शंभुं पुराणतत्त्वज्ञं राघवो वाक्यमब्रवीत् । त्वमेव सर्वं जानीषे सर्वधर्मगुहाशयम्
कस्मिन्कस्मिन्युगे ब्रह्मन्किंविशिष्टं वदस्व मे । शंभुरुवाच- ध्यानमेव कृते श्रेष्ठं त्रेतायां यज्ञ एव च
द्वापरे चार्चनं तिष्ये दानं च हरिकीर्तनम् । सर्वं च शस्तं सर्वत्र ध्यानं न च कलौ युगे
नराणां मुग्धचित्तत्वात्कृच्छ्रस्थानां विशांपते । न धर्मे नियताबुद्धिर्न वेदे नैव च स्मृतौ
न क्रतौ न स्वधाकारे पुराणानां च न श्रुतौ । न यज्ञेन च तीर्थेषु न च शुश्रूषणे सताम्
नेज्यायां देवतानां च न स्वजातीयकर्म्मणि । न देवस्मरणेनापि न च क्वापि वृषे नृप
अतश्च दीर्घकालानां पुण्यानामक्षमा नराः । दानं तु स्वल्पकालत्वात्कर्तुं शक्नोति मानवः
अतश्च कलिदुष्टानां प्रायश्चितं न विद्यते । केषांचित्पापनाशः स्यात्प्रायश्चित्तैस्तु नान्यथा
ब्रह्मज्ञानी गयाश्राद्धी काशीगंता श्रुतौ रतः । पुराणज्ञावमाश्चैते श्रोता तस्य च राघव
युगानामनुसारेण तथार्थस्य विवेचनात् । स्व पर प्रत्ययोत्पादात्परब्रह्मप्रकाशनात्
पुराणवक्ता सर्वस्माद्ब्राह्मणस्तु विशिष्यते । तेनापि च कृतं पापं न सज्येत्किमुतान्यतः
अन्येषामपि केषांचित्पुराणं पापनाशनम् । यः पुराणेषु विश्वासी वक्तारं मन्यते गुरुम्
ब्रह्मविद्याप्रदातारं विशेषं ज्ञातिबंधुतः । तस्य पापानि सर्वाणि विलयं यान्त्यसंशयम्
अथ श्रीशैलगमनं पूजकस्य महेशितुः । अतः कलौ मनुष्याणां पुराणं पापनाशनम्
पुरा कलियुगे राम वृत्तं संकीर्तये शृणु । आसीत्तु गौतमो नाम ब्राह्मणो वेदवर्जितः
तस्य पुष्टिः पशुश्चास्तां भ्रातरौ वेदवर्जितौ । ताभ्यां सह कृषिं चक्रे तत्र वृद्धिमवाप च
धनधान्यादिकं किंचिद्राजानं दत्तवानथ । उवाच वचनं किंचिदधिकारं निरूपय
अर्थं न गमयिष्यामि तौ शक्तौ भ्रातरौ मम । राजोवाच- ब्राह्मणस्याधिकारो हि वैदिके धर्मकर्मणि
तदन्यत्र नियुक्तस्य ब्राह्मण्यं विप्रणश्यति । गौतम उवाच- युगेष्वन्येषु धर्मोयं कलिधर्मो न तादृशः
भूपति त्वं हि भूपाल नृपाणां धर्म उच्यते । ब्राह्मणश्च परिक्षीणस्तं कुर्वन्नैव दुष्यति
शूद्राणां तु कृषिर्द्धर्मो नापद्यप्यग्रजन्मनः । तस्मात्क्षत्त्रेण वर्तिष्ये ग्रामान्मम समादिश
अन्यत्र चात्र क्षत्त्रेण वर्तनं मम रोचते । अन्यन्न तु तथेत्युक्तो ददौ ग्रामान्द्विजन्मनः
ग्रामाधिकारदुष्टस्य वर्तनं त्वन्यथाभवत् । अभक्षि मांसं चापायि सुरा चाभाषि दुर्वचः
परयोषा तथा गामि परस्वं प्रत्यहारि च । अक्रीडि द्यूतमसकृत्कलंजं चादि दुर्भुजा
नापूजि जगतामीशः शिवो वा विष्णुरेव वा । एवं कालेन दुर्वृत्तं राजा वाक्यमभाषत
विप्र विप्रत्वमुत्सृज्य शूद्रत्वं प्राप्तवानसि । तस्मान्नियोगधर्मेण भवंतं भ्रंशयामि च
मास्तु विप्रत्वमद्यैव शूद्रतैव वरं मम । तदृते यदि विप्रास्ते न भोक्ष्यंति वरं मम
न हि सर्वमिदं त्यक्तुं शक्तोहं पृथिवीपते । शंभुरुवाच- एवं वदति दुर्विप्रे राजा तूष्णीमतिष्ठत
स तु वै शूद्रतुल्यश्च बुभुजेन्नं सहामिषम् । कदाचिदथ दुर्वृत्तः प्रतोलीमंडपस्थितः
द्विजेन पठ्यमानं तु पद्यं तु श्रुतवानिदम् । हृदये पद्यमेतत्तु द्विजेरितमतिष्ठत