दद्याद्द्रव्यमतो भूयः सचैलं शोभितं मृदु । भूषणानि यथार्हाणि स्वशक्त्या प्रतिपादयेत्
गंधपुष्पं प्रतिदिनं केवलं गंधमेव च । केवलं च तथा पुष्पं फलकाले फलान्यपि
तांबूलं च तथा दद्यान्नमस्कुर्याच्च भक्तितः । पुराणस्य समाप्तौ तु दद्याद्दानादिकं तथा
अधिकं तु तथा देयं भूहिरण्यादिकं नृप । न च तूष्णीमुपक्रम्य श्रोतुमर्हति कश्चन
सभासद्भिः कृता चैव या पूजैकेन वा कृता । देवस्थाने यथाशक्ति सर्वैः पूजनमिष्यते
तीर्थेपि च यथा राम पुण्येष्वायतनेषु च । स्वशक्त्या पूजनं कुर्यात्पुराणज्ञाय राघव
श्रोतुस्तु लक्षणं पूर्वं मयोक्तं तु भवेन्नृप । पौराणिकस्य सर्वस्य लक्षणं कथयामि ते
कुलहीनो महाव्याधिर्महापापी तिरस्कृतः । शौचाचारविहीनश्च वेदस्मृतिविवर्जितः
अन्यदेवः पूतिवचो व्यंगश्चाप्यधिकांगवान् । परपूर्वापतिः स्तेनः प्राणिहंता निराकृतिः
अथ वर्ज्यं पुराणं ते कथयामि नृपोत्तम । पूर्वज्ञैरुच्यमानं च यत्प्रोक्तं मुनिभिः परैः
व्यासादयो मुनिवरा यत्प्रोचुस्तदुदीरयेत् । पुराणस्थं पठेद्ग्रन्थं व्याख्यायेत विचारयन्
यया कयापि वा राम भाषयादेशभाषतः । न देशभाषा रचितं ग्रंथं श्रुत्वा फलं लभेत्
व्याख्या या कापि काकुत्स्थ पुराणस्य हिता हि सा । तस्मात्त्वं देवयाचस्व व्याख्यास्ये यत्पुराणकम्
शंभुरुवाच- एवं पौराणिकेनोक्तं श्रुतवानपि गौतमः । स्वयं वस्त्रत्रयं प्रादाद्ब्राह्मणाय महात्मने
कौर्मं पुराणं प्रथमं श्रुतवानिति नः श्रुतम् । दत्तवान्स्वर्णमधिकं वस्त्राणि च शुभानि च
अथ लैंगं च शुश्राव वैष्णवं वामनं तथा । पाद्मं च गारुडं चैव सौरं ब्राह्ममथैव च
एवमष्ट स शुश्राव पुराणानि स गौतमः । अथ रामायणं चैव कौर्ममेव पुनश्च सः
शिवनारायणेत्येवं जपं चक्रे सदैव हि । अवाप निधनं चापि स गतो ब्रह्मणः पदम्
ब्रह्मा संपूज्य तं विप्रं विष्णुलोकमथागमत् । विष्णुना पूजितः सोऽथ जगाम शिवमंदिरम्
सर्वेषामेव वंद्योऽसौ गौतमो मुनिसत्तमः । भारतश्रवणे चापि नियमा ये मयेरिताः
पुरा व्यासेन मुनिना त्रिवर्षाद्यत्कृतं शुभम् । श्रवणात्तस्य कृत्स्नस्य व्याकर्ता भारतस्य यः
न किंचित्प्रणमेद्विप्रं मुक्त्वा योगिनमुत्तमम् । सर्वेषामेव वंद्योसौ भारतं व्याकरोति यः
यो महाभारतं नित्यं व्याख्यास्यति पठेच्च वा । स सर्वेभ्योधिको विप्रस्तारयेच्चैव मानवान्
व्याकरोति च पर्वैकं सर्वाणि कतिचित्तु वा । सर्वपापविनिर्मुक्तो हव्ये कव्ये विशिष्यते
तमेव प्रणमेद्विप्रं तमेवार्हं च पूजयेत् । तमेव भोजयेन्नित्यं सर्वं तस्मै निवेदयेत्
तस्य पूजाविधिः प्रोक्तो व्याख्यानसमये द्विजः । प्रतिपूज्योऽथ वस्त्राद्यैः पूजयेद्विधिमार्गतः
आदिपर्वसमाप्तौ च सूक्ष्मवस्त्रत्रयं ददेत् । सुवर्णं च यथाशक्ति सभापर्वणि वाससी
आनुशासनिकारण्यस्वर्गारोहेषु पर्वसु । आदिपर्वणि पूजा या सा पूजा नृपपुंगव
कर्णाश्वमेधवैराटशल्यद्रोणेषु पर्वसु । सूक्ष्मवस्त्रत्रयं शुद्धं निष्कद्वयमथापि वा
क्षुद्रपर्वस्वथान्येषु निष्कावथ समानयेत् । हरिवंशे सनिष्कं तु वस्त्रत्रितयमेव तु