बीजपूरं कुसुंभं च लोहितं शृंगमेव च । अररुं नालिकेरं च कूष्मांडकं तथैव च
कोविदारफलं तैलपक्वं मानवजं पयः । वार्ध्रीणस खरी दुग्धं सूतिका क्षीरमाविकम्
औष्ट्रमेकशफक्षीरं मार्गमाजं नृसंभवम् । विवत्सासंधिनीक्षीरं लवणं चैव योगि यत्
नालिकेररसं कांस्ये ताम्रे मधु च सीसके । काचे तक्रं करंभांश्च घृताक्तान्नैव कारयेत्
होमं तु मृण्मये पात्रे पुरोडाशं तु राजते । न सेवेत परं लोके शुभार्थी तु विचक्षणः
पात्रांतश्चूर्णलेपोऽपि तत्र भक्षणमेव च । क्रमुकस्य तथा भक्षश्चूर्णपत्रस्य चैव हि
क्रमुकस्यापि पक्वस्य भक्षणं क्रमियोगिनः । पायसे लवणं चैव केवलं च करार्पितम्
सिंधुसौराष्ट्रकांबोजमागधेषु च सिंहले । न दोषाय भवेत्तत्र क्षीरं च लवणान्वितम्
क्षीराणि च समस्तानि लवणानि च योगतः । देशेष्वन्येषु दोषाय पाने चैवेह संशयः
किमत्र बहुनोक्तेन सद्भिर्निंद्यं विवर्जयेत् । शंभुरुवाच- एवं तस्य वचः श्रुत्वा ब्राह्मणस्य महात्मनः
स्वमेव भवनं गत्वा चिंतयामास दुःखितः । रात्रौ मृत्युर्दिवा चेति न जानाति महानपि
परलोके सुखं दुःखमिह भोगविनोदनम् । क्रिमिकीटमनुष्याद्यैः सुख दुःखैः पृथक्पृथक्
प्रतिजीवंतु हेतूनां भेदोऽपि सुविनिश्चयः । एकस्यापि हि जीवस्य नास्ति चैकविधा स्थितिः
जन्मकाले महाऽज्ञानं शैशवेत्यल्पबोधनम् । स्खलत्पदेल्पविज्ञानं बाल्ये चाल्पं तथैव च
कौमारे क्रीडनरतिर्यौवने विषयोषितम् । यौवने विनिवृत्ते तु द्रव्यसंपादनेषणा
वार्द्धके भोगलिप्सा च न भोक्तुं क्षमतेपि च । दूषिका श्लेष्मलालाभिर्वलीपलितकंपनैः
श्वासकासानिलाक्षिप्तैर्हृषीकैर्विकलैर्युतः । किंचिद्धर्तुं न शक्नोति न च जानाति किंचन
तिष्ठंतीषु परस्त्रीषु गुह्यस्थानं प्रदर्शयेत् । कोशकंडूयनपरः क्रूरो जीवितलक्षणैः
कंडूयते स्फिचौ वस्त्रमुद्धृत्य च विचालयन् । भुंजानः श्लेष्मणा ग्रासं ग्रसितुं न च शक्नुयात्
यदा कासस्तदा जज्ञे पायुवायुश्च शब्दवान् । निःसृतिश्च मलस्यापि श्लेष्मनिर्गम एव च
स्नुषादिभर्त्सनं बाल तालहास्यनिदर्शनम् । गुरुनिर्गमनादीनि संचिंत्य च पुनः पुनः
आहूतो भोजनाद्यर्थं भोज्यान्नादि विनिंदयन् । चिरमुष्णं च निर्भर्त्स्य पुनश्चिंतामवाप सः
अतिदुष्कृतिकर्म्माहं कथं भोक्ष्ये कथं स्वपे । कथं तिष्ठे कथं गच्छे परलोकः कथं भवेत्
इति चिंताकुलो नित्यं न नमत्यपरान्वितः । द्विजस्य सदनं गत्वा पुराणज्ञस्य राघव
लज्जावाक्कृतवक्त्रश्च किंकरोमीत्यभाषत । न किंचिदप्युवाचासौ द्विजः पौराणिकस्तदा
पापोयमिति विज्ञाय शिष्येण निरगामयत् । गौतमोपि विनिर्गम्य द्वार्येव च बहिः स्थितः
भुव्यासीनं तु विज्ञाय पुराणार्थविचारकम् । कथं कथमपि प्राप्य पीठं दत्तं च नाभजत्
निषण्णो भूतले राम पुराणज्ञमभाषत । प्रायश्चित्तं करिष्यामि तदत्रैव विधीयताम्
ब्राह्मण उवाच- पापानि कीर्तयस्व त्वं सर्वथैव कृतानि तु । स चापि नाऽकृतं किंचिन्मया पापमितीरयन्
रुदन्पपात भूम्यां च कथं तातेति पीडितः । ब्राह्मणस्तमथ प्राह प्रायश्चित्तं न विद्यते