एतां स्तुतिमथाकर्ण्य भगनेत्रप्रदः शिवः । विष्णुमाह च गच्छ त्वं समानय च तान्द्विजान्
आनीतास्तेन हरिणा देवाय प्रणतास्तु ते । तानाह शंकरो वाक्यं किमर्थं यूयमागताः
मुनय ऊचुः - देव द्वादशलोकानां दृश्यंते भस्मराशयः । स्थितमेकं वनमिदं पश्य त्वं लोकसंक्षयम्
सदाशिव उवाच- ऊर्द्ध्वस्थपंचलोकानां दाहे संदेह एव नः । कथमंगारवृष्टिश्च कथं नो वा महाध्वनिः
मुनय ऊचुः - भीतिरस्माकमधुना वर्तते वीरभद्रतः । स एवांगारवृष्टिं च पिपासुरिव तामपात्
देवोथ वीरमाहूय किं वीरेत्यब्रवीद्भवः । वीरो हनूमतो लिंगपीठाभावादिदं कृतम्
कपेश्चित्तं परिज्ञातुं मया कृतमिदं बृहत् । कृपानिधिरथो देवो यथापूर्वमकल्पयत्
दग्धानप्यखिलाँल्लोकान्पूर्वतः शोभनान्विभुः । कल्पयामास विश्वात्मा वीरभद्रमथाब्रवीत्
आलिंग्याघ्राय शिरसि तांबूलं दत्तवान्हरः । अथासौ हनुमानीश पूजनं कृतवानथ
एकं वनचरं तत्र गंधर्वं सविपंचिकम् । इदमाह महावीणा मम वै दीयतामिति
गंधर्वो न मया त्याज्या वीणा प्राणसमा मम । ममापि प्राणसदृशी वीणेत्याह कपीश्वरः
अथ मुष्टिनिपातेन गंधर्वे पतिते कपिः । आदाय वीणां महतीं स्वरतंतुसमन्विताम्
अलाबुसंयुतां कृत्वा राजवृक्षफलाकृतिम् । तस्योरसि विनिक्षिप्य गायन्नागाच्छिवांतिकम्
बृहतीकुसुमैः शुद्धैर्देवपादावपूजयत् । तस्मै वरमथ प्रादादाकल्पं जीवितं पुनः
समुद्रलंघने शक्तिं वरं प्रादादथापरम्
समस्तभूषासुविभूषितांगः स्वदीप्तिमंदीकृतदेवदीप्तिः । प्रसन्नमूर्तिस्तरुणः शिवाङ्गकः संभावयामास समस्तदेवान्
पीतमुद्गमनीयं च समादाय महेश्वरः । पीतवस्त्रमिदं देव त्वं गृहाण हरे शुभम्
ब्रह्मणे रक्तवसनं सर्वेषां वसुदस्तथा । देवर्षिदानवादीनां दत्तवान्वसुयुग्मकम्
रामोपि चैतदाकर्ण्य शंभवे युग्ममर्पयत् । सुसूक्ष्मं बहुमूल्यं च स्वर्णभूषणमेव च
अथ भुक्त्वा सुखासीनः सामात्यः सपुरोहितः । नानामुनिगणैर्भूपैर्वानरैर्गौतमी तटे
शंभुं पुराणतत्त्वज्ञं राघवो वाक्यमब्रवीत् । त्वमेव सर्वं जानीषे सर्वधर्मगुहाशयम्
कस्मिन्कस्मिन्युगे ब्रह्मन्किंविशिष्टं वदस्व मे । शंभुरुवाच- ध्यानमेव कृते श्रेष्ठं त्रेतायां यज्ञ एव च
द्वापरे चार्चनं तिष्ये दानं च हरिकीर्तनम् । सर्वं च शस्तं सर्वत्र ध्यानं न च कलौ युगे
नराणां मुग्धचित्तत्वात्कृच्छ्रस्थानां विशांपते । न धर्मे नियताबुद्धिर्न वेदे नैव च स्मृतौ
न क्रतौ न स्वधाकारे पुराणानां च न श्रुतौ । न यज्ञेन च तीर्थेषु न च शुश्रूषणे सताम्
नेज्यायां देवतानां च न स्वजातीयकर्म्मणि । न देवस्मरणेनापि न च क्वापि वृषे नृप
अतश्च दीर्घकालानां पुण्यानामक्षमा नराः । दानं तु स्वल्पकालत्वात्कर्तुं शक्नोति मानवः
अतश्च कलिदुष्टानां प्रायश्चितं न विद्यते । केषांचित्पापनाशः स्यात्प्रायश्चित्तैस्तु नान्यथा
ब्रह्मज्ञानी गयाश्राद्धी काशीगंता श्रुतौ रतः । पुराणज्ञावमाश्चैते श्रोता तस्य च राघव
युगानामनुसारेण तथार्थस्य विवेचनात् । स्व पर प्रत्ययोत्पादात्परब्रह्मप्रकाशनात्