श्रीराम उवाच- कीर्तय पुराणं मे शुश्रूषुः कुतूहलादहं प्रणीतं तत्केन च विज्ञातम्
जांबवानथ बभाषे हि विधात्रे नमो नमस्तथैव विधुभूषणकेशवाभ्याम्
अथ पुरातनं रामायणं कथयामि
यस्य श्रवणेनाखिलजन्मसंपादित पापक्षयो जायते
अथ तथापि दशरथो दशरथसमानरथी महीयसा बलेन सुमानसनामनगरजिगीषया पंकेरुहसुतसुतं वसिष्ठमाहूय नमस्कृत्वा मुनिदत्तानुज्ञः शताक्षौहिणीसेनया सहारुह्य तुरंगमं चंद्र समानशरीरमतिरोषसमाविष्टो विष्टरश्रवसमाराध्य दंडयात्रां चकार
साध्यो नाम स्वीयया सेनयावृतो दशरथाभिमुखमाययौ योद्धुं युद्धं चान्योन्यमभूत्
मासमेकं युद्धं कृत्वा दशरथस्तं साध्यं जग्राह
अथ साध्यसूनुर्भूषणोनामाल्पपरिवारो युयुधे दशरथेन
दशरथोऽपि साध्यसूनुं भुवोभूषणमवलोक्य योद्धुमेव नैच्छत्
कथमेतादृशं हन्मि चास्मिन्हतेऽस्य कथं पिता भविष्यति कथं तन्माता कथमप्रौढयौवनाप्रियार्या
अमुष्य हि देहे समालिंगनचुंबनपरिवर्तन नवीनतरदलारविंदपदानि कुसुमानीव दृश्यंते
एतत्समानवर्णवया एतादृशः सुभगः परमप्रीतिवर्द्धनोनाम पुत्रो भल्लूकभक्षितोमृतःस्मृतिपथं प्राप्यापि मां रक्षयितुमिच्छतीव मम हृदयमन्यथा करोति इति मनसा वितर्क्यातिबालकं ग्रहीतुमारभत्
स च साध्योपि पराधीनो बभूव
स च कुमारेण सह पराजय खेदमपि मत्वा सुखमध्युवास च
दशरथोऽपि तत्र मासं स्थित्वा तत्पुत्रसंदर्शनसुखमवलोक्याचिंतयत्
अहो सर्वदुःखापनोदनक्षममेतन्मुखावलोकनं पुत्रसंवर्द्धनंनाम सर्वराष्ट्रिको मम जयः पुत्रवियोगमनुस्मरतो दुःखाय केवलं भवति
तदस्य पृच्छां करोमि कथमीदृशो जायते पुत्र इति वितर्क्य तमपृच्छत्
साध्योऽपि सकलमोक्षमार्गं क्षितीशायादिशत्
हरीशानौ सहाराध्य सर्वैकादशीरुपोष्य द्वादशीषु ब्राह्मणानाराध्य तत्तत्कालभवं फलपूर्वमन्नाद्यं व्यंजनं पुष्पं च न्यायेन संपाद्य कपिलाघृतेन केशवं स्नापयित्वा मुद्गचूर्णेन संलिप्य स्वादूदकेन स्नापयित्वा सुरभिपाटीरं स्वयमुद्घृष्टं मृगनाभ्यागुरुसारेण वासमेतं देवांगं सर्वमुपलिप्य तुलसीदलैर्यूथिकाकरवीरनीलोत्पलकमल कोकनदद्रो णकुसुम मरुवदमनक गिरिकर्णिकाकेतकीदलपूर्वैर्यथासंभवमभ्यर्च्य द्वादशाक्षरेण पुरुषसूक्तेन वा नाम्ना षोडशोपचारेण वाराध्य प्रणम्य नृत्यं कृत्वा देवं क्षमापयेत्
तथा व्रतानि विचित्राणि नारायणप्रीणनाय कुर्य्यात्
प्रसन्नो भगवान्मुनिरीप्सितं पुत्रं यच्छति तदमुमाराधयस्वेति दशरथमुक्तवान्
स चापि साध्यं तत्र स्थाप्य गत्वायोध्यां तथा सर्वं कृतवान्
अथ पुत्रकामेष्टौ समाप्तायामाहवनीयाद्यज्ञमूर्तिः शंखचक्रगदापाणिरुदतिष्ठत् । राजानं च वरं वृणीष्वेत्युक्तवान्
स च राजा वव्रे पुत्रानतिधार्म्मिकान्दीर्घायुषश्चतुरोलोकोपकारकान्देहीति
अथ राजमहिष्यश्चतस्रः कौशल्या सुमित्रा सुरूपा सुवेषा चेति
राजानमब्रुवन्देव प्रतियोषमेकेन पुत्रेण भवितव्यम्
अथ कौशल्योवाच एष यदि प्रसन्नो देवस्तदायमुत्पद्यतां मम
राजोवाच- मम यदिष्टं तदयं प्रार्थ्यते हरिः । विष्णोप्रसीददेवेश कमलापते शंखचक्रगदाधरविभीषणसृष्टिसमस्तलोकपालादिपूजित पादयुगलशाश्वतहरे नमस्ते नमस्ते एवं स्तुतो भगवानथ राजानमाह
माधव उवाच- तव पुत्रो भविष्यामि कौशल्यायाम् । अथ चरुं प्राविशद्धरिः । तं चरुं हि चतुर्धा विभज्य भार्य्याभ्यो दत्तवान्
अथ कौशल्यायां रामो लक्ष्मणः सुमित्रायां सुरूपायां भरतः सुवेषायां शत्रुघ्नो जज्ञे खात्पुष्पवृष्टिश्च पपात