कृतसंध्यास्तटाके तु महेशाद्यास्तु कृत्स्नशः । अथोत्तरमुखः शंभुर्न्यासं कृत्वा जजाप ह
अथविष्णुर्महातेजा महेशमिदमब्रवीत् । सर्वैर्नमस्यते यस्तु सर्वैरेव समर्च्यते
हूयते सर्वयज्ञेषु स भवान्किं जपिष्यति । रचितांजलयः सर्वे त्वामेवैकमुपासते
स भवान्देवदेवेश कस्मै वा रचितांजलि । नमस्कारादि पुण्यानां फलदस्त्वं महेश्वर
तव कः फलदो वंद्यः को वा त्वत्तोधिको वद । शंकर उवाच- ध्याये न किंचिद्गोविंद न नमस्येह किंचन
नोपास्ये कंचन हरे न जपिष्येह किंचन । किंतु नास्तिकजंतूनां प्रवृत्त्यर्थमिदं मया
दर्शनीयं हरे ते स्युरन्यथा पापकारिणः । तस्माल्लोकोपकारार्थमिदं सर्वं कृतं मया
ओमित्युक्त्वा हरिरथ तं नत्वा समतिष्ठत । अथ ते गौतमगृहं प्राप्ता देवगणर्षयः
सर्वे पूजामथो चक्रुर्देवदेवे पिनाकिने । देवो हनूमता सार्द्धं गायन्नास्ते रघूत्तम
पञ्चाक्षरीं महाविद्यां सर्व एव तदा जपन् । हनूमत्करमालंब्य देव्यभ्याशं गतो हरः
एकशय्यासमासीनौ तावुभौ देवदंपती । गायन्नास्ते स हनुमांस्तुंबुरुर्नारदस्तथा
नानाविधिविलासांश्च चकार परमेश्वरः । आहूय पार्वतीमीश इदं वाक्यमुवाच ह
श्रीसदाशिव उवाच- रचयिष्यामि धम्मिल्लमेहि मत्पुरतः शुभे । देव्याह न च युक्तं तद्भर्त्राशुश्रूषणं स्त्रियः
केशप्रसाधनकृतावनर्थांतरमापतेत् । केशप्रसाधने देव तत्वं सर्वं न चेप्सितम्
अथ बंधे कृते पश्चादंसप्रांतप्रमार्जनम् । तनोश्चरमसंलग्न केशपुष्पादिमार्जनम्
एतस्मिन्वर्तमाने तु महात्मानो यदागमन् । तदा किमुत्तरं वाच्यं तव देवादिवंदिनः
नायांति चेदथ विभो भीतिर्नाशमुपेष्यति । एवं हि भाषमाणां तां करेणाकृष्य शंकरः
स्वोर्वोस्तां स्थापयित्वैव विस्रस्य कचबंधनम् । विभज्य च कराभ्यां स प्रससार नखैरपि
विष्णुदत्तां पारिजातस्रजं कचगतामपि । कृत्वा धम्मिल्लमकरोदथ मालां करागताम्
मल्लिकास्रजमादाय बबंध कचबंधने । कल्पप्रसूनमालां च ब्रह्मदत्तां महेश्वरः
पार्वतीवसने गूढगंधाढ्ये च समादधात् । अथांसपृष्ठसंलग्नमार्जनं कृतवान्विभुः
श्लथनीवेरधो देव्या वस्त्रवेष्टेरधोगतः । देवः किमिदमित्युक्त्वा नीवीबंधं चकार ह
नासाभूषणमेतत्ते पश्यामि स मदात्ततः । इत्युक्त्वा स्वयमादाय विच्छायं मौक्तिकं सती
हरिद्रायाः समायोगे मुक्ताफलमदीप्तिमत् । इदं हि ध्रियतां मुक्ताफलं मम तव प्रियम्
पार्वत्युवाच- अहो त्वन्मंदिरं शंभो सर्ववस्तुसमृद्धिमत् । पूर्वमेव मया सर्वं वस्तुज्ञातं विभूषणैः
अहो द्रविणसंपत्तिर्भूषणैरवगम्यते । शिरोविभूषितं देव ब्रह्मशीर्षस्य मालया
नरकस्य तथा माला वक्षःस्थलविभूषणम् । शेषश्च वासुकिश्चैव सविषौ तव कंकणे
दिशोंऽबरे जटा केशा भसितं चांगरागकम् । महोक्षो वाहनं गोत्रं कुलं चाज्ञातमेव च
ज्ञायेते पितरौ नैव विरूपाक्षं तथा वपुः । एवं वदंतीं गिरिजां विष्णुः प्राहाति कोपनः
किमर्थं निंदसे देवि देवदेवं जगत्पतिम् । त्यक्ष्ये प्राणान्प्रियान्भद्रे तव नूनमसंयमम्