनं बिंबाधरमुन्नततिलप्रसूननासं पुरश्चूलिकालंबमान-रत्नपत्रकं श्रवणलोललंबमानकुंडलं वक्षःस्थलविचलित स्थूलमुक्ताहारं विलसत्कार्तस्वरो ब-ह्वलयं सिंजन्मणिकंकणरत्नांगुलीयकं हेममणिरचितश्रोणिसूत्रं सिंजन्ननूपुरोपशोभितपादमंगुलीयोपशोभितपादमध्यांगुलीयकं वज्रांकुशसरोजलांछनशोभितोरुपादतलं तूणीरसदृश जंघं करिकरसदृशोरुं विस्तृतजघनं सूक्ष्ममध्यंवर्तुलावर्तकं गंभीरनाभिमिंद्रनीलशिलाविशा-ल वक्षःस्थलं कंबुग्रीवंचंद्रबिंबसदृशवदनमर्द्धचंद्र सदृशललाटं नीलकुटिलकुंतलं क्रोडासक्तंधूलिभिरापांडुरं फुल्लपद्मदलारक्तविलोललोचनं महेश्वरमिवोद्धूलितभूतिं महेश्वरमिव दिगंबरं रामं कुमारं राजा दशरथो दृष्ट्वा हर्षपरिपूर्णहृदयः पुत्रमालिंग्य चुंबित्वा वक्षस्यालिलिंग दृढम्
अथ कुमारोपि पार्श्वेनास्यांकमारोप्य कलकलितलोचनो यत्किंचिदुवाच
याचमानमितस्ततो वीक्षमाणः तात गच्छेशये तात क्रीडामि तातेत्यादिपुत्रसुखमनुभूयानुभूय निर्वृतिं ययौ
अथ कदाचिद्भोक्तुमागते राजनि रामचंद्रो बालक्रीडासक्तहृदयो बहुक्रीडनकरकमल उत्प्लुत्य धावमानो नरपतिपुरःस्थितमणिखचितसुवर्णभाजनस्थमन्नं वामकरेण गृहीत्वा राजनि चिक्षेप इदमपि राजा सुखाय मेने । एतादृशान्यन्यानि चकार रामचंद्रः
अथ कदाचित्क्रीडमाने रामे वात्या राममपातयद्रामश्च रुदन्नपतत्
एतस्मिन्नंतरे ब्रह्मराक्षसो राममगृह्णाद्रामश्च मूर्च्छामाप
अथ सहचरो बाल इतस्ततो रोरूयमाणो रामं तथाविधं राज्ञे व्यज्ञापयत्
अथ राजा राममादाय वसिष्ठमाह किमिदं रामस्येति पप्रच्छ
अथ वसिष्ठो भस्मादायाभिमंत्र्य ब्रह्मराक्षसं मोचयामास
पप्रच्छ को भवानिति स चाहाहं वेदगर्वितो ब्राह्मणो बहुशः परधनमपहृत्य ब्रह्मराक्षसो जातो मे निष्कृतिं विचारय
वसिष्ठ उवाच- इदानीमितः परमेकवर्षशतोपभोग्यं राक्षसत्वं नरकं भागीरथीस्नानमेकं शिवाय बिल्वपत्रशतं समर्प्य ततः स्नात्वा पापाद्विमुक्तो भवसीति
कदाचित्तादृशं कृतपुण्यं तव पदं प्रयच्छामि तदुपरिशिष्टां गतिं भजेति वसिष्ठवाक्यमाकर्ण्य ब्रह्मराक्षसो वसिष्ठोपदिष्टपुण्यवशाद्दिव्यशरीरो भूत्वा नमस्कृत्वा स्वर्गं जगाम
अथ रामं प्राप्तेकाले उपनीय वसिष्ठो वेदानध्यापयामास षडंगानि मीमांसाद्वयं नीतिशास्त्रं चाध्यापयामास
अथ धनुर्वेदमायुर्वेदं भरत गांधर्व वास्तु शाकुन विविधयुद्धशास्त्राणि च
अथ विवाहं कर्तुकामेन राज्ञा दशरथे नानानादेशजनपतीन्प्रति दूताः प्रेरिताः
अथ कश्चिच्छीघ्रमागत्य राजानमिदमब्रवीत्
राजन्विदर्भदेशाधिपतिर्विदेहोनाम राजा तस्य पुत्री वैदेही होमलब्धारूपेण लक्ष्मीसमा सर्वलक्षणसंपन्ना रामयोग्या विद्यते स च तां दातुं राजा रामायोद्यतः तद्गम्यतां शीघ्रमिति
अथ वसिष्ठादीन्प्रेषयामास ते च तत्र गत्वा तां च निरीक्ष्य लग्नं निश्चित्यायोध्यामेत्य राजानमुक्त्वा रामसहिताः पृथिवीपतिसमेताः शीघ्रं विविध करि तुरग शकट शिबिकांदोलिकाभिरतिसुभगरूपभोगविलासक्रियानिपुणा विदितविविधचेष्टागंधर्वाः कामशास्त्रसुकुशलाः मृदुकठिनपृथुपयोधरासन्न कंठाः स्थूलसूक्ष्मललाटबिंबदशनच्छदमुखपंकजाः कुटिलकुंतलदीर्घकेशधम्मिल्लाः कनकपत्रकर्णाः स्नानचेष्टयोत्थितरोमशोभित जपाकुसुमरक्तदशना विशदविस्फुरच्छफरीलोचनाः शुक्तिकासदृशश्रवणाः नक्षत्रसदृशस्थूलमुक्ताफलोपशोभितनासापुटा मुकुरसदृशकपोलास्तिलप्रसूननासिका आनम्रमध्यप्रदेशचूचुका इंद्रगोपप्रतीकाशाधरपुटदशनक्षताः समदीर्घकांगप्रदर्शनास्थितसर्वप्रदेशवर्तुला नातिमांसलाः पिंडकाग्रंथिनीव्योवलितबाहुमूला अनतिचिरकालोत्थितरोमतया हरिद्रा वर्णतया च कर्णिकारदलसदृशबाहुमूला मृदुस्निग्धवर्तुलसूक्ष्ममध्यप्रदेशाः कठिनस्थूलवर्तुलामग्नचूचुकपरस्परस्थानाक्रमणस्पर्द्धि पयोधरमध्यलब्धपदकपयोधरोपरिचंचलविविधमणिमय हारोपशोभित वक्षःस्थलाः पयोधरपरितो लब्धपदतया तरुणदृष्टिपरम्परतया असमानयानाभिकूपोपरितन रोमराज्योपशोभितोदरप्रदेशा भज्यमान मध्यस्थलीकरणएव वलीत्रयोपशोभित मुष्टिग्राह्यमध्याः करिकरोपमजघनप्रदेशा अरोमसदृशमृदुस्निग्धामला समजान्व्यः कदलीस्तंभसंनिभोरुयुगला आमग्नजानुकृशकुशवर्तुलपिंडिकारहितजंघा आमग्नगुल्फा आसूक्ष्मस्निग्धा दीर्घदीर्घांगुली पादानूपुररवाह्वयमानमदना हंसमतंगजगमना दक्षिणांगुष्ठस्पर्शिकच्छाग्रा उपरिकच्छं नीवीं कृत्वा करद्वययुता वस्त्रप्रदेशकंठमप्रावृत्या परवसनपरिभागा वृतस्तनवसना परभागे वामांस एव दक्षिणपार्श्वगतेन दशाभागेन नाभिप्रांतेन प्रवेशितोपशोभितगात्रयष्टयो योषितो विवाहमंगलकर्मकरणायानेकश आगच्छन्