गीतं वाद्यं पुराणं च नृत्यं हासोक्तिरेव च । नीराजनं च पुष्पाणामंजलिश्चाखिलार्पणम्
क्षमा चोद्वासनं चैव कीर्तितं चोपचारकम् । भूषणं च तथा छत्रं चामरं व्यजनं तथा
शिवोपवीतं कैङ्कर्यं षडीशानोपचारकम् । द्वात्रिंशदुपचारैस्तु यः समाराधयेच्छिवम्
एकेनाह्ना समस्तानां पापानां नाशनं ध्रुवम् । द्वात्रिंशदुपचारं स्यात्पूजनं तूत्तमोत्तमम्
सदाशिव उवाच- एवमेतत्कपिश्रेष्ठ तव पूजां वदाम्यहम् । मत्पादयुगलं पूज्य सर्वपूजाकरो भव
आराध्येत्थं यथालिंगे तन्ममाराधनं कुरु । हनूमानुवाच- गुरुणा लिंगपूजैव नियता कल्पिता मम
तां करोमि पुरा देव पश्चात्त्वत्पादपूजनम् । इत्युक्त्वैव नमस्येशं शिवलिगार्चनेऽभवत्
सरस्तीरमथो गत्वा कृत्वा सैकतवेदिकाम् । तालपत्रैर्विरचितमासनं परिकल्पयेत्
प्रक्षाल्य पादहस्तौ तु समाचम्य समाहितः । भस्मस्नानमथो चक्रे पुनराचम्य वाग्यतः
देववेद्यामथो चक्रे पद्मानि सुमनोहरम् । अनंतरं तालपत्रं पद्मासनगतः कपिः
प्राणानायम्य सन्यासं शुक्लध्यानसमन्वितः । प्रणम्य गुरुमीशानं जपन्नासीदतः परम्
अथ देवार्चनं कर्तुं यत्नमास्थितवानपि । पलाशपत्रपुटकद्वयानीत जलं शुचि
शिरःकमंडलुगतं निधायाग्निं त्रिमंत्रितम् । आवाहनादि कृत्वाथ स्नानपर्यन्तमेव च
अथ स्नापयितुं देवमादाय करसंपुटे । कृत्वा निरीक्षणं देवं पीठं नो दृष्टवान्कपिः
लिंगमात्रं करगतं दृष्ट्वा भीतिसमन्वितः । इदमाह महायोगी किं वा पापं मया कृतम्
यदेतत्पीठरहितं शिवलिंगं करस्थितम् । ममाद्य मरणं सिद्धं पीठं चेन्नागमिष्यति
अथ रुद्रं जपिष्यामि तदायाति महेश्वरः । इति निश्चित्य मनसा जजाप शतरुद्रियम्
अथापि न समायातो महेशोऽथ कपीश्वरः । रुद्रं न्यपातयद्भूम्यां वीरभद्रः समागतः
किमर्थं रुद्यते भक्त रुदिहेतुं वदस्व मे । हनूमानुवाच- पीठहीनमिदं लिंगं पश्य मे पापसंचयम्
वीरभद्र उवाच- यदि नायाति पीठं ते लिंगे मा साहसं कृथाः । दाहयिष्याम्यहं लोकं यदि नायाति पीठकम्
पश्य दर्शय मे लिंगं पीठं यद्यागतं न वा । अथ दृष्ट्वा वीरभद्रो लिंगं पीठमनागतम्
दग्धुकामोऽखिलाँल्लोकान्वीरभद्रः प्रतापवान् । अनलं भुवि चिक्षेप क्षणाद्दग्धा मही तदा
अथ सप्ततलान्दग्ध्वा पुनरूर्द्ध्वमवर्तत । पंचोर्द्ध्वलोकानदहज्जनलोकनिवासिनः
ललाटनेत्रसंभूतं नखेनादाय चानलम् । जंबीरफलसंकाशं कृत्वा करतले विभुः
यदि नायाति पीठं ते दग्धा लोका न संशयः । अनायातमथो दृष्ट्वा वीरभद्रः प्रतापवान्
सनकादयो महात्मानो ज्ञात्वा योगेन चागमन् । गौतमस्याश्रमवरं समागम्य महेश्वरम्
न दृष्टवंतो देवादिं विद्यमानमपि द्विजाः । अस्तुवन्नथ च स्तोत्रैः सर्ववेदसमुद्भवैः
ॐनमो देवदेवाय तस्मै शुद्धप्रभाचिंत्यरूपाय तस्मै । नमः सुराणामधीशाय तस्मै नमो वेदगुह्याय शुद्धाय तस्मै
नमः शिवायादिदेवाय तस्मै नमो व्यालयज्ञोपवीताय तस्मै । नमः सुरानंदसंदोह वर्षत्रयी बिंदुविश्वंभराय तस्मै
पृथिव्यथो वायुराकाशमापः पुनः शशी वह्निसूर्य्यौ तथात्मा । यस्याष्टैता मूर्तयः शंकरस्य तस्मै नमो ज्ञानगम्याय शश्वत्