अयं च जगदीश्वर्य्या कुमारो नित्ययौवनः । कंदर्प्पकोटिलावण्यः स तस्थे परमे पदे
भोगार्थं परमं व्योम लीलार्थमखिलं जगत् । भोगेन क्रीडया विष्णोर्विभूतिद्वयसंस्थितिः
भोगे नित्यस्थितिस्तस्य लीलां संहरते कदा । भोगो लीला उभौस्तस्य धार्य्येते शक्तिमत्तया
त्रिपाद्व्याप्तिः परे धाम्नि पादोस्येहाभवत्पुनः । त्रिपाद्विभूतिर्नित्या स्यादनित्यं पादमैश्वरम्
नित्यं तद्रूपमीशस्य परे धाम्नि स्थितं शुभम् । अच्युतं शाश्वतं दिव्यं सदा यौवनमाश्रितम्
नित्यं संभोगमीश्वर्या श्रिया भूम्या च संवृतम् । नित्यैवेषा जगन्माता विष्णोः श्रीरनपायिनी
यथा सर्वगतो विष्णुस्तथा लक्ष्मीश्शुभानने । ईशाना सर्वजगतो विष्णुपत्नी सदा शिवा
सर्वतः पाणिपादांता सर्वतोऽक्षिशिरोमुखी । नारायणी जगन्माता समस्तजगदाश्रया
यदपाङ्गाश्रितं सर्वं जगत्स्थावरजङ्गमम् । जगत्स्थितिलयौ यस्या उन्मीलननिमीलनात्
सर्वस्याद्या महालक्ष्मीस्त्रिगुणा परमेश्वरी । लक्ष्यालक्ष्यस्वरूपा सा व्याप्य कृत्स्नं व्यवस्थिता
शून्यं तदखिलं विश्वं विलोक्य परमेश्वरी । शून्यं तदखिलं स्वेन पूरयामास तेजसा
सा लक्ष्मीर्धरणी चैव नीलादेवीति विश्रुता । आधारभूता जगतः पृथिवीरूपमाश्रिता
तोयादिरसरूपेण सैव नीलावपुर्भवेत् । लक्ष्मीरूपत्वमापन्ना धनवाग्रूपिणी हि सा
एवं देवीस्वरूपा सा जगतः श्रीः श्रीताहरिम् । समस्तविद्याभेदा स्युर्लक्ष्मीरूपा वरानने
श्रीरूपमखिलं सर्वं तस्या हि वपुरुच्यते । सौंदर्यं शीलवृत्तं च सौभाग्यं स्त्रीषु संस्थितम् । तस्या रूपं च गिरिजे सर्वासां मूर्ध्नि योषिताम्
यस्याः कटाक्षाय तमोग्रदृष्ट्या ब्रह्माशिवस्स्वर्गपतिर्महेंद्रः । चंद्रश्च सूर्यो धनदोपमोग्निः प्रभूतमैश्वर्यमवाप्नुवंति
लक्ष्मीः श्रीः कमला विद्या माता विष्णुप्रिया सती । पद्मालया पद्महस्ता पद्माक्षी लोकसुंदरी
भूतानामीश्वरी नित्या सह्या सर्वगता शुभा । विष्णुपत्नी महादेवी क्षीरोदतनया रमा
अनंता लोकमाता भूर्नीला सर्वसुखप्रदा । रुक्मिणी च तथा सीता सर्ववेदवती शुभा
सती सरस्वती गौरी शांतिः स्वाहा स्वधा रतिः । नारायणी वरारोहा विष्णोर्नित्यानपायिनी
एतानि पुण्यनामानि प्रातरुत्थाय यः पठेत् । स महाश्रियमाप्नोति धनधान्यमकल्मषम्
हिरण्यवर्णां हरिणीं सुवर्णरजतः स्रजाम् । चंद्रां हिरण्मयीं लक्ष्मीं विष्णोरनपगामिनीम्
गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम् । ईश्वरीं सर्वभूतानां तामिहोपह्वये श्रियम्
एवं ऋक्संहितायां तु स्तूयमाना महेश्वरी । सर्वैश्वर्यसुखं प्रादाच्छिवादीनां दिवौकसाम्
अस्येशाना हि जगतो विष्णुपत्नी सनातनी । यदपाङ्गाश्रितं सर्वं जगत्स्थावरजंगमम्
यस्य वक्षसि सा देवी प्रभाग्नाविव तिष्ठति । स वै सर्वेश्वरः साक्षादक्षरः पुरुषोऽव्ययः
स वै नारायणः श्रीमान्वात्सल्यगुणसागरः । स्वामी सुशीलः सुभगः सर्वज्ञः सर्वशक्तिमान्
नित्यं संपूर्णकामश्च नैसर्गिकसुहृत्सखा । कृपापीयूषजलधिः शरणं सर्वदेहिनाम्
स्वर्गापवर्गसुखदो भक्तानां करुणाकरः । श्रीमते विष्णवे तस्मै दास्यं सर्वं करोम्यहम्
देशकालाद्यवस्था तु सर्वासु कमलापतेः । इति स्वरूपं संसिद्धं सुखं दास्यमवाप्नुयात्