यस्मादुद्भूतमैश्वर्यं यस्मिन्कस्मिंश्च वर्तते । तस्मिन्नीश्वरशब्दोऽपि प्रोच्यते मुनिभिस्तथा । निरुपाधीश्वरत्वं हि वासुदेवे प्रतिष्ठितम्
आत्मेश्वर इति प्रोक्तो वेदवादैः सनातनैः । तस्मान्महेश्वरत्वं तु वासुदेवे प्रतिष्ठितम्
असौ त्रिपाद्विभूतेस्तु लीलया अपि चेश्वरः । विभूतिद्वयमैश्वर्यं तस्यैव सकलात्मनः
श्रीभूनीलापतिर्योसावीश्वरस्स उदाहृतः । तस्मात्सर्वेश्वरत्वं तु वासुदेवे प्रतिष्ठितम्
असौ यज्ञेश्वरो यज्ञो यज्ञभुक्यज्ञकृद्विभुः । यज्ञभुग्यज्ञपुरुषः स एव परमेश्वरः
यज्ञेश्वरो हव्यसमस्तकव्यभोक्ता व्ययात्मा हरिरीश्वरोऽत्र । तत्संनिधानादपयांति सद्यो रक्षांस्यशेषाण्यसुराश्च सर्वे
योऽसौ विराट्त्वमापन्नो हरिर्भूतो जनार्दनः । संतर्पयति लोकांस्त्रीन्स एव परमेश्वरः
येन पूर्णेन हविषा देवा यज्ञमतन्वत । तस्माद्यज्ञात्समुत्पन्ना ये के चोभयादतः
तस्माद्यज्ञात्सर्वहुत ऋचः सामानि जज्ञिरे । तस्मादश्वा अजायंत गावश्च पुरुषादयः
पुरुषस्य तनोरस्य सर्वयज्ञमयस्य वै । हरेः सर्वं समुद्भूतं जगत्स्थावरजंगमम्
मुखबाहूरुपादाः स्युस्तस्य वर्णा यथाक्रमम् । पद्भ्यां तु पृथिवी तस्य शिरसा द्यौरजायत
मनसश्चंद्रमा जातश्चक्षुषश्च प्रभाकरः । मुखादग्निः सहस्राक्षो वायुः प्राणात्सदागतिः
नाभेर्विरिंचिर्गगनं जगत्सर्वं चराचरम् । यस्मात्सर्वं समुद्भूतं जगद्विष्णोः सनातनात्
तस्मात्सर्वमयो विष्णुर्नारायण इतीरितः । एवं सृष्ट्वा जगत्सर्वं पुनः संग्रसते हरिः
निजलीलासमुद्भूतं तान्तवं चोर्णनाभिवत् । ब्रह्माणमिंद्रं रुद्रं च यमं वरुणमेव च
निगृह्य हरते यस्मात्तस्माद्धरिरहोच्यते । असावेकार्णवीभूते मायावटतले पुमान्
जगत्स्वजठरे कृत्वा शेते तस्मिन्सनातनः । आसीदेको हि वै चात्र विष्णुर्नारायणोऽच्युतः
न ब्रह्मा न च रुद्रश्च न देवा न महर्षयः । नेमे द्यावापृथिव्यौ च न सोमो न च भास्करः
न नक्षत्राणि लोकाश्च न चांडं महदावृतम् । यस्माज्जगद्वृतं तेन सकलं हरिणा शुभे
सृष्टं पुनस्तथा सर्गे तस्मान्नारायणस्स्मृतः । तस्य दास्यं चतुर्थ्यानु मंत्रे प्रोक्तं तु पार्वति
दासभूतमिदं तस्य ब्रह्माद्यं सकलं जगत् । एवमर्थं विदित्वा वै पश्चान्मंत्रं प्रयोजयेत्
अविदित्वा तु मन्त्रार्थं सिद्धिं नैवाधिगच्छति । न तु भुक्तिं च भक्तिं च न च मुक्तिं वरानने
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमामहेश्वरसंवादे मंत्रार्थोपदेशोनाम षड्विंशत्यधिकद्विशततमोऽध्यायः
पार्वत्युवाच- विस्तरेण मयाचक्ष्व मंत्रार्थपदगौरवम् । ईश्वरस्य स्वरूपं च तद्विभूतिगुणांस्तथा
तद्विष्णोः परमं धामव्यूहभेदांस्तथा हरेः । सर्वमाख्याहि तत्त्वेन मम सर्वसुरेश्वर
ईश्वर उवाच- शृणु देवि प्रवक्ष्यामि स्वरूपं परमात्मनः । विभूतिगुणसंघातं तदवस्थात्मकं हरेः
यः परः पुरुषो विष्णुर्नारायण उदाहृतः । स ईश्वरश्च जगतां परमात्मा सनातनः
विश्वतः पाणिपादश्च चक्षुष्मान्विश्वतः प्रभुः । विश्वानि भुवनान्यस्मिन्धामानि परमाणि वै
धारयन्सोऽप्यत्यतिष्ठेन्मनांसि च मनीषिणाम् । एवं बहुस्वरूपः सञ्छ्रीपतिः पुरुषोत्तमः । ईश्वरर्य्या सहभोगार्थं दिव्यमंगलरूपवान्
बृहच्छरीरोऽग्निसमानरूपो युवा कुमारत्वमुपेयिवान्हरिः । रेमे श्रियासौ जगतां जनन्या स्वज्योत्स्नया चंद्रइवामृतांशुः