पूगखंडानथो घृष्टान्पत्राणि क्षालितानि च । अपृष्ठाग्राणि सुश्वेतच्छदयावृतिकानि च
घनसारकचूर्णं च न्यस्तपत्रत्रयं शुभम् । सौवर्णपात्रविन्यस्तमिदं तांबूलमीश्वरे
अथ प्रदक्षिणं कृत्वा नमस्काराननंतरम् । अष्टयोषास्ततः प्राप्तास्तंत्रीवेण्वादिधारिकाः
विचित्रवाद्यवादिन्यः संप्राप्ता मुनिसन्निधिम् । क्षुद्रतालयुगं गृह्य स्वयं गातुं प्रचक्रमे
गौतमे गातुमुद्युक्ते तानं कुर्युरथांगनाः । मंदं मंदं च वाद्यानि वादयंति तथापराः
मधुरं गायति मुनौ स्वरामूर्तिभृतस्तथा । प्रानृत्यंत महेशाग्रे तदद्भुतमिवाभवत्
एतस्मिन्नंतरे प्राप्तो भगवान्नारदो मुनिः । तमागतं गौतमोपि संपूज्य प्रणिपत्य च
आहचैनंकृतार्थोस्मिनचकश्चिन्मयासमः । तवागमनकृत्यं किं कुत आगमनं तथा
श्रीनारद उवाच- पातालादागतोस्मीह भुक्त्वा वै बाणमंदिरे । आयास्यंति महात्मानो बाणशुक्रादयो गृहम्
अथ क्षणादभ्यगाच्च बाणः परपुरंजयः । विंशत्यक्षौहिणीयुक्तो गजमारुह्य सोसुरः
अपरं हि गजं शुक्रः प्रह्लादो रथमुत्तमम् । वृषपर्वा रथवरं बलिस्तुरगमुत्तमम्
आगतानथ तान्सर्वानाज्ञाय स तु गौतमः । सशिष्यो निर्जगामाथ ह्यादायार्घ्यादिकं त्वरा
गौतमं चापि ते वीक्ष्यावरुह्य च गजादिकात् । नमश्चक्रुरथो दैत्यास्तं नमस्कृत्य भार्गवम्
आलिंग्य राक्षसान्सर्वान्पूजयित्वा यथाविधि । सेनायाः सन्निवेशं च चकार मुनिपुंगवः
पादौ प्रक्षाल्य शुक्रस्य जलं मूर्ध्नि धृतं तथा । विचित्रफलसंयुक्तं दत्तवानर्हणं मुनिः
वापीतडागसरसी स्नानपूर्वकृत क्रियाः । संगमे वर्तमाने तु गौतमस्याश्रमे शुभे
तद्गेहं तु प्रविश्याथ राक्षसास्सपुरोहिताः । देवपूजाप्रपत्तिं च चक्रुः सर्वे द्विजालये
सद्यः प्रकल्पितायां च वेद्यां शुक्रोऽयजच्छिवम् । तस्यैव वामभागे तु प्रह्लादोयजदच्युतम्
सोमं च बलिरप्येवमन्ये चासुरपुंगवाः । अथ बाणोऽयजद्देवमेकमेव त्रियंबकम्
शुक्रोपि भगवन्तन्तमुमानाथमपूजयत् । गौतमोप्यथ मध्याह्ने पूजयामास शंकरम्
सर्वे शुक्लांबरधरा भस्मोद्धूलितविग्रहाः । सितेन भस्मना कृत्वा सर्वस्थाने त्रिपुंड्रकम्
नत्वा तु भार्गवं सर्वे भूतशुद्धिं प्रचक्रमुः । हृत्पद्ममध्ये सुषिरं तत्रैव भूतपंचकम्
तेषां मध्ये महाकाशमाकाशे निर्मलानलम् । तन्मध्ये च महेशानं ध्यायेद्दीप्तिमयं शुभम्
अज्ञानसंयुतं भूतं शमलं सर्वसंगतम् । तद्देहमाकाशदीपे प्रदहेज्ज्ञानवह्निना
आकाशस्यावृतं चाहं दग्ध्वाऽऽकाशमथो दहेत् । दग्ध्वाकाशमयो वायुमग्निभूतं तदा दहेत्
अब्भूतं च ततो दग्ध्वा पृथिवीभूतमेव च । तदाश्रितान्गुणान्दग्ध्वा ततो देहं प्रदाहयेत्
एवं दहित्वा भूतानि देही तज्ज्ञानवह्निना । शिखामध्यस्थितं विष्णुमानंदरसनिर्भरम्
निष्पन्नचंद्रकिरणसंकाशकिरणं शिवम् । शिवांगोत्पन्नकिरणैरमृतद्रवसंयुतैः
सुशीतला ततो ज्वाला प्रशांता चन्द्ररश्मिवत् । प्रसारितसुधारुग्भिः सांद्रीभूतश्च संप्लवः
क्रमेण प्लावितं भूतग्रामं संचिंतयेत्परम्