अत्रांतरे हरेः स्कंधमारुरोह महेश्वरः । हर्युत्तमांगं बाहुभ्यां गृहीत्वा संन्यमज्जयत्
उन्मज्जयित्वा च पुनः पुनश्चापि पुनः पुनः । पीडितः स हरिः सूक्ष्मं पातयामास शंकरम्
अथ पादौ गृहीत्वा तु आचकर्ष च भ्रामयत् । अताडयद्धरेर्वक्षः पातयामास चाच्युतम्
अथोत्थितो हरिस्तोयमादायंजलिना ततः । अवाकिरदथो शंभुमथ विष्णुमथो हरः
जलक्रीडैवमभवदथ चर्षिगणांतरे । जलक्रीडासंभ्रमेण विस्रस्तजटबंधनाः
अथ संभ्रमतस्तेषामन्योन्यजटबंधनम् । इतरेतरबद्धासु जटासु च मुनीश्वराः
शक्तिमंतोऽशक्तिमतः आकर्षंति च सव्यथम् । पातयंतोन्यतश्चापि क्रोशतो रुदतस्तथा
एवं प्रवृत्ते तुमुले संभूते तोयकर्म्मणि । आकाशे नारदो हृष्टो ननर्त च ननाद च
विपंचीं नादयन्वाद्यं ललितां गीतिमुज्जगौ । सुगीत्या ललितायास्तु अगायत विधा दश
शुश्राव गीतं मधुरं शंकरो लोकभावनः । स्वयं गातुं हि ललितं मंदं मंदं प्रचक्रमे
स्वयं गायति देवेशे मिश्रा मंगलकैशिकी । नारदे नृत्यमाने तु गायति स्वरभेदिनि
स्वरं ध्रुवं समादाय सर्वलक्षणसंयुतम् । स्वधारामृतसंयुक्तं गानेनैवमथो जयत्
वासुदेवो मर्दलं च कराभ्यामिदमाहनत् । अवगाहंश्चतुर्वक्त्रस्तुंबुरुर्मुखरो बभौ
तानका गौतमाद्यास्तु तूष्णीं गातुं च वायुतः । गायके मधुरं गीतं हनूमति कपीश्वरे
म्लानमम्लानमभवत्कृशाः पुष्टास्तदाऽभवन् । स्वां स्वां गीतिमतः सर्वे तिरस्कृत्यैव मूर्च्छिताः
तूष्णीं सर्वे समभवन्देवर्षिगणदानवाः । एकः स हनुमान्गाता श्रोतारः सर्व एव ते
मध्याह्नकालवितते भोजनावसरे सति । दुकूलयुगमाधत्त शृण्वन्गीतिं महेश्वरः
पीतवस्त्रद्वयं विष्णुरारक्तं चतुराननः । स्वस्वार्हाण्यथ सर्वेऽपि कृत्यं कृत्वापि कालिकम्
स्वं स्वं वाहनमारुह्य निर्गताः सर्वदेवताः । गानप्रियो महेशस्तु जगाद प्लवगेश्वरम्
प्लवगत्वं मयाज्ञप्तो निःशंकं वृषमारुह । मम चाभिमुखो भूत्वा गायस्वाशेषगायनम्
अथाह कपिशार्दूलो भगवंतं महेश्वरम् । वृषभारोहसामर्थ्यं तव नान्यस्य विद्यते
तव वाहनमारुह्य पातकी स्यामहं विभो । मामेवारुह देवेश विहंगः शिववाहनः
तव चाभिमुखं गानं करिष्यामि विलोकय । अथेश्वरो हनूमंतमारुरोह वृषं यथा
आरूढे शंकरे देवे हनूमान्कंधराशिरः । छित्त्वा त्वचं परावृत्य मुखं गायति पूर्ववत्
शृण्वन्गीतिसुधां शंभुर्गौतमस्य गृहं गतः । सर्वे चाप्यागतास्तत्र देवर्षिगणदानवाः
पूजिता गौतमेनाथ भोजनावसरे सति । यच्छुष्कदारुसंभूतं गृहोपकरणादिकम्
प्ररूढमभवत्सर्वं गायमाने हनूमति । तस्मिन्गाने समस्तानां चित्रदृष्टिरतिष्ठत
द्विबाहुरीशस्य पदाभिवंदनः समस्तगात्राभरणोपपन्नः । प्रसन्नमूर्तिस्तरुणः सुमध्ये विन्यस्तमूर्द्धांजलिभिः सुरैः स्तुतः
शिरः कराभ्यां परिगृह्य शंकरो हनूमतः पूर्वमुखं चकार । पद्मासनासीन हनूमतांजलौ निधाय पादं त्वपरं मुखे च
पादांगुलीभ्यामथ नासिकां विभुः स्नेहेन जग्राह च मंदमंदम् । स्कंधे मुखे त्वंसतले च कंठे वक्षःस्थले च स्तनमध्यमे हृदि