केषांचिन्मतमेतत्स्यादथ प्रावरणांतरम् । विद्यावरणमाख्यातं तदुमावरणं स्मृतम्
विष्णुरावरणं तस्या विष्णोश्चावरणं विधिः । ब्रह्मप्रावरणंचंद्रस्तस्य भानुरथावृतिः
भानोरावरणं चेश इति षोढावृतिः स्मृता । विधिं विना समाख्यातं पंचावरणमुत्तमम्
शशांकविष्णुशक्तीनामेतदावरणत्रयम् । अंबिकावरणं प्रोक्तमेकावरणमुत्तमम्
अथवा लोकपालाः स्युरावृतिः सोमपूजने । अनावरणमथवा पूजनं शस्यते शिवे
पत्रिकाष्टदलेष्वेव स्थितद्रव्यैर्यजेच्छिवम् । पत्रिकालक्षणं वक्ष्ये सर्वकर्मोपयोगितम्
स्वर्णेन राजतेनाथ ताम्रेणाथ प्रकल्पितम् । मुक्ताशुक्तिनिभं कुर्यात्पत्रिकाष्टदलं शुभम्
पद्मपत्रसमानाष्टकोणाकारं प्रकल्पयेत् । पलमात्रं ततः शस्तं निर्वृतं विस्तृतं पदम्
अस्थूलमध्यमुपरि पद्माकृतिदलाष्टकम् । अथवा शक्तिमार्गेण पंचपत्रं प्रकल्पयेत्
त्रिपत्रमथवा कुर्याच्छक्तिभावे मतेन च । यथा स्याच्छोभनं पात्रं तथा कुर्य्याद्विचक्षणः
शक्त्यांतरितरुद्राक्षैः कल्पिताष्टशतैः शुभा । मालोपवीतं त्रिंशत्या अष्टकेन प्रकल्पितम्
प्रगंडयोरथैकैकं बद्धा तु द्वे प्रकोष्ठयोः । शिरस्येका धृता तेन कंठे च परमर्षिणा
रुद्राक्षैः स्फटिकै रत्नैः कल्पिता ह्यक्षमालिका । व्याघ्रचर्मासनं कृत्वा पद्मासनगतो मुनिः
आवाहनासनं चार्घ्यं पाद्यं वाचमनीयकम् । निर्वर्त्य गंगासलिलैः स्नापयामास शंकरम्
अष्टगंधकसंयुक्तैः पुष्पैर्बकुलपाटलैः । स्वर्णभांडस्थितैर्वस्त्रशोधितैर्वासितैर्दृढम्
द्वारे ताम्रकटाहश्च प्रबंधद्रोणिना शुभम् । गोशृंगेण विषाणेन गवयस्य तथा क्वचित्
दक्षिणावर्तशंखेन रत्नपात्रैरथापि वा । स्वर्णैर्वा राजतैर्वापि ताम्रैः कांस्यैरथापि वा
स्वर्णैश्च सूक्ष्मकलशैः स्नापयामास चेच्छया । अथवा मृण्मयैः कुर्य्यात्पद्मपत्रैरथापि वा
पालाशैश्चूतजंब्वाद्यैः पात्रैः संस्नापयेद्विभुम् । स्नानानामथ सर्वेषां धारास्नानं विशिष्यते
नमस्तेत्यादिमंत्रेण शतरुद्रियसंज्ञिना । शं चेत्याद्यनुवाकेन शांतिरूपेण चेश्वरम्
आवृत्य च यथाशक्ति पश्चाद्गंधादि विन्यसेत् । ततश्च शोभनैः पुष्पैः पत्रैर्बिल्वैः समर्चयेत्
तुलसीमारुवदलैः कल्हारैश्च महोत्पलैः । नीलोत्पलैरुत्पलैश्च शेषैश्च करवीरकैः
कर्णिकारैः सितांभोजैरपराजितया तथा । तिलाक्षतैरक्षतैश्च श्रीपत्रैस्तिलमिश्रकैः
एवं महेशमीशानं पूजयामास गौतमः । कर्पूरागरुकस्तूरी सर्ज्जागरुकचंदनैः
अन्यैश्च धूपयामास षोडशाथ प्रदीपिकाः । कर्पूरवर्त्तिसंयुक्ता दीपयंत्रोपरिस्थिताः
निवेदितं महेशाय अथ नैवेद्यमुत्तमम् । सुपक्वशालिपिष्टान्नं भक्ष्यं लेह्यं च चोष्यकम्
मधुरादिसमोपेतं पंचभक्ष्यसमन्वितम् । अनेकपक्वशाकाढ्यमनेक पक्वमिश्रितम्
पानं विंशतिसंयुक्तं द्राक्षारंभाफलान्वितम् । सूपाष्टकादिसंयुक्तं युक्तं मूलफलादिना
यथासंभवसंयुक्तैरन्यैरप्युपकल्पितम् । अग्रपुष्पसमोपेतं नैवेद्यं प्रददौ मुनिः
सौवर्णपात्रिका न्यस्तनीराजनसहस्रकम् । सोपहाराय देवाय दत्वा चैव नमस्य च