महापापं त्रिरावृत्ते पुनश्च यदि चेत्कृतम् । गौतम उवाच- पौराणिक महाभाग प्राप्यापि त्वामहं कथम्
पापयुक्तो द्विजश्रेष्ठ संगतिर्विफला भवेत् । पौराणिक उवाच- शास्त्रं प्रमाणं सर्वेषां प्रायश्चित्तविनिर्णये
तद्विना यो हि तं ब्रूयात्प्रायाश्चित्तं न तद्भवेत् । सकृत्कृते सकृत्प्रोक्तं द्वितीये द्विगुणं भवेत्
तृतीये त्रिगुणं प्रोक्तं चतुर्थे नास्ति निष्कृतिः । त्वया कृतं तु बहुधा चतुर्विधमपीच्छया
कथं वक्तुमहं शक्तः प्रायश्चित्तं भवादृशे । गौतमोऽपि पुनः प्राह क्व गंतव्यं मयेति च । उपवासत्रयं कृत्वा शिवरात्रिमविंदत
चतुर्थमुपवासं च चकारातीव दुःखितः । पारणं चाप्यमायां स कृतवान्फलवल्कलैः
अथ प्रदक्षिणं चक्रे श्रीशैलस्य च स द्विजः । गतवान्मंदिरं पश्चाच्चिंतयातिकृशः श्वसन्
कथं पापनिवृत्तिर्मे तूष्णींभूतस्य सेत्स्यति । अनंतमविचार्यं किं पापं च सुमहत्तरम्
श्रुत्वा न कोपि मे ब्रूयात्प्रायश्चित्तं विधीयताम् । किंतु कस्मिन्पुराणे तु श्रुते ज्ञातं भविष्यति
इति कृत्वा मतिं सोथ पुराणज्ञमभाषत । पुराणमेकं मे तात व्याख्यातु भगवानिति
जातकर्मादिसंस्कारान्कारयस्व ममाशु वै । द्विजो भूत्वा शृणोम्यद्य प्रायश्चित्तं करोम्यतः
विधायकं पुराणं मे भविष्यति च कीर्तितम् । अतः शक्यं करिष्यामि पुराणार्थं विनिश्चयन्
पौराणिक उवाच- यथावत्कीर्तयिष्यामि पुराणं पापनाशनम् । यथाज्ञानं यथाशक्ति यथाशुद्धं यथाविधि
किं वांच्छसि पुराणं तु कीर्तयिष्ये तदेव तु । गौतम उवाच- सर्वं रुचि पुराणं मे वक्तव्यं किं हितं वद
श्रुते यस्मिन्भिदा नैव जायते तु हरीशयोः । पौराणिक उवाच- कौर्मोक्तं यत्पुराणं तद्देवयोरभिदाभिधम्
शृणोति यस्तत्प्रथमं तस्य पापं विनश्यति । तस्य वक्ता तु यो विप्रस्तस्य विघ्नांतरं भवेत्
श्रोतव्यं मन्यते पापो यदि भार्या विनश्यति । किंचैकं दुष्करं वक्ष्ये श्रोतुर्वक्तुरनिंदकम्
व्याख्यातरि यदि प्रीतिर्द्धर्मादेव प्रकाशिनी । आचारदर्शने पुण्ये कर्ममोक्षादिदर्शके
तदा तुष्टो महेशः स्याद्विष्णुरिष्टफलप्रदः । पितरस्तारितास्तेन यांति ते परमां गतिम्
श्रीराम उवाच- कथं पातकसंघात संक्रमे ब्राह्मणाधमे । पुराणज्ञः कथं व्याख्यां चकार द्विजसत्तम
शंभुरुवाच- अध्यापने चाध्ययने जायते चाथ संगमः । संगतौ वत्सरं राम याति पातकि पातकम्
पुराणज्ञे तु काकुत्स्थ सर्वतत्वार्थवेदिनि । अपिपातकसंदोह चीर्णपापं प्रणश्यति
प्रभूतवह्निनाशे हि धूमराशिर्यथैव हि । शलभो दीपनाशाय वह्निनाशाय न प्रभुः
कृतं पापं तथान्येषां नाशनाय पुराणिकः । भूतादिग्रस्तमर्त्यानां भूतादि भयमोचकः
समंत्रवानपनयेद्यथा न स्वयमातुरः । पौराणिकस्तथा पापं न किंचित्प्राप्तुमर्हति
आत्मना च कृतं पापमन्यैरपि च यत्कृतम् । पुराणज्ञो नाशयति त्वतिदुष्टं स्वकर्म्म वा
भवानीशे हृषीकेशे समवृत्तिर्विवेकवान् । लोकवेदक्रियावेत्ता रुद्रजाप्यतिनिःस्पृहः
तुष्टः शांतः क्रियादक्षः प्रभूतो योगकृद्वशी । यथैव ते पुराणज्ञो वसिष्ठो भगवानृषिः
नियोगात्तव भूपाल अयोध्यायामतिष्ठत । अपालयद्भुवं कृत्स्नां त्वां च रक्षः समापतत्
स च शुक्रोपदेशेन राक्षसस्त्वामथाभ्यगात् । निद्रासक्तं हनिष्यामि नान्यथावसरस्त्विति