मणिपात्रेषु संवेष्ट्य पूगखंडान्सुधूपितान् । अकोणवर्तुलान्स्थूलानसूक्ष्मानकृशानपि
श्वेतपत्राणि संशोध्य क्षिप्त्वा कर्पूरखंडकम् । चूर्णं च शंकरायाथ निवेदयति गौतमे
गृहाण देव तांबूलमित्युक्तवचने मुनौ । कपे गृहाण तांबूलं प्रयच्छ मम खंडकान्
उवाच वानरो नास्ति मम शुद्धिर्महेश्वर । अनेकफलभुक्तत्वाद्वानरस्तु शुचिः कथम्
सदाशिव उवाच-। मद्वाक्यादखिलं शुद्ध्येन्मद्वाक्यादमृतं विषम् । मद्वाक्यादखिला वेदा मद्वाक्याद्देवतादयः
मद्वाक्याद्धर्मविज्ञानं मद्वाक्यान्मोक्ष उच्यते । पुराणान्यागमाश्चैव स्मृतयो मम वाक्यतः
अतो गृहाण तांबूलं मम दद्याः सुखंडकान् । हरिर्वामकरेणादात्तांबूलं पूगखंडकम्
ततः पत्राणि संगृह्य ततः खंडान्समर्पयत् । कर्पूरमग्रतो दत्तं गृहीत्वाऽभक्षयच्छिवः
देवे तु कृततांबूले पार्वती मंदराचलात् । जया विजययोर्हस्तं गृहीत्वाऽऽयान्मुनेर्गृहम्
देवपादौ ततो नत्वा विनम्रवदनाऽऽभवत् । उन्नमय्य मुखं तस्या इदमाह त्रिलोचनः
त्वदर्थं देवदेवेशि अपराधः कृतो मया । यत्त्वां विहाय भुक्तं हि तथान्यच्छृणु सुंदरि
अथ स्वमंदिरे स्थाप्य देवदेवविवर्जिते । सर्वबंधविमुक्ते च महदेनो मया कृतम्
क्षंतुमर्हसि देवेशि त्यक्तकोपा विलोकय । न बभाषैवमुक्त्वा सा अरुंधत्या हि निर्ययौ
निर्गच्छंतीं मुनिर्ज्ञात्वा दंडवत्प्रणनाम च । तदारभ्य महेशाय दंडप्रणति संस्तुतिम्
कुर्यादुवाच च शिवा गौतम त्वं किमिच्छसि । गौतम उवाच- कृतकृत्योस्मि देवेशि यदि देयो वरो मम
मन्मंदिरे महाभागे भोक्तुमर्हसि सांप्रतम् । देव्युवाच- भोक्ष्यामि तव गेहेहं शंकरानुमता मुने
गत्वेशं गौतमो विप्रो लब्धानुज्ञः पुनर्गतः । भोजयामास गिरिजां देवीं चारुंधतीं तथा
भुक्त्वाथ पार्वती सर्वं गंधपुष्पसभूषणा । सहानुचरकन्याभिः सहस्राभिर्हरं ययौ
अथाह शंकरो देवीं गच्छ गौतममंदिरम् । संध्योपास्तिमहं कृत्वा आगच्छामि पुनर्गृहम्
इत्युक्ता प्रययौ देवी गौतमस्यैव मंदिरम् । संध्यावंदनकामाश्च सर्वएव विनिर्गताः
कृतसंध्यास्तटाके तु महेशाद्यास्तु कृत्स्नशः । अथोत्तरमुखः शंभुर्न्यासं कृत्वा जजाप ह
अथविष्णुर्महातेजा महेशमिदमब्रवीत् । सर्वैर्नमस्यते यस्तु सर्वैरेव समर्च्यते
हूयते सर्वयज्ञेषु स भवान्किं जपिष्यति । रचितांजलयः सर्वे त्वामेवैकमुपासते
स भवान्देवदेवेश कस्मै वा रचितांजलि । नमस्कारादि पुण्यानां फलदस्त्वं महेश्वर
तव कः फलदो वंद्यः को वा त्वत्तोधिको वद । शंकर उवाच- ध्याये न किंचिद्गोविंद न नमस्येह किंचन
नोपास्ये कंचन हरे न जपिष्येह किंचन । किंतु नास्तिकजंतूनां प्रवृत्त्यर्थमिदं मया
दर्शनीयं हरे ते स्युरन्यथा पापकारिणः । तस्माल्लोकोपकारार्थमिदं सर्वं कृतं मया
ओमित्युक्त्वा हरिरथ तं नत्वा समतिष्ठत । अथ ते गौतमगृहं प्राप्ता देवगणर्षयः
सर्वे पूजामथो चक्रुर्देवदेवे पिनाकिने । देवो हनूमता सार्द्धं गायन्नास्ते रघूत्तम
पञ्चाक्षरीं महाविद्यां सर्व एव तदा जपन् । हनूमत्करमालंब्य देव्यभ्याशं गतो हरः