अनाराध्य हृषीकेशं सर्वदं सर्वदेहिनाम् । कोपि क्वापि किमप्यत्र न लभेतेति निश्चितम्
अपत्यं द्रविणं दारास्तारहर्म्यं हया गजाः । सुखानि स्वर्गमोक्षौ च न दूरे हरिभक्तितः
नारायणः परो देवः सत्यरूपो जनार्दनः । त्रिधात्मानंसभगवान्ससर्जपरमेश्वरः
रजस्तमोभ्यांयुक्तोऽभूद्रजःसत्वाधिकंविभुः । ससर्जनाभिकमलेब्रह्माणंकमलासनम्
रजसा तमसा जुष्टं स रुद्रमसृजद्विभुः । सत्वं रजस्तमश्चैव त्रितयं चैतदुच्यते
सत्वेन मुच्यते जंतुः सत्वं नारायणात्मकम् । रजसा सत्वयुक्तेन भवेच्छ्रीमान्यशोधिकः
यद्वेदवाक्यं धर्मस्य समुद्दिश्योपसेवते । तद्रुद्रमिति विख्यातं विशिष्टं गदितं नृणाम्
तेन राजा भवेल्लोके रजसा तमसा पुनः । यद्धीनं रजसा धर्मं केवलं तामसं च यत्
तच्च दुर्गतिदं नॄणामिहलोके परत्र च । यो विष्णुः स स्वयं ब्रह्मा यो ब्रह्मा स स्वयं हरः
देवास्त्रयोपि यज्ञेऽस्मिन्निज्या देवेषु नित्यशः । यो भेदं कुरुते तेषां त्रयाणां द्विजसत्तमः
स पापकारी पापात्मा अनिष्टां गतिमाप्नुयात् । विष्णुरेव परं ब्रह्म विष्णुरेव जगद्द्विज
तस्यायं माधवो मासः प्रियः सर्वेषु कर्मसु । कीर्त्यते हयमेधादि महाक्रतुफलप्रदः
तीर्थस्नान तपो दान जप यज्ञफलाधिकः
स्नानं विभाते नियमेन नद्यामनारतं मेषगते रवौ ये । कुर्वंति येऽस्मिन्नपि विप्रपूजां मद्दंडभाजो न हि ते भवंति
हत्वा हत्वा किंकरौघं पुरो मे लुप्त्वा लुप्त्वा चित्रगुप्तस्य लेख्यम् । स्नात्वा स्नात्वा माधवे मासि तीर्थे पूर्वान्पूर्वानुद्धरंतीह पापात्
इदं भयच्छेदकरं न तस्मात्प्रकाशनीयं परमं रहस्यम् । निर्वासहेतुर्नरकालयस्य ममाधिकारक्षयकारणं तत्
भागीरथीनर्मदा च यमुना च सरस्वती । विशोका च वितस्ता च विंध्यस्योत्तरतः स्थिताः
गोदावरी भीमरथी तुंगभद्रा च देविका । तापी पयोष्णी विंध्यस्य दक्षिणास्तु प्रकीर्तिताः
द्वादशैता महानद्यो नित्यं तेनावगाहिताः । वैशाखे विधिना स्नानं नद्यां यः प्रातराचरेत्
सर्वाः समुद्रगाः पुण्याः सर्वे पुण्या नगोत्तमाः । सर्वे चायतनाः पुण्याः सर्वे पुण्या वनाश्रयाः
तेनावगाहिता दृष्टाः प्रणता बहुसेविताः । स्नानमर्द्धोदिते सूर्ये वैशाखे नियतश्चरेत्
तस्य पुण्यं महीदेव कश्चिद्वक्तुं न शक्यते । यदि वक्त्रसहस्राणां सहस्राणि भवंति हि
आयुश्च ब्रह्मणा स्वल्पं यदि स्याद्द्विजसत्तम । तदा माधवमासस्य फलं कथयितुं भवेत्
महानिरयकर्षाग्नि माधवो माधवो यथा । ब्रह्महत्यादिकं पापमगम्यागमनादिकम्
कामाकामकृतं पापमेति पातकमेव च । उपपापरहस्यं च संकरीकरणं परम्
जातिभ्रंशकरं घोरमपात्रीकरणं तथा । मलावहं प्रकीर्णं च वाङ्मनः काय संभवम्
माधवो निर्दहेन्मासो विधिना समुपासितः । कल्पकोटिसहस्राणि कल्पकोटि शतानि च
वसेद्विष्णुपुरे श्रीमान्माधवे योऽर्चयेद्धरिम्
ऋषय ऊचुः - भूयो वद महाभाग रामचारित्रमद्भुतम् । राममाहात्म्यसर्वस्वं भक्तानां प्रीतिदायकम्
सूत उवाच- अश्वमेधं क्रतुवरं कृत्वा दाशरथिर्यथा