उपक्रमदिने राम त्रिपंचदश वा शुभाः । श्लोका द्वितीये दिवसे ततो द्विगुणिताः शुभाः
तृतीये दिवसे राम ततश्चाधिकमिष्यते । दिनानामव्यवच्छेदाद्व्याख्यानं श्रवणं तथा
व्यवस्थितिर्यदा जाता तदा पौराणिकं गुरुम् । तांबूलादिप्रदायाथ परेद्युः शृणुयादपि
पुराणमेवं श्रोतव्यं दैनंदिनमिति श्रुतिः । व्रतरूपेण यः कश्चित्पुराणं शृणुयान्नरः
यदैवं तत्पुराणं तु तत्र याति न संशयः । पुराणं श्रोतुकामेन श्लोकश्चैकोपि चेच्छ्रुतः
तद्दिने तु कृतं पापं नाशयेत्तु न संशयः
एवं पुराणं शृणुयाच्च यस्तु स ब्रह्महत्याकृतपापबंधात् । सुरापीतिः स्वर्णहरश्च राम गुर्वंगनागश्च विमुक्तिमेति
पापानि चान्यानि कृतानि पुंभिः सर्वाणि नश्यंति पुराकृतानि । इहापि यान्यब्दशतार्जितानि श्रोतुर्विनश्यंति तथा च वक्तुः
कलौ समस्तविप्राणां सर्वज्ञत्वं न विद्यते । विगुणापि ततो व्याख्या फलदा दानकर्मवत्
पुराणानामभिप्रायं व्यासो वेद न चापरः । अहं वेद्मि विशेषेण व्यासादपि विधेरपि
न स्वाध्यायस्तपो वापि न मंत्रो न जुहोतयः । फलंति न तथा तिष्ये पुराणश्रवणं यथा
एकैकश्रवणादेव पातकं महदेव तु । नाशमाप्नोत्यसंदेहः श्रीशैले वर्तनादिव
अतो गुरुः पुराणज्ञः श्रोतृवंद्योऽघनाशनः । न तस्मादधिकः कश्चिद्गुरुरस्ति गतिप्रदः
मंत्रेषु गुरवो ये च वेदशास्त्रेषु ये मताः । नेशते सर्वविज्ञानं दातुं तस्मान्न बोधकाः
पिशाचाः प्रायशो राम ब्रह्मराक्षसनामिनः । वेदमंत्रस्य वेत्तारो दृश्यंते न पुराणवित्
पुराणविमुखो नैव सर्वः सर्वं हि पश्यति । पुराणज्ञो हि तस्तस्मात्पापनाशकरः प्रभुः
तत्पूजा सर्वपूजा स्यात्सर्वद्रोहोऽस्य पीडनम् । यथा समस्तदानानां विद्यादानं प्रशस्यते
पौराणिकस्तथा धन्यस्तत्र दानं महत्फलम् । राम उवाच-। किं वा पौराणिके देयं कियत्कीदृशमेव च
पुराणं कीदृशं वर्ज्यं वर्ज्यः कीदृक्पुराणवित् । शंभुरुवाच- षड्रसानन्नपानानि स्नेहद्रव्याणि यानि च
गृहं सोपस्करं राम पुराणज्ञाय दापयेत् । पर्याप्तान्येव सर्वाणि अधिकानि फलाधिकात्
दद्याद्द्रव्यमतो भूयः सचैलं शोभितं मृदु । भूषणानि यथार्हाणि स्वशक्त्या प्रतिपादयेत्
गंधपुष्पं प्रतिदिनं केवलं गंधमेव च । केवलं च तथा पुष्पं फलकाले फलान्यपि
तांबूलं च तथा दद्यान्नमस्कुर्याच्च भक्तितः । पुराणस्य समाप्तौ तु दद्याद्दानादिकं तथा
अधिकं तु तथा देयं भूहिरण्यादिकं नृप । न च तूष्णीमुपक्रम्य श्रोतुमर्हति कश्चन
सभासद्भिः कृता चैव या पूजैकेन वा कृता । देवस्थाने यथाशक्ति सर्वैः पूजनमिष्यते
तीर्थेपि च यथा राम पुण्येष्वायतनेषु च । स्वशक्त्या पूजनं कुर्यात्पुराणज्ञाय राघव
श्रोतुस्तु लक्षणं पूर्वं मयोक्तं तु भवेन्नृप । पौराणिकस्य सर्वस्य लक्षणं कथयामि ते
कुलहीनो महाव्याधिर्महापापी तिरस्कृतः । शौचाचारविहीनश्च वेदस्मृतिविवर्जितः
अन्यदेवः पूतिवचो व्यंगश्चाप्यधिकांगवान् । परपूर्वापतिः स्तेनः प्राणिहंता निराकृतिः
अथ वर्ज्यं पुराणं ते कथयामि नृपोत्तम । पूर्वज्ञैरुच्यमानं च यत्प्रोक्तं मुनिभिः परैः