इत्थं कृत्वा भूतशुद्धिं क्रियार्हो मर्त्यः शुद्धो जायते एव शुद्धः । पूजां कर्तुं जाप्यकर्म्मापि पश्चाद्देवध्याने ब्रह्महत्यादि हानिः
एवं ध्यात्वा चंद्रदीप्तिप्रकाशं ध्यानेनारोप्याशु लिंगे शिवस्य । सदाशिवं दीपमध्ये विचिंत्य पंचाक्षरेणार्चनमव्ययं तु
आवाहनादीनुपचारांस्तथापि कृत्वा स्नानं पूर्ववच्छंकरस्य । उदुंबरं राजतं स्वर्णपीठं वस्त्रादिछन्नं सर्वमेवेह पीठम्
अंते कृत्वा बुद्बुदानां च वृष्टिं पीठे पीठे नागमेकं पुरस्तात् । कुर्यात्पीठे चोर्ध्वके नागयुग्मं देवाभ्याशे दक्षिणे वामतश्च
जपापुष्पं नागमध्ये निधाय मध्ये वस्त्रं द्वादश प्रातिगुण्ये । सुश्वेतेन तस्य मध्ये महेशं लिंगाकारं पीठयुक्तं प्रपूज्यम्
एवं कृत्वा बाणमुख्या दितीशा दत्त्वा दत्त्वा पंचगंधाष्टगंधम् । पुष्पैः पत्रैः श्री तिलैरक्षतैश्च तिलोन्मिश्रैः केवलैश्च प्रपूज्य
धूपं दत्त्वा विधिवत्संप्रयुक्तं दीपं दत्त्वा चोक्तमेवोपहारम् । पूजाशेषं ते समाप्याथ सर्वे गीतं नृत्यं तत्रतत्रापि चक्रुः
अथास्मिन्नंतरे गौतमस्यप्राप्तः शिष्यः शंकरात्मेति नाम्ना
उन्मत्तवेशो दिग्वासा अनेकावृतिमाश्रितः । क्वचिद्द्विजातिप्रवरः क्वचिच्चंडालसन्निभः
क्वचिच्छूद्र समो योगी तापसः क्वचिदप्युत । गर्जत्युत्पतते चैव नृत्यति स्तौति गायति
रोदिति शृणुते व्यक्तं पतत्युत्तिष्ठति क्वचित् । शिवज्ञानैकसंपन्नः परमानंदनिर्भरः
संप्राप्तो भोज्यवेलायां गौतमस्यांतिकं ययौ । बुभुजे गुरुणा साकं क्वचिदुच्छिष्टमेव च
क्वचिल्लेहति तत्पात्रं तूष्णीमेवाभ्यगात्क्वचित् । हस्तं गृहीत्वैव गुरोः स्वयमेवाभुनक्क्वचित्
क्वचिद्गृहांतरे मूत्रं क्वचित्कर्दमलेपनम् । सर्वदा तं गुरुर्दृष्ट्वा करमालंब्य मंदिरम्
प्रवेश्य स्वीयपीठे तमुपवेश्याभ्यभोजयत् । स्वयं तदस्य पात्रेण बुभुजे गौतमो मुनिः
तस्य चित्तं परिज्ञातुं कदाचिदथ सुंदरी । अहल्या शिष्यमाहूय भुंक्ष्वेत्युक्त्वाथ सा शुभा
सौवर्णे भाजने चान्नं निधाय चषकांतरे । पानादिकमथो दत्वा एकस्मिन्पावकं पुनः
निधायांगारनिचयं कंटकानां चयं परे । निधाय भुंक्ष्व भुंक्ष्वेति स चापि बुभुजे मुनिः
यथा पपौ हि पानीयं तथा वह्निमपि द्विजः । कंटकानपि भुक्त्वा स यथापूर्वमतिष्ठत
पुरा हि मुनिकन्याभिराहूतो भोजनाय च । दिनेदिने तत्प्रदत्तं लोष्ठमंबु च गोमयम्
कर्दमं काष्ठदंडं च भुक्त्वा प्रीत्याथ हर्षितः । एतादृशो मुनिरसौ चंडालसदृशाकृतिः
सुजीर्णोपानहौ हस्ते गृहीत्वा तु तथा करे । अंत्यजोचितभाषाभिर्वृषपर्वाणमभ्यगात्
वृषपर्वेशयोर्मध्ये दिग्वासाः समतिष्ठत । वृषपर्वा तमज्ञात्वा पीडयित्वा शिरोऽच्छिनत्
हते तस्मिन्द्विजश्रेष्ठे जगदेतच्चराचरम् । अतीव कलुषमभवत्तत्रस्था मुनयस्तथा
गौतमस्य महाशोकः संजातः सुमहात्मनः । निर्ययौ चक्षुषोर्वारि शोकं संदर्शयन्निव
गौतमः सर्वदैत्यानां संनिधौ वाक्यमुक्तवान् । किमनेन कृतं पापं येन च्छिन्नमिदं शिरः
मम प्राणाधिकस्येह सर्वदा शिवयोगिनः । ममापि मरणं सत्यं शिष्यरूपी यतो गुरुः
शैवानां धर्मयुक्तानां सर्वदा शिववर्तिनाम् । मरणं यत्र दृष्टं स्यात्तत्र नो मरणं ध्रुवम्
शुक्र उवाच- एनं संजीवयिष्यामि मम गोत्रं शिवप्रियम् । किमसौ म्रियते ब्रह्मन्पश्य मे तपसो बलम्
इति वादिनि विप्रेंद्रे गौतमोऽपि ममार ह । तस्मिन्मृतेऽथ शुक्रोऽपि प्राणांस्तत्याज योगतः