दर्भभस्मसमासीनः प्राणानायम्य वाग्यतः । तावत्स देवतारूपो ध्यानं चान्तः समाचरेत्
शिखांते द्वादशांगुल्ये स्थितं सूक्ष्मतनुं शिवम् । अंतश्चरंतं भूतेषु गुहायां विश्वमूर्तिषु
सर्वाभरणसंयुक्तमणिमादि गुणान्वितम् । ध्यात्वा तं धारयेच्चित्ते तद्व्याप्त्या पूरयेत्तनूम्
तया दीप्त्या शरीरस्थं पापं नाशमुपागतम् । स्वर्णं पारदसंपर्काद्रक्तं श्वेतं यथा भवेत्
तद्द्वादशदलावृत्तमष्टपंचत्रिरेव वा । परिकल्प्यासनं शुद्धं तत्र लिंगं निधाय च
गुहास्थितं महेशानं लिंगे संचिंतयेत्तथा । शोधिते कलशे तोयं शोधितं गंधवासितम्
सुगंधपुष्पं निक्षिप्य प्रणवेनाभिमंत्रितम् । प्राणायामश्च प्रणवः शूद्रेषु न विधीयते
प्राणायामपदे ध्यानं शिवेत्योङ्कारमंत्रणम् । गंधपुष्पाक्षतादीनि पूजाद्रव्याणि यानि च
तानि स्थाप्य समीपे तु ततः संकल्पयिष्यते । शिवपूजां करिष्यामि शिवतुष्ट्यर्थमेव च
इति संकल्पयित्वा तु तत आवाहनादिकम् । कृत्वा तु स्नानपर्यंतं ततः स्नानं प्रकल्पयेत्
नमस्तेत्यादिमंत्रेण शतरुद्रियविधानतः । अविच्छिन्ना तु या धारा मुक्तिधारेति कीर्तिता
तया यः स्नापयेन्मासं जपन्रुद्रमुपांशु वा । एकवारं त्रिवारं च पंच सप्त नवापि वा
एकादशमथो वारमथैकादशचान्वितम् । मुक्तिस्नानमिदं ज्ञेयं मासं मोक्षप्रदायकम्
शैवया विद्यया स्नानं केवलं प्रणवेन च । मृण्मयैर्नालिकेरस्य शकलैश्चोर्मिभिस्तथा
कांस्येन मुक्ता भुक्त्या च पुष्पादिक सरेणवा । स्नापयेद्देवदेवेशं यथासंभवमीरितैः
शृंगस्य च विधिं वक्ष्ये स्नानयोग्यं यथा भवेत् । पूर्वमंतस्तु संशोध्य बहिरंतस्तु शोधयेत्
सुस्निग्धं लघुकृत्वाथ नागं छिंद्यात्कथंचन । नीचैकदेशविन्यस्तद्वारद्रोण्या सुवृत्तयोः
कुशानुयुतया स्नानं देवाय परिकल्पयेत् । एवं गवयशृंगस्य जलमूर्तिरथोच्यते
द्वारे निषिद्धलोहार्द्धं संधिद्वारा समन्विते । योगवक्त्रं नागदंडं नागाकारं प्रकल्पयेत्
फलस्थाने तु चषकं दंडेन समरंध्रकम् । तत्रैव पातयेत्तोयमूर्द्ध्वयंत्रघटे स्थितम्
पातयेदथ चान्येन वामेनैव करेण वा । मुक्तिधाराकृता तेन पवित्रं पापनाशनम्
एवं संस्थाप्य देवेशं पंचगव्यैस्तथैव च । पंचामृतैरथ स्नाप्य मधुरत्रितयेन च
विभूष्य भूषकैर्देवं पुनः स्नाप्य महेश्वरम् । शीतोपचारं कृत्वाथ तत आचमनादिकम्
वस्त्रं तथोपवीतं च पंचगंधकमेव च । कर्पूरमरुवं चापि पाटीरमथ वा भवेत्
उभयं मिश्रितं वापि शिवलिंगं प्रपूजयेत् । कृत्स्नपीठं गंधपूर्णं यद्वा विभवसारतः
तूष्णीमथोपचारं वा कालियं पुष्पमर्पयेत् । श्रीपत्रमरुचित्याजं यथाशक्त्याखिलं यथा
अनेकद्रव्यधूपं च गुग्गुलं केवलं तथा । कपिलाघृतसंयुक्तं सर्वधूपाय शस्यते
धूपं दत्वा यथाशक्ति कपिलाघृतदीपकान् । अथवाप्याज्यमात्रेण दीपान्दत्वोपहारकम्
यथाशक्त्युपपन्नं च दत्वा पुष्पसमन्वितम् । मुखशुद्धिं ततो दत्वा दत्वा तांबूलमादरात्
प्रदक्षिणनमस्कारौ पूजैवं हि समाप्यते । गीतांगपंचकं पश्चात्तानि विज्ञापयामि ते