तेनावगाहिता दृष्टाः प्रणता बहुसेविताः । स्नानमर्द्धोदिते सूर्ये वैशाखे नियतश्चरेत्
तस्य पुण्यं महीदेव कश्चिद्वक्तुं न शक्यते । यदि वक्त्रसहस्राणां सहस्राणि भवंति हि
आयुश्च ब्रह्मणा स्वल्पं यदि स्याद्द्विजसत्तम । तदा माधवमासस्य फलं कथयितुं भवेत्
महानिरयकर्षाग्नि माधवो माधवो यथा । ब्रह्महत्यादिकं पापमगम्यागमनादिकम्
कामाकामकृतं पापमेति पातकमेव च । उपपापरहस्यं च संकरीकरणं परम्
जातिभ्रंशकरं घोरमपात्रीकरणं तथा । मलावहं प्रकीर्णं च वाङ्मनः काय संभवम्
माधवो निर्दहेन्मासो विधिना समुपासितः । कल्पकोटिसहस्राणि कल्पकोटि शतानि च
वसेद्विष्णुपुरे श्रीमान्माधवे योऽर्चयेद्धरिम्
ऋषय ऊचुः - भूयो वद महाभाग रामचारित्रमद्भुतम् । राममाहात्म्यसर्वस्वं भक्तानां प्रीतिदायकम्
सूत उवाच- अश्वमेधं क्रतुवरं कृत्वा दाशरथिर्यथा
प्रवृत्तो लोककृत्येषु शास्त्रकृत्येषु कोविदः । अयोध्यां गंतुकामेन शंकरेण महात्मना
पार्वत्या सह देवेन उषितः सरयूतटे । मुनयस्तं समभ्येत्य शंकरं विश्वरूपिणम्
कश्यपाद्या महात्मानः पप्रच्छुरमितौजसम् । स्वागतं ते मुनिश्रेष्ठ सभार्यः कुत आगतः
किमागमनकृत्यं ते कं देशं गंतुमुद्यतः । शंकर उवाच- अहं शंभुरिति ख्यातो विप्रो हिमगिरिस्थितः
द्रष्टुं च राघवं गच्छे मम कार्यं महत्ततः । मामाह्वयति राजासौ पुराणश्रवणे रतः
आगच्छंतु भवंतोऽपि राघवः परितुष्यति । ततस्ते मुनयः शंभुर्ययू रामदिदृक्षया
तानागतान्वसिष्ठस्तु ज्ञात्वा रामाय चोक्तवान् । ततः सत्वरमुत्थाय निर्ययौ स पुरोहितः
अर्घ्यपाद्यादिकैस्सर्वान्पूजयामास तानृषीन् । गृहराजं ततः सर्वान्प्रावेशयदरिंदमः
प्रत्येकमासनं दत्वा स्वागतोक्त्यासनस्थितान् । क्रमेण रघुशार्दूलः पूजयामास तानृषीन्
वाचा मधुरया प्रीणन्निदमाहासनस्थितान् । श्रीराम उवाच- अद्य मे सफलं जन्म प्राप्तमद्य तपः फलम्
अद्याभ्यासस्य विद्यानां फलकालोऽयमागतः । अद्य मे पितरस्तुष्टा राज्यं च सफलं मम
अद्य मे सफलं वृत्तमद्य मे सफलं श्रुतम् । एवं वदंतं राजानं ब्राह्मणाः कश्यपादयः
ऊचुः प्रियतरं वाक्यं रामं राजीवलोचनम् । ऋषय ऊचुः अयं शंभुर्द्विजः प्राप्तः सर्वशास्त्रविशारदः
वेदवेदांगतत्त्वज्ञः सर्वभूतहिते रतः । कैलासवासी सततं तपसे कृतनिश्चयः
ब्रह्मणा ब्रह्मवर्चस्के तुल्यो ब्रह्मविदां वरः । हरिणा ब्रह्मवात्सल्ये प्रसादे शंकरोपमः
एवंविधो महातेजाः शंभुर्ब्राह्मणपुंगवः । अष्टादशपुराणज्ञो मीमांसा न्यायकोविदः
त्वद्भाग्यगौरवादेव प्राप्तोऽयं मुनिसत्तमः । त्वयाहूतो मुनिवरः कैलासादागतः प्रभो
अतः पृच्छ महाभाग पुराणाख्यानमुत्तमम् । श्रोतुकामा वयं प्राप्तास्त्वामद्य रघुनंदन
अंतं गतस्य वेदानां सर्वशास्त्रार्थवेदिनः । पुंसोऽश्रुतपुराणस्य न सम्यग्याति दर्शनम्
सूत उवाच- एवमुक्तो रघुश्रेष्ठो मुनिभिस्तत्त्वदर्शिभिः । प्रहर्षमतुलं लेभे पुराणश्रवणोत्सुकः