परात्परतरं यांति नारायणपरायणाः । न ते तत्र गमिष्यंति ये द्विषंति महेश्वरम्
व्याख्यानमपि च श्रुत्वा पौराणिकमभाषत । कीदृङ्नारायणः प्रोक्तः कीदृशोपि महेश्वरः
किं परं त्वयनं प्रोक्तं द्वेषः कीदृगुदाहृतः । किं तत्परमिति ख्यातं ततः परतरं च किम्
पौराणिक उवाच- परं तद्ब्रह्मणः स्थानं सुखव्यक्तैकलक्षणम् । ततः परतरं विष्णोर्द्धाम तद्ब्रह्मणोधिकम्
अविनाशितया तत्तु कीर्तितं परमं पदम् । तन्मध्ये पुरुषो विष्णुस्तदंग परमं विभुः
आपो हि नरजन्मत्वान्नाराः प्रोक्ता मनीषिभिः । नाराश्चास्यायनं यस्मात्तेन नारायणः स्मृतः
तत्परं वर्तनं येषां ते प्रोक्तास्तत्परायणाः । महदादीनि तत्वानि यानि तेषां य ईश्वरः
सूर्याग्निशशिनेत्रोऽसौ महेशः स्यादुमापतिः । द्वेषो हि वैरं विज्ञेयमीश्वरे परमात्मनि
शंभुरुवाच- एवं पुराणभट्टेन समीरितमिदं वचः । चिंतयन्पुनरप्याह मादृशस्य कथं गतिः
पौराणिकोऽथ तं प्राह शृणु वक्ष्यामि ते गतिम् । कुरु सर्वेण यत्नेन प्रायश्चित्तं यथाविधि
धर्मं चर यथाशक्ति यथाकालं यथाविधि । विमुक्तपापः पश्चात्त्वमुत्तमां गतिमेष्यसि
पुराणमथवा नित्यं शृणुष्वावहितश्च सन् । निराशो वा महेशानं पूजयस्व पिनाकिनम्
देवं वा पुंडरीकाक्षं केशवं क्लेशनाशनम् । संन्यासमथवा नित्यं ब्रह्मज्ञानपरो भव
अथवा गच्छ काशीशं मुक्तौ वा मृतिमाप्नुहि । गयां वा गच्छ तत्र त्वं श्राद्धं कर्तुं प्रयत्नतः
अथवा सर्ववेदानां सारं पातकनाशनम् । रुद्रं रुद्रप्रियकरं जप प्रत्यहमादरात्
श्रीशैलमथवा गच्छ केदारमथवेच्छया । अथवा प्रतिवर्षे तु माघस्नानं प्रवर्तय
किमत्र बहुनोक्तेन धर्मभक्तः सदा भव । नैवं नरकवासस्ते भविता तु द्विजाधम
गौतम उवाच- श्रुत्वा सर्वं करिष्यामि पुराणं भवतो मुखात् । शास्त्रं विश्वासहेतुं च वर्जं चापि वदस्व मे
पौराणिक उवाच- वर्ज्यं मांसं सुराऽन्यस्त्री भोगो द्यूतं विकत्थनम् । पारुष्यमनृतं माया देवदेवविनिंदनम्
गुरूणां सुरवृद्धानां पुराणस्मृतिभाषिणाम् । निंदनं श्वेतवृंताकं कृतकालाबुवर्तनम्
बीजपूरं कुसुंभं च लोहितं शृंगमेव च । अररुं नालिकेरं च कूष्मांडकं तथैव च
कोविदारफलं तैलपक्वं मानवजं पयः । वार्ध्रीणस खरी दुग्धं सूतिका क्षीरमाविकम्
औष्ट्रमेकशफक्षीरं मार्गमाजं नृसंभवम् । विवत्सासंधिनीक्षीरं लवणं चैव योगि यत्
नालिकेररसं कांस्ये ताम्रे मधु च सीसके । काचे तक्रं करंभांश्च घृताक्तान्नैव कारयेत्
होमं तु मृण्मये पात्रे पुरोडाशं तु राजते । न सेवेत परं लोके शुभार्थी तु विचक्षणः
पात्रांतश्चूर्णलेपोऽपि तत्र भक्षणमेव च । क्रमुकस्य तथा भक्षश्चूर्णपत्रस्य चैव हि
क्रमुकस्यापि पक्वस्य भक्षणं क्रमियोगिनः । पायसे लवणं चैव केवलं च करार्पितम्
सिंधुसौराष्ट्रकांबोजमागधेषु च सिंहले । न दोषाय भवेत्तत्र क्षीरं च लवणान्वितम्
क्षीराणि च समस्तानि लवणानि च योगतः । देशेष्वन्येषु दोषाय पाने चैवेह संशयः
किमत्र बहुनोक्तेन सद्भिर्निंद्यं विवर्जयेत् । शंभुरुवाच- एवं तस्य वचः श्रुत्वा ब्राह्मणस्य महात्मनः