पार्वतीवसने गूढगंधाढ्ये च समादधात् । अथांसपृष्ठसंलग्नमार्जनं कृतवान्विभुः
श्लथनीवेरधो देव्या वस्त्रवेष्टेरधोगतः । देवः किमिदमित्युक्त्वा नीवीबंधं चकार ह
नासाभूषणमेतत्ते पश्यामि स मदात्ततः । इत्युक्त्वा स्वयमादाय विच्छायं मौक्तिकं सती
हरिद्रायाः समायोगे मुक्ताफलमदीप्तिमत् । इदं हि ध्रियतां मुक्ताफलं मम तव प्रियम्
पार्वत्युवाच- अहो त्वन्मंदिरं शंभो सर्ववस्तुसमृद्धिमत् । पूर्वमेव मया सर्वं वस्तुज्ञातं विभूषणैः
अहो द्रविणसंपत्तिर्भूषणैरवगम्यते । शिरोविभूषितं देव ब्रह्मशीर्षस्य मालया
नरकस्य तथा माला वक्षःस्थलविभूषणम् । शेषश्च वासुकिश्चैव सविषौ तव कंकणे
दिशोंऽबरे जटा केशा भसितं चांगरागकम् । महोक्षो वाहनं गोत्रं कुलं चाज्ञातमेव च
ज्ञायेते पितरौ नैव विरूपाक्षं तथा वपुः । एवं वदंतीं गिरिजां विष्णुः प्राहाति कोपनः
किमर्थं निंदसे देवि देवदेवं जगत्पतिम् । त्यक्ष्ये प्राणान्प्रियान्भद्रे तव नूनमसंयमम्
यत्रेशनिंदनं भद्रे तत्र नो मरणं व्रतम् । इत्युक्त्वाथ नखाभ्यां हि हरिश्छेत्तुं शिरोगतः
महेशस्तु करं गृह्य प्राह मा साहसं कृथाः । पार्वतीवचनं सर्वं प्रियं मम तवाप्रियम्
ममाप्रियं हृषीकेश कर्तुं यत्किंचिदिष्यते । ओमित्युक्त्वाथ भगवांस्तूष्णींभूतोऽभवद्धरिः
हनुमानथ देवाय व्यज्ञापयदिदं वचः । अर्थयामि विनिष्कामं मम पूजाव्रतं तथा
पूजार्थमप्यहं गच्छे ममानुज्ञातुमर्हसि । शंकर उवाच- कस्य पूजा क्व वा पूजा किं पुष्पं किं दलं वद
को गुरुः कश्च मंत्रस्ते कीदृशं पूजनं तथा । एवं वदति देवेशे हनूमानतिकंपितः
वेपमानसमस्तांगः स्तोतुमेव प्रचक्रमे । हनूमानुवाच- नमो देवाय महते शंकरायामितात्मने
योगिने योगधात्रे च योगिनां गुरवे नमः । योगिगम्याय देवाय ज्ञानिनां पतये नमः
वेदानां पतये तुभ्यं देवानां पतये नमः । ध्यानायध्यनगम्याय धातॄणां गुरवे नमः
शिष्टायशिष्टगम्याय भूम्यादि पतये नमः । नमस्तेत्यादिना वेदवाक्यानां निधये नमः
आतनुष्वेतिवाक्यैश्च प्रतिपाद्याय ते नमः । अष्टमूर्ते नमस्तुभ्यं पशूनांपतये नमः
त्र्यंबकाय त्रिनेत्राय सोमसूर्याग्निलोचन । सुभृंगराजधत्तूरद्रोणपुष्पप्रियाय ते
बृहतीपूगपुंनाग चंपकादिप्रियाय च । नमस्तेस्तु नमस्तेस्तु भूय एव नमोनमः
शिवो हरिमथ प्राह मा भैषीर्वद मेऽखिलम् । हनुमानुवाच- शिवलिगार्चनं कार्यं भस्मोद्धूलितदेहिना
दिवासंपादितैस्तोयैः पुष्पाद्यैरपि तादृशैः । देव विज्ञापयिष्यामि शिवपूजाविधिं शुभम्
सायंकाले तु संप्राप्ते अशिरः स्नानमाचरेत् । क्षालितं वसनं शुष्कं धृत्वाचम्य द्विरग्रधीः
अथ भस्म समादाय आग्नेयं स्नानमाचरेत् । प्रणवेन समामंत्र्याप्यष्टवारमथापि वा
पंचाक्षरेण मंत्रेण नाम्ना वा येनकेनचित् । सप्ताभिमंत्रितं भस्म दर्भपाणिः समाहरेत्
ईशानः सर्वविद्यानामुक्त्वा शिरसि पातयेत् । तत्पुरुषाय विद्महे मुखे भस्म प्रसेचयेत्
अघोरेभ्योऽथ घोरेभ्यो भस्म वक्षसि निक्षिपेत् । वामदेवाय नम इति गुह्यस्थाने विनिक्षिपेत्