व्यज्ञापयदमेयात्मन्देवैहि करुणानिधे । मध्याह्नोऽयं व्यतिक्रांतो भुक्तिवेलाऽखिलस्य च
अथाचम्य महादेवो विष्णुना सहितो विभुः । प्रविश्य गौतमगृहं भोजनायोपचक्रमे
रत्नांगुलीयैरथ नूपुराभ्यां दुकूलबंधेन तडित्सु कांच्या । हारैरनेकैरथ कंठनिष्क यज्ञोपवीतोत्तरवाससी च
विलंबिचंचन्मणिकुंडलेन सुपुष्पिधम्मिल्लवरेण देवः । पंचांगगंधस्य विलेपनेन बाह्वंगदैः कंकणकांगुलीयकैः
इत्थं विभूषितः शिवो निविष्टउत्तमासने स्वसंमुखं हरिं तथा न्यवेशयद्वरासने । अन्योन्यसंमुखौ स्थितौ हरीशौ देवसत्तमौ सुवर्णभाजनान्यथो ददौ स चापि गौतमः
त्रिंशत्प्रभेदभक्ष्यकं सुपायसं चतुर्विधं सुपक्वपाकजातकं शतद्वयं प्रकल्पितम् । अपक्वपक्वमिश्रकं शतत्रयं प्रकल्पितं शतंशतं तथा सुकंदशाककं तथा मुनिः
शाकादि सर्पिषान्वितं ददौ च पंचविंशतिं सुशर्करादिकं तथा सुचूनदाडिमादिकम् । मोचाफलं तु गोस्तनीं सुखर्जुनागरंगकं जंबूफलं प्रियालुकं विकंकतं फलं तथा
एवमादीनि चान्यानि द्रव्याण्यर्प्य यथाविधि । दत्वा चापोशनं विप्रो भुंजध्वमिति चाब्रवीत्
भुंजानेषु च सर्वेषु व्यजनं सूक्ष्मवस्त्रजम् । गौतमः स्वयमादाय शिवविष्णू अवीजयत्
परिहासमथोकर्तुमियेष परमेश्वरः । पश्य विष्णो हनूमंतं कथं भुंक्ते स वानरः
वानरं पश्यति हरौ मंडकं विष्णुभाजने । चिक्षेप मुनिसंघेषु पश्यत्स्वपि महेश्वरः
हनूमते दत्तवांश्च स्वोच्छिष्टं पायसादिकम् । त्वदुच्छिष्टमभोज्यं तु तवैव वचनाद्विभो
अनर्हं मम नैवेद्यं पत्रं पुष्पं फलं तथा । मह्यं निवेद्य सकलं कूप एव विनिक्षिपेत्
अभुक्ते त्वद्वचो नूनं भुक्ते चापि कृपा तव । सदाशिव उवाच- बाणलिंगे स्वयंभूते चंद्रकांते ह्यवस्थिते
चांद्रायणसमं ज्ञेयं शंभोर्नैवेद्यभक्षणम् । भुक्तिवेलेयमधुना तद्वैरस्यं कथांतरात्
भुक्त्वा तु कथयिष्यामि निर्विशंकं विभुंक्ष्व तत् । अथासौ जलसंस्कारं कृतवान्गौतमो मुनिः
आरक्तसुस्निग्धसुसूक्ष्म गात्राननेकधा धौत सुशोषितांगान् । तडागतोयैः कृतवीजघर्षितैर्विशोधितैस्तैः करकानपूरयत्
नद्याः सैकतवेदिकां नवतरां संच्छाद्य सूक्ष्मांबरैः शुद्धैः श्वेततरैरथोपरिघटांस्तोयेन पूर्णान्क्षिपेत् । क्षिप्त्वा नालकजातिमास्तपुटकं कंकोलकस्तूरिकाचूर्णं चन्दनचंद्ररश्मिविशदां मालां पुटां तं क्षिपेत्
यामस्यापि पुनश्च वारिवसनेनाशोध्य कुंभे क्षिपेच्चंद्र ग्रंथिमथो निधाय बकुलं क्षिप्त्वा तथा पाटलाम्
शेफालीस्तबकमथो जलं च तत्र विन्यस्य प्रथमत एव तोयशुद्धिम् । कृत्वाथो मृदुतरसूक्ष्मवस्त्रखंडेनावेष्टेत्सृणिकमुखं च सूक्ष्मचंद्रम्
अनातपप्रदेशे तु निधाय करकानथ । मंदवातसमोपेते सूक्ष्मव्यजनवीजिते
अथ उर्वीशसलिलैः सिंचयेत्सृणिकामपि । संस्कृत्वा स्वायतास्तत्र नरा नार्योथ वा नृप
तत्कन्या वा क्षालितांगा धौतवस्त्राश्च वा सह । मधुपिंगलनिर्य्यासमसांद्रमगुरुद्रवम्
बाहुमूले च कंठे च विलिप्य सांद्रमेव च । मस्तके जाप्यकं न्यस्य पंचगंधविलेपनम्
पुष्पनद्धसुकेशास्तु ताः शुभास्याः सुनिर्मलाः । एवमेवोचितानार्य आत्तकुंकुमविग्रहाः
युवत्यश्चारुसर्वांग्यो नितरां भूषणैरपि । एतादृग्वनिताभिर्वानरैर्वादापयेज्जलम्
तेऽपि प्रदानसमये सूक्ष्मवस्त्राल्पवेष्टनम् । अथवा मकरे न्यस्य करकं तत्र पश्य हि
दोरिकान्यस्तमुन्मुच्य ततस्तोयं प्रदापयेत् । एवं सत्कारयामास गौतमो भगवान्मुनिः
महेशादिषु सर्वेषु भुक्तवत्सु महात्मसु । प्रक्षालितांघ्रिहस्तेषु गंधोद्वर्तितपाणिषु
तदासनसमासीने देवदेवे महेश्वरे । अथ नीचसमासीना देवाः सर्षिगणास्तथा