आतनुष्वेतिवाक्यैश्च प्रतिपाद्याय ते नमः । अष्टमूर्ते नमस्तुभ्यं पशूनांपतये नमः
त्र्यंबकाय त्रिनेत्राय सोमसूर्याग्निलोचन । सुभृंगराजधत्तूरद्रोणपुष्पप्रियाय ते
बृहतीपूगपुंनाग चंपकादिप्रियाय च । नमस्तेस्तु नमस्तेस्तु भूय एव नमोनमः
शिवो हरिमथ प्राह मा भैषीर्वद मेऽखिलम् । हनुमानुवाच- शिवलिगार्चनं कार्यं भस्मोद्धूलितदेहिना
दिवासंपादितैस्तोयैः पुष्पाद्यैरपि तादृशैः । देव विज्ञापयिष्यामि शिवपूजाविधिं शुभम्
सायंकाले तु संप्राप्ते अशिरः स्नानमाचरेत् । क्षालितं वसनं शुष्कं धृत्वाचम्य द्विरग्रधीः
अथ भस्म समादाय आग्नेयं स्नानमाचरेत् । प्रणवेन समामंत्र्याप्यष्टवारमथापि वा
पंचाक्षरेण मंत्रेण नाम्ना वा येनकेनचित् । सप्ताभिमंत्रितं भस्म दर्भपाणिः समाहरेत्
ईशानः सर्वविद्यानामुक्त्वा शिरसि पातयेत् । तत्पुरुषाय विद्महे मुखे भस्म प्रसेचयेत्
अघोरेभ्योऽथ घोरेभ्यो भस्म वक्षसि निक्षिपेत् । वामदेवाय नम इति गुह्यस्थाने विनिक्षिपेत्
सद्योजातं प्रपद्यामि निक्षिपेदथ पादयोः । उद्धूलयेत्समस्तांगे प्रणवेन विचक्षणः
त्रैवर्णिकानामुदितः स्नानादिविधिरुत्तमः । शूद्रादीनां प्रवक्ष्यामि यदुक्तं गुरुणा तथा
शिवेति पदमुच्चार्य भस्मसंमंत्रयेत्सुधीः । सप्तवारमथादाय शिवायेति शिरः क्षिपेत्
शंकराय मुखे प्रोक्तं सर्वज्ञाय हृदि क्षिपेत् । स्थाणवे नम इत्युक्त्वा गुह्ये चापि स्वयंभुवे
उच्चार्य पादयोः क्षिप्त्वा भस्मशुद्धमतः परम् । नमः शिवायेत्युच्चार्य सर्वांगोद्धूलनं स्मृतम्
तदभावे तु दूर्वाः स्युस्तदभावे तु राजतम् । संध्योपास्तिं जपं देव्याः कृत्वा देवगृहं व्रजेत्
देववेदिमथो वापि कल्पितं स्थंडिलं तु वा । मृण्मयं कल्पितं शुद्धं पद्मादिरचनायुतम्
चातुर्वर्णक रंगैश्च श्वेतेनैकेन वा पुनः । विचित्राणि च पद्मानि स्वस्तिकादि तथैव च
उत्पलादि गदा शंख त्रिशूलं डमरुं तथा । सरोक्तपंचप्रासादं शिवलिंगमथैव च
सर्वकामफलं वृक्षं कुलकं कोलकं तथा । षट्कोणंचत्रिकोणंचनवकोणमथापिवा
कोणद्वादशकांदोलां पादुकाव्यजनानि च । चामरच्छत्रयुगलं विष्णुब्रह्मादिकं तथा
चूर्णैर्विरचयेद्वेद्यां धीमान्देवालयेऽपि वा । यत्रापि देवपूजा स्यात्तत्रैवं कल्पयेद्बुधः
स्वहस्तरचितं मुख्यं क्रीतं चैव तु मध्यमम् । याचितं तु कनिष्ठं स्याद्बलात्कारमथाधमम्
अर्हेषु यत्त्वनर्हेषु बलात्कारात्तु निष्फलम् । रक्तशालि जपा स्थाण कलमासित रक्तकैः
तंदुलैर्व्रीहिमात्रोत्थैः कर्णैश्चैव यथाक्रमम् । उत्तमैर्मध्यमैश्चैव कथितैरधमैस्तथा
पद्मादिस्थापनैरेव तत्सम्यग्यागमाचरेत् । प्रागुत्तरमुखो वापि यदि वा प्राङ्मुखो भवेत्
आसनं च प्रवक्ष्यामि यथादृष्टं यथाश्रुतम् । कौशं चार्म्मं चैलतुल्यं दारवं ताडपत्रकम्
कांबलं कांचनं चैव राजतं ताम्रमेव च । गोकरीषार्कजैर्वापि आसनं परिकल्पयेत्
वैयाघ्रं रौरवं चैव हारिणं मार्गमेव च । चार्मं चतुर्विधं ज्ञेयमथ बंधुकमेव च
यथासंभवमेतेषु ह्यासनं परिकल्पयेत् । कृतपद्मासनो वापि स्वास्तिकासन एव च