गायंति मधुरां गीतिं सुभ्रूभंगनिरीक्षणैः । मंदस्मितैः करतलशब्दास्फोटिकया तथा
क्वचिद्गलकृतैर्गीतैरन्योन्य करताडनैः । अन्योन्य मुखमालोक्य प्रलोभैर्गीतपूर्वकैः
क्रीडन्नास्ते महायोगी पद्मकिंजल्कसन्निभः । एवं चरितपुण्येन केन वा तद्वदस्व मे
शंभुरुवाच- एष विप्रः पुरा राम सर्वसंपत्समन्वितः । नानाविधसुखोपेतो भार्य्यापोषणतत्परः
अपुत्रो दानहीनश्च देवतार्चनवर्जितः । पंचयज्ञविहीनश्च स्वाध्यायपरिवर्जितः
प्रातर्म्मध्याह्नसायाह्नभोजनप्रवणोऽशुचिः । कदाचिदगमद्गेहं गौतमस्य महात्मनः
त्र्यंबकस्य गिरौ पुण्ये नानामुनिगणाश्रिते । तत्रापि शोभितगृहं स्फटिकस्तंभकल्पितम्
अगुरुद्रवकस्तूरीचंद्र कुंकुमचर्चिता । भित्तिर्यस्य च संतानकुसुमामोदसौष्ठवम्
कस्तूरिका पुष्परस समुत्सेचितभूतलम् । सूक्ष्म सुश्वेतविविधवितानपरिशोभितम्
अंगणं शोभित महाकदलीपूगशोभितम् । समीपसरसीजात मंजुकूजन्मधुव्रतम्
पाटीरतरुसंभूत गंधपूरितदिङ्मुखम् । शिक्षागीतकृताल्हाद गीतपूरितदिङ्मुखम्
निदाघजनिताताप नाशयंत्रविनिर्मितम् । कदलीदलसंच्छादि पावकाकल्पितच्छदम्
पाटीरतरुसुस्निग्ध सांद्र द्वारकपाटकम् । सौगंधिकमहामोदि कल्पितांतर भित्तिकम्
ईशानभागसुभग रतिकल्पित वेदिकम् । हाटिकाकल्पितपदं विचित्रवेदिकायुतम्
सुस्निग्धनि बिडच्छायं वटमूलोपकल्पितम् । प्रसूनकदलीखंड सरोभिः प्रांतशोभितम्
महावटाग्रसंलग्न तुषारितपयोधरम् । नाकोपवनसंपन्न विचित्राराम शोभितम्
वापीकूपतडागाद्यमनेकवनशोभितम् । मंदं मंदं ववौ वायुर्यत्र गेहे सुखप्रदः
वादिन्यश्चारुसर्वांग्यो वाद्यानि स्मरसंपदः । वीणां वेणुं त्रिवेणुं च वादयंति वरांगनाः
तौर्य्यत्रिककृतो नार्य्यश्चतुर्दिक्षु तथोर्द्ध्वतः । सुवर्णादिकपात्रेषु वटका भस्मनः शुभाः
वासिताः सर्वगंधैश्च सुधूपैरपि धूपिताः । कुशग्रथितसंघाश्च अक्षमालाश्च कोटिशः
कृष्णाजिनसहस्राणि बहिः प्रांते स्थितानि च । एतादृशे गृहवरे देववंद्यो मुनीश्वरः
कर्पूरादींश्च संस्थाप्य चतुर्दिक्षु मुनीश्वरः । पाटीरपीठे कर्पूरसिंहासनमकल्पयत्
सूक्ष्मं श्वेतं च सुस्रिग्धमावृत्तं घनसारकैः । सुगंधवासितजलैः स्नाप्य क्षीरेण शंकरम्
अन्यैश्च वैदिकैर्मंत्रैः स्नापयित्वा सदाशिवम् । दारुचंद्रोपपीठे तु वस्त्रपीठं निधाय च । पात्रिकामग्रतः स्थाप्य स्थापयित्वा दलेष्वमून्
एकस्मिन्नक्षताः पात्रे अन्यस्मिन्सतिलाक्षताः । पंचगंधकमेकस्मिन्नन्यस्मिन्नष्टगंधकम्
काश्मीरं मृगनाभिं तु कर्पूरं चंदनं तथा । पात्रेष्वन्येषु विन्यस्य पूजास्थाने प्रकल्प्य च
नानावरणमार्गेण पूजा तत्र विधीयते । लिंगमध्ये स्थितो देवः पंचवक्त्रः सदाशिवः
तस्य प्रावरणं लिंगं शक्तिस्तस्य विधीयते । शक्तेरावरणं विष्णुर्विष्णोरावरणं विधिः
ब्रह्मप्रावरणं चंद्रस्तस्य सूर्यस्ततः श्रुतिः । दिग्देवतासु तद्गुप्तिस्तासामावरणं दिशः
दिशामावरणं शंभुस्तस्य चावरणं गुणाः । दशप्रावरणं ह्येतच्छिवलिंगार्चनं शुभम्