अद्याभ्यासस्य विद्यानां फलकालोऽयमागतः । अद्य मे पितरस्तुष्टा राज्यं च सफलं मम
अद्य मे सफलं वृत्तमद्य मे सफलं श्रुतम् । एवं वदंतं राजानं ब्राह्मणाः कश्यपादयः
ऊचुः प्रियतरं वाक्यं रामं राजीवलोचनम् । ऋषय ऊचुः अयं शंभुर्द्विजः प्राप्तः सर्वशास्त्रविशारदः
वेदवेदांगतत्त्वज्ञः सर्वभूतहिते रतः । कैलासवासी सततं तपसे कृतनिश्चयः
ब्रह्मणा ब्रह्मवर्चस्के तुल्यो ब्रह्मविदां वरः । हरिणा ब्रह्मवात्सल्ये प्रसादे शंकरोपमः
एवंविधो महातेजाः शंभुर्ब्राह्मणपुंगवः । अष्टादशपुराणज्ञो मीमांसा न्यायकोविदः
त्वद्भाग्यगौरवादेव प्राप्तोऽयं मुनिसत्तमः । त्वयाहूतो मुनिवरः कैलासादागतः प्रभो
अतः पृच्छ महाभाग पुराणाख्यानमुत्तमम् । श्रोतुकामा वयं प्राप्तास्त्वामद्य रघुनंदन
अंतं गतस्य वेदानां सर्वशास्त्रार्थवेदिनः । पुंसोऽश्रुतपुराणस्य न सम्यग्याति दर्शनम्
सूत उवाच- एवमुक्तो रघुश्रेष्ठो मुनिभिस्तत्त्वदर्शिभिः । प्रहर्षमतुलं लेभे पुराणश्रवणोत्सुकः
श्रीराम उवाच- लिगार्चनप्रकारं च लिंगमाहात्म्यमेव च । महेशनाममाहात्म्यं पूजामाहात्म्यमेव च
नमस्कारस्य माहात्म्यं दृष्टिमाहात्म्यमेव च । जलदानस्य माहात्म्यं धूपदानस्य सत्तम
दीपगंधादिदानस्य पुष्पमाहात्म्यमेव च । नानाख्यानेतिहासानां कथां पापप्रणाशिनीम्
धर्मार्थकाममोक्षांश्च तदुपायांश्च सुव्रत । तत्सर्वं श्रोतुमिच्छामि त्वत्तो मुनिवरोत्तम
शंभुरुवाच- रामराम महाबाहो पुण्यवानसि राघव । राज्यासक्तस्य ते जाता पुराणश्रवणे रतिः
स्यान्महत्सेवया राम पुण्यतीर्थनिषेवणात् । सा जिह्वा या शिवं गायेत्तच्चित्तं यत्तदर्प्पितम्
तावेव केवलौ श्लाघ्यौ यौ तत्पूजाकरौ करौ । सुजन्मदेहमत्यर्थं तदेवाशेषजन्मसु
यदेवोत्पुलकोभासि हर नामानुकीर्तनात् । कृतार्थोऽसि महाराज तत्प्रश्नानुगता मतिः
अनंतरं समाजग्मुर्जांघिकाः सत्वरश्रमाः । तत्करात्पत्रिकां गृह्य पपाठ रघुसत्तमः
मनसाऽचिंतयद्रामः कथमेतदभूदिति । रामं शंभुस्तदा प्राह देव्या ब्राह्मणवेषवान्
किं चिंतयसि काकुत्स्थ मुनिष्वग्रे वसत्स्वपि । तद्वाक्यं राघवः श्रुत्वा पप्रच्छ मुनिपुंगवान्
श्रीरामउवाच- विभीषणः कथमसौ बद्धः शृंखलया नृभिः । मत्स्थापितं शिवं लिगं दृष्ट्वा रामेश्वरं त्वहो
द्राविडैः कुटिलैर्दुष्टैरात्मना तद्विचार्यताम् । विचार्य मुनिवर्यास्ते नेशास्तज्ज्ञातुमल्पतः
न जानीम इति प्राहू रामं रामस्तदाब्रवीत् । पुराणं वीक्ष्य विधिना तत्सर्वं ब्रूत सत्तमाः
भवदज्ञानहेतुश्च विचार्यस्तदनंतरम् । किं किं पुराणं प्रेक्ष्यं स्याद्वर्जनीयं तथैव किम्
प्रशस्तः कीदृशः श्लोकस्तदन्यः कीदृशो भवेत् । कीदृशेषु च कार्येषु कीदृशः पूजकस्तथा
पूजा च कीदृशैर्भक्तैः कार्या निर्णयदर्शने । इति रामस्य वचनं श्रुत्वा ते द्विजसत्तमाः
प्रत्यूचुस्तं रघुश्रेष्ठं चिंताव्याकुलमानसम् । न वक्तारो वरं राम वीक्षतां तु पुराणवित्
तच्छ्रुत्वा राघवः शंभुं पप्रच्छ विनयान्वितः । सोपि तद्वाक्यमाकर्ण्य प्रत्युवाच महामतिः
शंभुरुवाच- पुराणजीवी पूजार्हः स्वशाखाध्ययनः शुचिः । मीमांसातत्त्वविज्ञानः श्रोत्रियोऽनृतदूषकः