आत्मानं सर्वपात्राणि तत आवाहयेदिति । यद्वागिति तृचेनैव भारती षोडशार्चनम्
पुरुषसूक्तेन वा कुर्याद्गायत्र्या वा समर्चयेत् । ॐ नमो भगवते अमुक पुराणेति पुराणमर्चयेत्
कांडादिति हि मंत्रेण दूर्वामानीय पूजयेत् । ॐ नमो भगवत्यै दूर्वायै इति
सलोकपाल पूजा स्यादथ कन्या समर्चनम् । वत्सरात्पंचकादूर्द्ध्वं दशवर्षादधः शुभाः
अनुत्पन्नऋतुर्वापि तां प्रयत्नेन पूजयेत् । गंधपुष्पाक्षतैर्धूपैर्दीपतांबूलभूषणैः
पाठयेदप्यमुं मंत्रं पूजकः कन्यकामिमाम्
सत्यं ब्रूहि प्रियं ब्रूहि भगवति सरस्वति नमस्ते नमस्त इति
गायत्र्यानुक्रमार्थात्तु दूर्वायुग्मं तु कारयेत् । सन्निधौ पुस्तकस्याधः सहस्रपरमेत्यृचा
दूर्वायुग्मत्रयं दद्यात्तस्या हस्ते विचक्षणः । सा प्रक्षिपेत्पुस्तसंधौ शलाकात्रयमन्वनु
विसृज्यतां पुनर्दद्याच्छिवाभ्यां नम इत्यथ । पत्रयोर्मध्यमः श्लोकः कार्यसिद्धेर्हि सूचकः
पूर्वपत्रे समाप्तिः स्याच्छ्लोकस्य यदि राघव । परपत्रे पठेच्छ्लोकं विविच्यार्थमुदीरयेत्
शनैःशनैः पठेत्प्राज्ञो व्याख्यासेच्च शनैःशनैः । त्वरेह न हि कर्तव्या कुप्यति त्वरया तु गीः
घटिकायास्तु पादः स्यादत्वरास्यात्ततोधिका । त्वरयेन्न च वक्तारं ज्ञातव्यांशमनुद्विजम्
विविच्य पाठं श्लोकस्य निश्चित्यार्थं च मानसे । प्रतीपं तन्न वक्तव्यं विविच्य रघुनंदन
यदि युक्तमयुक्तं वा श्लोकमन्यं पठेदसौ । पुस्तकस्थं च हित्वैव पूजकः स द्विजो यदि
तत्तथैव हि विज्ञेयं विसंवादो न शस्यते । दैवागतो हि स श्लोको दैवं हि बलवत्तरम्
उपश्रुतिषु यद्वच्च नापराधो द्विजस्य तु । विस्मयो न च कर्तव्यो दैवस्य कुटिला गतिः
यत्तत्पदविपर्यासे पत्रे चोपरिवारिणि । तमादेशं तिरस्कृत्य द्वितीयं तु पठेदतः
ततस्तृतीयं पाठ्यं स्यात्ततः कार्यं विवेचनम् । अविसर्गांतपूर्वास्ते पवर्गेतरपंचमाः
स्तुतिलिड्वर्जितः श्लोकः शकुनेषु प्रशस्यते । अध्यायादिः समाप्तिश्च वृथा पत्रं वृथा लिपिः
उक्तानुवचनं चैव द्व्युपस्तुतमथैव च । दग्धपत्रं नष्टलिपिः संदिग्धाक्षरमेव च
एतानि शकुने नित्यं वर्जनीयानि पंडितैः । प्रश्नो हि द्विविधो ज्ञेयो दीप्तशांत प्रभेदतः
शांतं च द्विविधं ज्ञेयमुत्पत्तिस्थितिवृद्धितः । तत्र शांतं प्रशस्तं स्याल्लक्षितं पूर्वलक्षणैः
कार्यभेदास्तु वर्ण्यंते केचिन्मर्त्योपयोगिनः । कस्यचित्कार्यमादाय कश्चित्प्रष्टा भवत्यपि
स करोति तदा प्रश्नं समेत्य स्मरतेऽत्र किम् । स पुनर्धार्य पत्रं तत्तस्मिन्पत्रं प्रशस्यते
अथवा तत्क्षमोपेतं वैराग्यं परमेव च । यतः कुतश्चिद्दृष्टस्तु स्तुतिपादकमेव च
परिहृत्य परं चापि तस्मिन्नर्थे शुभावहम् । मृतो गृह्णाति वागर्थमिति प्रश्नोऽशुभप्रदः
विवादे विजयप्रश्ने जयद्योतकमिष्यते । सृष्टिरप्यत्र शस्ता स्यात्क्रूरायां क्लेशतो जयः
प्रशांतायामुपायैस्तु मिश्रायां विड्वरो भवेत् । पुरादिवर्णनं यत्तु मध्यमं यदि चोत्तमम्
कलिसंभावनायास्तु शृंगारस्योपवर्णने । राज्यनिर्वाहचिंतायां राज्यलिंगंशुभावहम्