कोणद्वादशकांदोलां पादुकाव्यजनानि च । चामरच्छत्रयुगलं विष्णुब्रह्मादिकं तथा
चूर्णैर्विरचयेद्वेद्यां धीमान्देवालयेऽपि वा । यत्रापि देवपूजा स्यात्तत्रैवं कल्पयेद्बुधः
स्वहस्तरचितं मुख्यं क्रीतं चैव तु मध्यमम् । याचितं तु कनिष्ठं स्याद्बलात्कारमथाधमम्
अर्हेषु यत्त्वनर्हेषु बलात्कारात्तु निष्फलम् । रक्तशालि जपा स्थाण कलमासित रक्तकैः
तंदुलैर्व्रीहिमात्रोत्थैः कर्णैश्चैव यथाक्रमम् । उत्तमैर्मध्यमैश्चैव कथितैरधमैस्तथा
पद्मादिस्थापनैरेव तत्सम्यग्यागमाचरेत् । प्रागुत्तरमुखो वापि यदि वा प्राङ्मुखो भवेत्
आसनं च प्रवक्ष्यामि यथादृष्टं यथाश्रुतम् । कौशं चार्म्मं चैलतुल्यं दारवं ताडपत्रकम्
कांबलं कांचनं चैव राजतं ताम्रमेव च । गोकरीषार्कजैर्वापि आसनं परिकल्पयेत्
वैयाघ्रं रौरवं चैव हारिणं मार्गमेव च । चार्मं चतुर्विधं ज्ञेयमथ बंधुकमेव च
यथासंभवमेतेषु ह्यासनं परिकल्पयेत् । कृतपद्मासनो वापि स्वास्तिकासन एव च
दर्भभस्मसमासीनः प्राणानायम्य वाग्यतः । तावत्स देवतारूपो ध्यानं चान्तः समाचरेत्
शिखांते द्वादशांगुल्ये स्थितं सूक्ष्मतनुं शिवम् । अंतश्चरंतं भूतेषु गुहायां विश्वमूर्तिषु
सर्वाभरणसंयुक्तमणिमादि गुणान्वितम् । ध्यात्वा तं धारयेच्चित्ते तद्व्याप्त्या पूरयेत्तनूम्
तया दीप्त्या शरीरस्थं पापं नाशमुपागतम् । स्वर्णं पारदसंपर्काद्रक्तं श्वेतं यथा भवेत्
तद्द्वादशदलावृत्तमष्टपंचत्रिरेव वा । परिकल्प्यासनं शुद्धं तत्र लिंगं निधाय च
गुहास्थितं महेशानं लिंगे संचिंतयेत्तथा । शोधिते कलशे तोयं शोधितं गंधवासितम्
सुगंधपुष्पं निक्षिप्य प्रणवेनाभिमंत्रितम् । प्राणायामश्च प्रणवः शूद्रेषु न विधीयते
प्राणायामपदे ध्यानं शिवेत्योङ्कारमंत्रणम् । गंधपुष्पाक्षतादीनि पूजाद्रव्याणि यानि च
तानि स्थाप्य समीपे तु ततः संकल्पयिष्यते । शिवपूजां करिष्यामि शिवतुष्ट्यर्थमेव च
इति संकल्पयित्वा तु तत आवाहनादिकम् । कृत्वा तु स्नानपर्यंतं ततः स्नानं प्रकल्पयेत्
नमस्तेत्यादिमंत्रेण शतरुद्रियविधानतः । अविच्छिन्ना तु या धारा मुक्तिधारेति कीर्तिता
तया यः स्नापयेन्मासं जपन्रुद्रमुपांशु वा । एकवारं त्रिवारं च पंच सप्त नवापि वा
एकादशमथो वारमथैकादशचान्वितम् । मुक्तिस्नानमिदं ज्ञेयं मासं मोक्षप्रदायकम्
शैवया विद्यया स्नानं केवलं प्रणवेन च । मृण्मयैर्नालिकेरस्य शकलैश्चोर्मिभिस्तथा
कांस्येन मुक्ता भुक्त्या च पुष्पादिक सरेणवा । स्नापयेद्देवदेवेशं यथासंभवमीरितैः
शृंगस्य च विधिं वक्ष्ये स्नानयोग्यं यथा भवेत् । पूर्वमंतस्तु संशोध्य बहिरंतस्तु शोधयेत्
सुस्निग्धं लघुकृत्वाथ नागं छिंद्यात्कथंचन । नीचैकदेशविन्यस्तद्वारद्रोण्या सुवृत्तयोः
कुशानुयुतया स्नानं देवाय परिकल्पयेत् । एवं गवयशृंगस्य जलमूर्तिरथोच्यते
द्वारे निषिद्धलोहार्द्धं संधिद्वारा समन्विते । योगवक्त्रं नागदंडं नागाकारं प्रकल्पयेत्
फलस्थाने तु चषकं दंडेन समरंध्रकम् । तत्रैव पातयेत्तोयमूर्द्ध्वयंत्रघटे स्थितम्