देवेषु च समस्तेषु समदृष्टिः शिवे रतः । शतरुद्रियजापी च साग्निकश्चातिवाचकः
यजुर्वेदी विशेषेण पूजयेत्पुस्तकं सुधीः । श्रीतालपत्रलिखितं देवलिप्यन्वितं शुभम्
बंधाद्यतिप्रपंचं यद्युगपत्प्रणवाक्षरम् । प्रागूर्द्ध्वंरेखयोः प्रांते प्रणवस्याग्रयोजिका
रेखा भवेदेवमेका अकारस्तस्य पार्श्वतः । शिरोभागमुपक्रम्य सकोणाधः प्रलंबिनी
आकारः स हि विज्ञेयः पट्टिकादक्षरेखया । वामे षड्वक्रबिंदूद्वा विकार इति कीर्तितः
तस्य वामशिरोरेखा लंबिन्या ई उदाहृतः । सर्वाक्षरे शिरोरेखा अवक्रा प्रणवं विना
तस्यां तु लंबरेखान्या तदंते च लवित्रवत् । उकारः स हि विख्यातो लवित्रद्वयतस्तदू
एवमन्यानि सर्वाणि अक्षराण्याह भारती । लिप्यानयैव लिखितं पुराणं तु प्रशस्यस्ते
ब्राह्मं पाद्मं वैष्णवं च मार्तंडं नारदेरितम् । मार्कंडेयमथाग्नेयं कौर्मं वामनमेव च
गारुडं लैंगमाख्यातं स्कांदं मात्स्यं नृसिंहकम् । तथैव गदितं राम पुराणं कापिलं तथा
वाराहं ब्रह्मवैवर्तं शकुनेषु प्रशस्यते । शैवं भागवतं दौर्गं भविष्योत्तरमेव च
भविष्यं चोपसंज्ञानि त्वन्यानि च विवर्जयेत् । विमुच्य पुस्तकं रत्नपीठे निक्षिप्य संस्कृतम्
धौतवस्त्रधरः स्नात्वा शुचिरक्रोधनोऽज्वरः । आदावात्मानमभ्यर्च्य कृत्वा संकल्पमेव च
अंकुशं चाक्षसूत्रं च पाशं पुस्तकमेव च । धारयंतीं सितां ध्यायेत्प्रसन्नास्यां सरस्वतीम्
गोक्षीरसदृशाकारं त्रिनेत्रं वृषवाहनम् । सहासवदनं शांतं शुक्लांबरधरं शिवम्
हरिणं चाभयं चोर्द्ध्वबाहुयुग्मं किरीटिनम् । व्याख्यामुद्रा चं दक्षेधो वामहस्ते वरप्रदम्
नानारत्नविभूषाढ्यं गिरिजार्द्धांबुजासनम् । बहुभिर्मुनिमुख्यैस्तु ध्यायमान पदांबुजम्
मूर्तिमद्भिस्तथा वेदैः स्तूयमानं पुराणकैः । अन्यैः समस्तलोकैश्च संसेवितपदांबुजम्
ध्यात्वैवं पूजकः सम्यगादौ पूजां समारभेत् । आपो वा इदमित्येतत्कलशस्याभिमंत्रणम्
तज्जलं च गृहीत्वा च पात्रस्थमभिमंत्रयेत् । तत्सद्ब्रह्मेति मंत्रेण प्रशस्य प्रणवेन तु
आत्मानं सर्वपात्राणि तत आवाहयेदिति । यद्वागिति तृचेनैव भारती षोडशार्चनम्
पुरुषसूक्तेन वा कुर्याद्गायत्र्या वा समर्चयेत् । ॐ नमो भगवते अमुक पुराणेति पुराणमर्चयेत्
कांडादिति हि मंत्रेण दूर्वामानीय पूजयेत् । ॐ नमो भगवत्यै दूर्वायै इति
सलोकपाल पूजा स्यादथ कन्या समर्चनम् । वत्सरात्पंचकादूर्द्ध्वं दशवर्षादधः शुभाः
अनुत्पन्नऋतुर्वापि तां प्रयत्नेन पूजयेत् । गंधपुष्पाक्षतैर्धूपैर्दीपतांबूलभूषणैः
पाठयेदप्यमुं मंत्रं पूजकः कन्यकामिमाम्
सत्यं ब्रूहि प्रियं ब्रूहि भगवति सरस्वति नमस्ते नमस्त इति
गायत्र्यानुक्रमार्थात्तु दूर्वायुग्मं तु कारयेत् । सन्निधौ पुस्तकस्याधः सहस्रपरमेत्यृचा
दूर्वायुग्मत्रयं दद्यात्तस्या हस्ते विचक्षणः । सा प्रक्षिपेत्पुस्तसंधौ शलाकात्रयमन्वनु
विसृज्यतां पुनर्दद्याच्छिवाभ्यां नम इत्यथ । पत्रयोर्मध्यमः श्लोकः कार्यसिद्धेर्हि सूचकः