ततश्च कुक्षावथ नाभिमंडले ततो द्वितीयं निदधाति चांजलौ । शिरो गृहीत्वावनमय्य शंकरः पस्पर्श पृष्ठं चिबुकेन सध्वनि
हारं च मुक्तापरिकल्पितं शिवो हनूमतः कंठगतं चकार ह । अथ विष्णुर्महेशानमिदं वचनमुक्तवान्
हनूमता समो नास्ति कृत्स्नब्रह्मांडमंडले । श्रुति देवाद्यगम्यं हि पदं तव किलस्थितम्
सर्वोपनिषदव्यक्तं त्वत्पदं कपि सर्वयुक् । यमादिसाधनैर्योगैर्न क्षणं ते पदं स्थितम्
महायोगिहृदंभोजे बलं स्वच्छं हनूमति । वर्षकोटिसहस्रेषु तपः कृत्वा तु दुष्करम्
त्वद्रूपं नाभिजानाति कुतः पादं मुनीश्वराः । अहो भाग्यं विचित्रं हि चपलो वा नरो मृगः
धत्ते पादयुगं चांगे योगिहृद्यपि न क्षमम् । मया वर्षसहस्रं तु सहस्राब्दं तथान्वहम्
भक्त्या संपूजितोऽपीश पादो नो दर्शितस्त्वया । लोके वादो हि सुमहाञ्छुंभुर्नारायणप्रियः
हरिः प्रियस्तथा शंभोर्न तादृग्भाग्यमस्ति मे । सदाशिव उवाच- न त्वया सदृशो मह्यं प्रियोस्ति भगवन्हरे
पार्वती वा त्वया तुल्या न चान्यो विद्यते मम । अथ देवाय महते गौतमः प्रणिपत्य च
व्यज्ञापयदमेयात्मन्देवैहि करुणानिधे । मध्याह्नोऽयं व्यतिक्रांतो भुक्तिवेलाऽखिलस्य च
अथाचम्य महादेवो विष्णुना सहितो विभुः । प्रविश्य गौतमगृहं भोजनायोपचक्रमे
रत्नांगुलीयैरथ नूपुराभ्यां दुकूलबंधेन तडित्सु कांच्या । हारैरनेकैरथ कंठनिष्क यज्ञोपवीतोत्तरवाससी च
विलंबिचंचन्मणिकुंडलेन सुपुष्पिधम्मिल्लवरेण देवः । पंचांगगंधस्य विलेपनेन बाह्वंगदैः कंकणकांगुलीयकैः
इत्थं विभूषितः शिवो निविष्टउत्तमासने स्वसंमुखं हरिं तथा न्यवेशयद्वरासने । अन्योन्यसंमुखौ स्थितौ हरीशौ देवसत्तमौ सुवर्णभाजनान्यथो ददौ स चापि गौतमः
त्रिंशत्प्रभेदभक्ष्यकं सुपायसं चतुर्विधं सुपक्वपाकजातकं शतद्वयं प्रकल्पितम् । अपक्वपक्वमिश्रकं शतत्रयं प्रकल्पितं शतंशतं तथा सुकंदशाककं तथा मुनिः
शाकादि सर्पिषान्वितं ददौ च पंचविंशतिं सुशर्करादिकं तथा सुचूनदाडिमादिकम् । मोचाफलं तु गोस्तनीं सुखर्जुनागरंगकं जंबूफलं प्रियालुकं विकंकतं फलं तथा
एवमादीनि चान्यानि द्रव्याण्यर्प्य यथाविधि । दत्वा चापोशनं विप्रो भुंजध्वमिति चाब्रवीत्
भुंजानेषु च सर्वेषु व्यजनं सूक्ष्मवस्त्रजम् । गौतमः स्वयमादाय शिवविष्णू अवीजयत्
परिहासमथोकर्तुमियेष परमेश्वरः । पश्य विष्णो हनूमंतं कथं भुंक्ते स वानरः
वानरं पश्यति हरौ मंडकं विष्णुभाजने । चिक्षेप मुनिसंघेषु पश्यत्स्वपि महेश्वरः
हनूमते दत्तवांश्च स्वोच्छिष्टं पायसादिकम् । त्वदुच्छिष्टमभोज्यं तु तवैव वचनाद्विभो
अनर्हं मम नैवेद्यं पत्रं पुष्पं फलं तथा । मह्यं निवेद्य सकलं कूप एव विनिक्षिपेत्
अभुक्ते त्वद्वचो नूनं भुक्ते चापि कृपा तव । सदाशिव उवाच- बाणलिंगे स्वयंभूते चंद्रकांते ह्यवस्थिते
चांद्रायणसमं ज्ञेयं शंभोर्नैवेद्यभक्षणम् । भुक्तिवेलेयमधुना तद्वैरस्यं कथांतरात्
भुक्त्वा तु कथयिष्यामि निर्विशंकं विभुंक्ष्व तत् । अथासौ जलसंस्कारं कृतवान्गौतमो मुनिः
आरक्तसुस्निग्धसुसूक्ष्म गात्राननेकधा धौत सुशोषितांगान् । तडागतोयैः कृतवीजघर्षितैर्विशोधितैस्तैः करकानपूरयत्
नद्याः सैकतवेदिकां नवतरां संच्छाद्य सूक्ष्मांबरैः शुद्धैः श्वेततरैरथोपरिघटांस्तोयेन पूर्णान्क्षिपेत् । क्षिप्त्वा नालकजातिमास्तपुटकं कंकोलकस्तूरिकाचूर्णं चन्दनचंद्ररश्मिविशदां मालां पुटां तं क्षिपेत्
यामस्यापि पुनश्च वारिवसनेनाशोध्य कुंभे क्षिपेच्चंद्र ग्रंथिमथो निधाय बकुलं क्षिप्त्वा तथा पाटलाम्
शेफालीस्तबकमथो जलं च तत्र विन्यस्य प्रथमत एव तोयशुद्धिम् । कृत्वाथो मृदुतरसूक्ष्मवस्त्रखंडेनावेष्टेत्सृणिकमुखं च सूक्ष्मचंद्रम्