अथ विप्रो विदित्वैतद्वसिष्ठस्त्वद्धितप्रियः । सुप्तं प्रमत्तं काकुत्स्थं रक्षो हंति न संशयः
ब्रह्मावाप्तवरं तद्धि मया कार्यं निवारणम् । इति संचिंत्य विप्रर्षिः सेनामादाय निर्गतः
रक्षो हंतुमशक्तस्तु मृत्युहीनं ततो मुनिः । स्वयं च राक्षसो भूत्वा वाक्यमाह महामुनिः
किमर्थमागतोसीह वनं मुनिनिषेवितम् । स आह राजा रक्षोघ्नस्तमहं हंतुमागतः
मुनिरप्याह किं तेन जीवितेन मृतेन वा । भुक्त्वामिषं मदीयं तु युद्धं कृत्वा जयं व्रज
राक्षस उवाच- कथं त्वं राक्षसो मह्यं भक्षणाय भविष्यसि । वसिष्ठोऽप्यथ मानुष्यमास्थाय वियति स्थितः
निष्ठीव्य मस्तके तस्य मुष्टिना तमताडयत् । ताडितो राक्षसस्तेन व्यद्रावयदृषिश्च तम्
पलायमानावन्योन्यं जलधिं तु गतावुभौ । तत्रस्थेन ग्रहेणासौ गृहीतो राक्षसस्तदा
मुनिः पुनरयोध्यायां पूर्ववत्समतिष्ठत । शंभुरुवाच- तस्मात्स्वाभिमतं कुर्यात्पुराणज्ञो विमत्सरः
श्रवणस्य विधानं च कथयामि शुभं शृणु । शुक्लपक्षे दिने शुद्धे वारनक्षत्रयोगतः
करणे चापि लग्ने च ग्रहताराबलान्विते । अमूढेन ग्रहे बाले न च वृद्धौ गुरौस्थिते
न कृष्णपक्षे ग्रहणे न च नास्तिकसंनिधौ । पूर्वोक्तलक्षणोपेतं पुराणं शृणुयादिति
शुद्धगेहेऽथवा शुद्धवेदिकायां मठेथ वा । नदीतीरे देवगेहे सभामंडप एव च
रथ्या मठेथ वा रम्ये पुण्यशालासु राघव । स्वयं नमस्य विप्रेंद्रान्पुराणज्ञं विशेषतः
आसनं कल्पितं कुर्य्यादूर्ध्वं सर्वविशेषितम् । एहि धर्म्मासनमिति वक्तव्यं स्यादनिष्ठुरम्
पुराणप्रक्रमदिने यत्कार्यं तदुदीरयेत् । व्याख्यातारं पुराणस्य वस्त्राद्यैः परिपूजयेत्
शुभानि दत्वा वस्त्राणि सूक्ष्माणि च नवानि च । करकंठविभूषादि पात्रमासनमेव च
गंधपुष्पाक्षतैः पूज्य तांबूलं विनिवेद्य च । शुक्लांबरधरं विष्णुं शशिवर्णं चतुर्भुजम्
प्रसन्नवदनं ध्यायेत्सर्वविघ्नोपशांतये । सभासदश्च संपूज्य गणेशं प्रार्थयेत्ततः
ॐनमेत्यादि मंत्रेण पूजनं भारती नुतिः । प्रातःकाले पुराणस्य प्रक्रमं प्रारभेदिति
उपक्रमदिने राम त्रिपंचदश वा शुभाः । श्लोका द्वितीये दिवसे ततो द्विगुणिताः शुभाः
तृतीये दिवसे राम ततश्चाधिकमिष्यते । दिनानामव्यवच्छेदाद्व्याख्यानं श्रवणं तथा
व्यवस्थितिर्यदा जाता तदा पौराणिकं गुरुम् । तांबूलादिप्रदायाथ परेद्युः शृणुयादपि
पुराणमेवं श्रोतव्यं दैनंदिनमिति श्रुतिः । व्रतरूपेण यः कश्चित्पुराणं शृणुयान्नरः
यदैवं तत्पुराणं तु तत्र याति न संशयः । पुराणं श्रोतुकामेन श्लोकश्चैकोपि चेच्छ्रुतः
तद्दिने तु कृतं पापं नाशयेत्तु न संशयः
एवं पुराणं शृणुयाच्च यस्तु स ब्रह्महत्याकृतपापबंधात् । सुरापीतिः स्वर्णहरश्च राम गुर्वंगनागश्च विमुक्तिमेति
पापानि चान्यानि कृतानि पुंभिः सर्वाणि नश्यंति पुराकृतानि । इहापि यान्यब्दशतार्जितानि श्रोतुर्विनश्यंति तथा च वक्तुः
कलौ समस्तविप्राणां सर्वज्ञत्वं न विद्यते । विगुणापि ततो व्याख्या फलदा दानकर्मवत्
पुराणानामभिप्रायं व्यासो वेद न चापरः । अहं वेद्मि विशेषेण व्यासादपि विधेरपि