ब्रह्माद्यलभ्यं देवेश दीयतां यदि रोचते । अथेशो विष्णुमालोक्य गृहीत्वा तु करं हरेः
प्रहसन्नंबुजाभाक्षमित्युवाच सदाशिवः । म्लानोदरोसि गोविंद देयं ते भोजनं किमु
स्वयं प्रविश्य यदि वा स्वयं भुंक्ष्व स्वगेहवत् । गच्छ वा पार्वतीगेहं या कुक्षिं पूरयिष्यति
इत्युक्त्वा तत्करालंबी एकांतमगमद्विभुः । आदिश्य नंदिनं देवो द्वाराध्यक्षं यथोक्तवत्
गौतमं समुवाचायमुत्तरं विष्णुभाषणम् । सदाशिव उवाच- संपादयान्नं सर्वेषां भोक्तुकामा वयं मुने
इत्युक्त्वैकांतमगमद्वासुदेवेन शंकरः । मृदुशय्यां समारुह्य शयितौ देवतोत्तमौ
अन्योन्यं भाषणं कृत्त्वा प्रोत्तस्थतुरुभावपि । गत्वा तटाकं गंभीरं स्नास्यंतौ देवसत्तमौ
करांबुपानमन्योन्यं पृथक्कृत्वोभयत्र च । मुनयो राक्षसाश्चैव जलक्रीडां प्रचक्रिरे
अथ विष्णुर्महेशश्च जलपातानि शीघ्रतः । चक्रतुः शंकरः पद्मकिंजल्कांजलिना हरेः
अवाकिरन्मुखे तस्य पद्मोत्फुल्लविलोचने । नेत्रे केशरसंपातान्न्यमीलयत केशवः
अत्रांतरे हरेः स्कंधमारुरोह महेश्वरः । हर्युत्तमांगं बाहुभ्यां गृहीत्वा संन्यमज्जयत्
उन्मज्जयित्वा च पुनः पुनश्चापि पुनः पुनः । पीडितः स हरिः सूक्ष्मं पातयामास शंकरम्
अथ पादौ गृहीत्वा तु आचकर्ष च भ्रामयत् । अताडयद्धरेर्वक्षः पातयामास चाच्युतम्
अथोत्थितो हरिस्तोयमादायंजलिना ततः । अवाकिरदथो शंभुमथ विष्णुमथो हरः
जलक्रीडैवमभवदथ चर्षिगणांतरे । जलक्रीडासंभ्रमेण विस्रस्तजटबंधनाः
अथ संभ्रमतस्तेषामन्योन्यजटबंधनम् । इतरेतरबद्धासु जटासु च मुनीश्वराः
शक्तिमंतोऽशक्तिमतः आकर्षंति च सव्यथम् । पातयंतोन्यतश्चापि क्रोशतो रुदतस्तथा
एवं प्रवृत्ते तुमुले संभूते तोयकर्म्मणि । आकाशे नारदो हृष्टो ननर्त च ननाद च
विपंचीं नादयन्वाद्यं ललितां गीतिमुज्जगौ । सुगीत्या ललितायास्तु अगायत विधा दश
शुश्राव गीतं मधुरं शंकरो लोकभावनः । स्वयं गातुं हि ललितं मंदं मंदं प्रचक्रमे
स्वयं गायति देवेशे मिश्रा मंगलकैशिकी । नारदे नृत्यमाने तु गायति स्वरभेदिनि
स्वरं ध्रुवं समादाय सर्वलक्षणसंयुतम् । स्वधारामृतसंयुक्तं गानेनैवमथो जयत्
वासुदेवो मर्दलं च कराभ्यामिदमाहनत् । अवगाहंश्चतुर्वक्त्रस्तुंबुरुर्मुखरो बभौ
तानका गौतमाद्यास्तु तूष्णीं गातुं च वायुतः । गायके मधुरं गीतं हनूमति कपीश्वरे
म्लानमम्लानमभवत्कृशाः पुष्टास्तदाऽभवन् । स्वां स्वां गीतिमतः सर्वे तिरस्कृत्यैव मूर्च्छिताः
तूष्णीं सर्वे समभवन्देवर्षिगणदानवाः । एकः स हनुमान्गाता श्रोतारः सर्व एव ते
मध्याह्नकालवितते भोजनावसरे सति । दुकूलयुगमाधत्त शृण्वन्गीतिं महेश्वरः
पीतवस्त्रद्वयं विष्णुरारक्तं चतुराननः । स्वस्वार्हाण्यथ सर्वेऽपि कृत्यं कृत्वापि कालिकम्
स्वं स्वं वाहनमारुह्य निर्गताः सर्वदेवताः । गानप्रियो महेशस्तु जगाद प्लवगेश्वरम्
प्लवगत्वं मयाज्ञप्तो निःशंकं वृषमारुह । मम चाभिमुखो भूत्वा गायस्वाशेषगायनम्