भारतस्याखिलस्यैव समाप्तौ क्षेत्रदो भवेत् । रामायणस्य श्रवणे कांडेकांडे प्रपूजयेत्
क्षेत्रं पर्याप्तमथवा सुवर्णमपि दापयेत् । व्याख्यातुर्गुरुवाक्यस्य सर्वकल्मषनाशनः
अर्थोधर्म्मश्च कामश्च मोक्षश्च नृपसत्तम । व्याख्याश्रवणतः सर्वे सिद्धयंति च सुबुद्धयः
ब्रह्महत्यादिपापानां सर्वेषामपि नाशनम् । एकेन श्रवणेनास्य किं नरैर्न श्रुतं भुवि
यानवसुसुवर्णाद्यैर्नित्यमेनं प्रपूजयेत् । व्याख्यातारं यतः पापसंदोहस्य विनाशनम्
अन्यान्यपि पुराणानि मुनिप्रोक्तानि तान्यपि । श्रोतॄणां पापनाशाय वक्तुश्चापि विशेषतः
यश्च सर्वपुराणानि षट्त्रिंशत्तु प्रकीर्तयेत् । शृणोति वा न तस्यास्ति चित्तच्छेदः कदाचन
ब्राह्मं पुराणं प्रथमं द्वितीयं पाद्ममुच्यते । तृतीयं वैष्णवं चैव चतुर्थं शैवमुच्यते
अथ भागवतं प्रोक्तं पंचमं षष्ठमुच्यते । भविष्यं नारदीयं च सप्तमं परिकीर्तितम्
मार्कंडेयमिति प्रोक्तमष्टमं नवमं तथा । आग्नेयं ब्रह्मवैवर्तं दशमं परिकीर्तितम्
लैंगं च वामनं चैव स्कांदं मात्स्यमथैव च । कौर्मं वाराहमुदितं गारुडं वाथ कीर्तितम्
ब्रह्मांडमित्यष्टादशपुराणानि विदुर्बुधाः । तथा चोपपुराणानि कथयिष्याम्यतः परम्
आद्यं सनत्कुमाराख्यं नारसिंहमतः परम् । तृतीयमांडमुद्दिष्टं दौर्वाससमथैव च
नारदीयमथान्यं च कापिलं मानवं तथा । तद्वदौशनस प्रोक्तं ब्रह्मांडं च ततः परम्
वारुणं कालिकाह्वानं माहेशं सांबमेव च । सौरं पाराशरं चैव मारीचं भार्गवाह्वयम्
कौमारं च पुराणानि कीर्तितान्यष्ट वै दश । अष्टादशपुराणानां व्याकर्ता तु भवेन्मनुः
इति श्रीपद्मपुराणे पातालखंडे शिवराघवसंवादे पुराणमाहात्म्यकथनंनाम पंचदशोत्तरशततमोऽध्यायः
सूत उवाच- संध्यावंदनकर्मक्रियतामिति रामो मुनिमाचष्टायम् । उष्णद्युतिरप्यस्तमुपैति द्विजकुलमेतन्नीडमुपैति
स्वयमपि संध्यावंदनकामोऽव्रजदुत्तरदिशमुज्झितयानः । हाहाहूहूकृतसंगीतिर्बंदीप्रमुखप्रस्तुतकीर्तिः
गौतमीतटमुपेत्य राघवो वायुनंदनसुधौतपद्युगः । जांबवत्कृतकरावलंबनः प्रापदुत्तमनदीं तु गौतमीम्
करद्वये धृतकुशः स राघवः प्रागमद्वरुणदिशामथोत्तमाम् । दत्वा ततोऽर्घत्रितयं यथाविधि प्रहृष्टरोमाथ जजाप सोंऽतरे
संप्रार्थयित्वा वरुणं यथाक्रमं शंभुं वसिष्ठं प्रणनाम राघवः । ताभ्यां कृताशीरगमन्मनःपदं हनूमता क्षालित पादपंकजः । जुहाव वह्नीनथ बंदिमागधैः संस्तूयमानोऽथ विनिर्ययौ बहिः
प्रहसच्चंद्र किरणैः सुधालिप्तमिवांबरम् । प्रसन्नताराकुसुमं वितानमिव सर्वतः
अथागच्छत्सौधतलं वृद्धामात्येन कल्पितम् । नानासनसमोपेतं सभास्थानं ययौ नृपः
अथ मुनिं ह्युपवेश्य स राघवः स्वयमपि प्रथमासनमाभजत् । कपिगणाः परितः पृथुविग्रहा रचनयास्थितिमाप्रतिपेदिरे
सुखस्थितं नृपमभिवीक्ष्य स द्विजो वचस्तदा समुचितमाह शंभुः । इहस्थितो भवति समस्तपूजितः कथं कथा नृपवर वर्तते गुहायाम्
आकर्ण्याथ रघूद्वहो द्विजवचः शुश्रूषुरासीत्कथां । तत्रस्थो निपुणं निवार्यवचनं सर्वैः श्रुतं तत्क्षणात् । शुश्रूषामि कथं महाद्भुततया स्वात्माश्रयामन्यथा । रक्षोबाधनवादिनीमथनृपः किंत्वेतदित्याह च
कुंभश्रोत्रवधः पुरा समजनि प्राप्तो दशास्यो वधं । पश्चादित्ययमन्यथा विरचितं रामायणं भाषते । कोऽयं विप्रवरः समस्तजनता नास्तिक्य संपादको । राज्ञांस्थानमुपेत्य वक्ति समया दंड्योऽथ पूज्योऽथवा
अथाह जांबवानमुं रघूत्तमं कथां प्रति । रामायणं न तावकं त्विदं हि कल्पितं मतम् । समस्तमत्र विस्तराद्वदामि देव तच्छृणु । पंकेरुहस्यसूनुतो मया श्रुतं पुराह्यभूत्
जांबवंतं विज्ञाप्य रामचंद्रो वचनमाह