शूद्राणां तु कृषिर्द्धर्मो नापद्यप्यग्रजन्मनः । तस्मात्क्षत्त्रेण वर्तिष्ये ग्रामान्मम समादिश
अन्यत्र चात्र क्षत्त्रेण वर्तनं मम रोचते । अन्यन्न तु तथेत्युक्तो ददौ ग्रामान्द्विजन्मनः
ग्रामाधिकारदुष्टस्य वर्तनं त्वन्यथाभवत् । अभक्षि मांसं चापायि सुरा चाभाषि दुर्वचः
परयोषा तथा गामि परस्वं प्रत्यहारि च । अक्रीडि द्यूतमसकृत्कलंजं चादि दुर्भुजा
नापूजि जगतामीशः शिवो वा विष्णुरेव वा । एवं कालेन दुर्वृत्तं राजा वाक्यमभाषत
विप्र विप्रत्वमुत्सृज्य शूद्रत्वं प्राप्तवानसि । तस्मान्नियोगधर्मेण भवंतं भ्रंशयामि च
मास्तु विप्रत्वमद्यैव शूद्रतैव वरं मम । तदृते यदि विप्रास्ते न भोक्ष्यंति वरं मम
न हि सर्वमिदं त्यक्तुं शक्तोहं पृथिवीपते । शंभुरुवाच- एवं वदति दुर्विप्रे राजा तूष्णीमतिष्ठत
स तु वै शूद्रतुल्यश्च बुभुजेन्नं सहामिषम् । कदाचिदथ दुर्वृत्तः प्रतोलीमंडपस्थितः
द्विजेन पठ्यमानं तु पद्यं तु श्रुतवानिदम् । हृदये पद्यमेतत्तु द्विजेरितमतिष्ठत
परात्परतरं यांति नारायणपरायणाः । न ते तत्र गमिष्यंति ये द्विषंति महेश्वरम्
व्याख्यानमपि च श्रुत्वा पौराणिकमभाषत । कीदृङ्नारायणः प्रोक्तः कीदृशोपि महेश्वरः
किं परं त्वयनं प्रोक्तं द्वेषः कीदृगुदाहृतः । किं तत्परमिति ख्यातं ततः परतरं च किम्
पौराणिक उवाच- परं तद्ब्रह्मणः स्थानं सुखव्यक्तैकलक्षणम् । ततः परतरं विष्णोर्द्धाम तद्ब्रह्मणोधिकम्
अविनाशितया तत्तु कीर्तितं परमं पदम् । तन्मध्ये पुरुषो विष्णुस्तदंग परमं विभुः
आपो हि नरजन्मत्वान्नाराः प्रोक्ता मनीषिभिः । नाराश्चास्यायनं यस्मात्तेन नारायणः स्मृतः
तत्परं वर्तनं येषां ते प्रोक्तास्तत्परायणाः । महदादीनि तत्वानि यानि तेषां य ईश्वरः
सूर्याग्निशशिनेत्रोऽसौ महेशः स्यादुमापतिः । द्वेषो हि वैरं विज्ञेयमीश्वरे परमात्मनि
शंभुरुवाच- एवं पुराणभट्टेन समीरितमिदं वचः । चिंतयन्पुनरप्याह मादृशस्य कथं गतिः
पौराणिकोऽथ तं प्राह शृणु वक्ष्यामि ते गतिम् । कुरु सर्वेण यत्नेन प्रायश्चित्तं यथाविधि
धर्मं चर यथाशक्ति यथाकालं यथाविधि । विमुक्तपापः पश्चात्त्वमुत्तमां गतिमेष्यसि
पुराणमथवा नित्यं शृणुष्वावहितश्च सन् । निराशो वा महेशानं पूजयस्व पिनाकिनम्
देवं वा पुंडरीकाक्षं केशवं क्लेशनाशनम् । संन्यासमथवा नित्यं ब्रह्मज्ञानपरो भव
अथवा गच्छ काशीशं मुक्तौ वा मृतिमाप्नुहि । गयां वा गच्छ तत्र त्वं श्राद्धं कर्तुं प्रयत्नतः
अथवा सर्ववेदानां सारं पातकनाशनम् । रुद्रं रुद्रप्रियकरं जप प्रत्यहमादरात्
श्रीशैलमथवा गच्छ केदारमथवेच्छया । अथवा प्रतिवर्षे तु माघस्नानं प्रवर्तय
किमत्र बहुनोक्तेन धर्मभक्तः सदा भव । नैवं नरकवासस्ते भविता तु द्विजाधम
गौतम उवाच- श्रुत्वा सर्वं करिष्यामि पुराणं भवतो मुखात् । शास्त्रं विश्वासहेतुं च वर्जं चापि वदस्व मे
पौराणिक उवाच- वर्ज्यं मांसं सुराऽन्यस्त्री भोगो द्यूतं विकत्थनम् । पारुष्यमनृतं माया देवदेवविनिंदनम्
गुरूणां सुरवृद्धानां पुराणस्मृतिभाषिणाम् । निंदनं श्वेतवृंताकं कृतकालाबुवर्तनम्