प्राणानायम्य सन्यासं शुक्लध्यानसमन्वितः । प्रणम्य गुरुमीशानं जपन्नासीदतः परम्
अथ देवार्चनं कर्तुं यत्नमास्थितवानपि । पलाशपत्रपुटकद्वयानीत जलं शुचि
शिरःकमंडलुगतं निधायाग्निं त्रिमंत्रितम् । आवाहनादि कृत्वाथ स्नानपर्यन्तमेव च
अथ स्नापयितुं देवमादाय करसंपुटे । कृत्वा निरीक्षणं देवं पीठं नो दृष्टवान्कपिः
लिंगमात्रं करगतं दृष्ट्वा भीतिसमन्वितः । इदमाह महायोगी किं वा पापं मया कृतम्
यदेतत्पीठरहितं शिवलिंगं करस्थितम् । ममाद्य मरणं सिद्धं पीठं चेन्नागमिष्यति
अथ रुद्रं जपिष्यामि तदायाति महेश्वरः । इति निश्चित्य मनसा जजाप शतरुद्रियम्
अथापि न समायातो महेशोऽथ कपीश्वरः । रुद्रं न्यपातयद्भूम्यां वीरभद्रः समागतः
किमर्थं रुद्यते भक्त रुदिहेतुं वदस्व मे । हनूमानुवाच- पीठहीनमिदं लिंगं पश्य मे पापसंचयम्
वीरभद्र उवाच- यदि नायाति पीठं ते लिंगे मा साहसं कृथाः । दाहयिष्याम्यहं लोकं यदि नायाति पीठकम्
पश्य दर्शय मे लिंगं पीठं यद्यागतं न वा । अथ दृष्ट्वा वीरभद्रो लिंगं पीठमनागतम्
दग्धुकामोऽखिलाँल्लोकान्वीरभद्रः प्रतापवान् । अनलं भुवि चिक्षेप क्षणाद्दग्धा मही तदा
अथ सप्ततलान्दग्ध्वा पुनरूर्द्ध्वमवर्तत । पंचोर्द्ध्वलोकानदहज्जनलोकनिवासिनः
ललाटनेत्रसंभूतं नखेनादाय चानलम् । जंबीरफलसंकाशं कृत्वा करतले विभुः
यदि नायाति पीठं ते दग्धा लोका न संशयः । अनायातमथो दृष्ट्वा वीरभद्रः प्रतापवान्
सनकादयो महात्मानो ज्ञात्वा योगेन चागमन् । गौतमस्याश्रमवरं समागम्य महेश्वरम्
न दृष्टवंतो देवादिं विद्यमानमपि द्विजाः । अस्तुवन्नथ च स्तोत्रैः सर्ववेदसमुद्भवैः
ॐनमो देवदेवाय तस्मै शुद्धप्रभाचिंत्यरूपाय तस्मै । नमः सुराणामधीशाय तस्मै नमो वेदगुह्याय शुद्धाय तस्मै
नमः शिवायादिदेवाय तस्मै नमो व्यालयज्ञोपवीताय तस्मै । नमः सुरानंदसंदोह वर्षत्रयी बिंदुविश्वंभराय तस्मै
पृथिव्यथो वायुराकाशमापः पुनः शशी वह्निसूर्य्यौ तथात्मा । यस्याष्टैता मूर्तयः शंकरस्य तस्मै नमो ज्ञानगम्याय शश्वत्
एतां स्तुतिमथाकर्ण्य भगनेत्रप्रदः शिवः । विष्णुमाह च गच्छ त्वं समानय च तान्द्विजान्
आनीतास्तेन हरिणा देवाय प्रणतास्तु ते । तानाह शंकरो वाक्यं किमर्थं यूयमागताः
मुनय ऊचुः - देव द्वादशलोकानां दृश्यंते भस्मराशयः । स्थितमेकं वनमिदं पश्य त्वं लोकसंक्षयम्
सदाशिव उवाच- ऊर्द्ध्वस्थपंचलोकानां दाहे संदेह एव नः । कथमंगारवृष्टिश्च कथं नो वा महाध्वनिः
मुनय ऊचुः - भीतिरस्माकमधुना वर्तते वीरभद्रतः । स एवांगारवृष्टिं च पिपासुरिव तामपात्
देवोथ वीरमाहूय किं वीरेत्यब्रवीद्भवः । वीरो हनूमतो लिंगपीठाभावादिदं कृतम्
कपेश्चित्तं परिज्ञातुं मया कृतमिदं बृहत् । कृपानिधिरथो देवो यथापूर्वमकल्पयत्
दग्धानप्यखिलाँल्लोकान्पूर्वतः शोभनान्विभुः । कल्पयामास विश्वात्मा वीरभद्रमथाब्रवीत्
आलिंग्याघ्राय शिरसि तांबूलं दत्तवान्हरः । अथासौ हनुमानीश पूजनं कृतवानथ
एकं वनचरं तत्र गंधर्वं सविपंचिकम् । इदमाह महावीणा मम वै दीयतामिति