तस्यापि हतमाज्ञाय प्रह्लादा द्दानवेश्वराः । सर्वे मृताः क्षणेनैव तदद्भुतमिवाभवत्
मृतमासीदथ बलं तस्य बाणस्य धीमतः । अहल्या शोकसंतप्ता रुरोदोच्चैः पुनः पुनः
गौतमेन महेशस्य पूजया पूजितो विभुः । वीरभद्रो महायोगी सर्वं दृष्ट्वा चुकोप ह
अहो कष्टमहोकष्टं माहेशा बहवो मृताः । शिवं विज्ञापयिष्यामि तेनोक्तं करवाण्यहम्
इति निश्चित्य गतवान्मंदराचलमव्ययम् । नमस्कृत्वा विरूपाक्षमिदं सर्वमथोक्तवान्
ब्रह्म हरी स्थितौ तत्र दृष्ट्वा प्राह शिवो वचः । मद्भक्तैः साहसं कर्म कृतं दृष्ट्वा वरप्रदः
गत्वा पश्यामहे विष्णो युवामप्यागमिष्यथ । अथेशो वृषमारुह्य वायुना धूतचामरः
नंदिकेन सुवेषेण धृते छत्रेति शोभने । सुश्वेतहेमदंडे च नान्ययोगे धृते विभोः
महेशानुमतिं लब्ध्वा हरिर्नागांतके स्थितः । आरक्तनीलछत्राभ्यां शुशुभे लक्ष्यकौस्तुभः
शिवानुमत्या ब्रह्मापि हंसारूढोऽभवत्तदा । इंद्रगोपप्रभाकारच्छत्राभ्यां शुशुभे विधिः
इंद्रादिसर्वदेवाश्च स्वस्ववाहनसंयुताः । अथ ते निर्ययुः सर्वे नानावाद्यानुमोदिताः
कोटिकोटिगणाकीर्णा गौतमस्याश्रमं गताः । ब्रह्मविष्णुमहेशाना दृष्ट्वा तत्परमाद्भुतम्
स्वभक्तं जीवयामास वामकोणनिरीक्षणात् । शंकरो गौतमं प्राह तुष्टोऽहं ते वरं वृणु
गौतम उवाच- यदि प्रसन्नो देवेश यदि देयो वरो मम । त्वल्लिंगार्चनसामर्थ्यं नित्यमस्तु महेश्वर
वृतमेतन्मया देव शृणुष्वैतत्त्रिलोचन । मम शिष्यो महाभागो हेयाहेयादिवर्जितः
प्रेक्षणीयं ममत्वेन न च पश्यति चक्षुषा । न च घ्राणेन घ्रातव्यं न दातव्यं न चेतरत्
इति बुद्घ्वा तथा कुर्वन्स हि योगी महायशाः । उन्मत्तविकृताकारः शंकरात्मेति कीर्तितः
न कश्चित्तं प्रतिद्विष्यान्न च तं हिंसयेदिति । एतन्मे दीयतां देव एतेषाममृतिस्तथा
श्रीभगवानुवाच-। आकल्पमेते जीवंतु ततो मुक्तिं भजंतु च । त्वया कृतमिदं वेश्म विस्तृतं विकृतं शुभम्
तिष्ठामः क्षणमात्रं तु ततो यास्याम मंदिरम् । गौतम उवाच- अयोग्यं प्रार्थयामीश ह्यर्थी दोषं न पश्यति
ब्रह्माद्यलभ्यं देवेश दीयतां यदि रोचते । अथेशो विष्णुमालोक्य गृहीत्वा तु करं हरेः
प्रहसन्नंबुजाभाक्षमित्युवाच सदाशिवः । म्लानोदरोसि गोविंद देयं ते भोजनं किमु
स्वयं प्रविश्य यदि वा स्वयं भुंक्ष्व स्वगेहवत् । गच्छ वा पार्वतीगेहं या कुक्षिं पूरयिष्यति
इत्युक्त्वा तत्करालंबी एकांतमगमद्विभुः । आदिश्य नंदिनं देवो द्वाराध्यक्षं यथोक्तवत्
गौतमं समुवाचायमुत्तरं विष्णुभाषणम् । सदाशिव उवाच- संपादयान्नं सर्वेषां भोक्तुकामा वयं मुने
इत्युक्त्वैकांतमगमद्वासुदेवेन शंकरः । मृदुशय्यां समारुह्य शयितौ देवतोत्तमौ
अन्योन्यं भाषणं कृत्त्वा प्रोत्तस्थतुरुभावपि । गत्वा तटाकं गंभीरं स्नास्यंतौ देवसत्तमौ
करांबुपानमन्योन्यं पृथक्कृत्वोभयत्र च । मुनयो राक्षसाश्चैव जलक्रीडां प्रचक्रिरे
अथ विष्णुर्महेशश्च जलपातानि शीघ्रतः । चक्रतुः शंकरः पद्मकिंजल्कांजलिना हरेः
अवाकिरन्मुखे तस्य पद्मोत्फुल्लविलोचने । नेत्रे केशरसंपातान्न्यमीलयत केशवः