मनसा सर्वसिद्धिः स्यादन्यथा नाशमाप्नुयात् । नमसा सहितं किंचित्तदहंकार उच्यते
अहंकारेण युक्तस्य सुखं किंचिन्न विद्यते । अहंकारविमूढात्मा अंधे तमसि मज्जति
तस्मान्न मनसा चात्र स्वातंत्र्यं प्रतिषिध्यते । भगवत्परतंत्रोऽसौ तदायत्तश्च जीवति
तस्मात्साधनकर्तृत्वं चेतनस्य न विद्यते । ईश्वरस्यैव संकल्पाद्वर्त्तते स्वचराचरम्
तस्मात्स्वसामर्थ्यविधिं त्यजेत्सर्वमशेषतः । ईश्वरस्य तु सामर्थ्यान्नालभ्यं तस्य विद्यते
तस्मिन्न्यस्तभरः श्रीशे तत्कर्मैव समाचरेत् । परमात्मा हरिस्स्वामी स्वमहं तस्य सर्वदा
इच्छाया विनियोक्तव्यस्तस्यैवात्मेश्वरस्य हि । इत्येवं मनसा त्यक्तमहंता ममतोर्जितम्
देहेष्वहं मतिर्मूलं संसृतौ कर्मबंधने । तस्मान्महदहंकारौ मनसा वर्जयेद्बुधः
अथ नारायणपदं वक्ष्यामि गिरजे शुभे । नारा इत्यात्मनां संघास्तेषां गतिरसौ पुमान्
त एव चायनं तस्य तस्मान्नारायणः स्मृतः । सर्वं हि चिदचिद्वस्तु श्रूयते दृश्यते जगत्
योऽसौ व्याप्यस्थितो नित्यं स वै नारायणः स्मृतः । नाराश्चेति सर्वपुंसां समूहाः परिकीर्तिताः
गतिरालंबनं तेषां तस्मान्नारायणः स्मृतः । नराज्जातानि तत्वानि नाराणीति विदुर्बुधाः
तान्येव चायनं तस्य तेन नारायणस्स्मृतः । कल्पांतेपि जगत्कृत्स्नं ग्रसित्वा येन धार्यते
पुनः संसृज्यते येन स वै नारायणः स्मृतः । चराचरं जगत्कृत्स्नं नार इत्यभि धीयते
तस्य वासं गतिर्येन तेन नारायणः स्मृतः । नारो नराणां संघातस्तस्यासावयनं गतिः
तेनासौ मुनिभिर्नित्यं नारायण इतीरितः । प्रभवन्ति यतो लोका महाब्धौ पृथुफेनवत्
पुनर्यस्मात्प्रलीयन्ते तस्मान्नारायणः स्मृतः । यो वै नित्यपदे नित्यो नित्यमुक्तैकभोगवान्
ईशः सर्वस्य जगतः स वै नारायणः स्मृतः । नारायणः परंब्रह्म तत्वं नारायणः परम्
यच्च किंचिज्जगत्यस्मिन्दृश्यते श्रूयतेऽपि वा । अंतर्बंहिश्च तत्सर्वं व्याप्य नारायणः स्थितः
अपहतपाप्मा पुरुषः सर्वभूतांतरस्थितः । दिव्यएकस्सदा नित्यो हरिर्नारायणोऽच्युतः
यस्तु द्रष्टा च द्रष्टव्यं श्रोता श्रोतव्यमेव च । स्प्रष्टा च स्पर्शितव्यश्च ध्याता ध्यातव्यमेव च
वक्ता च वाच्यं ज्ञाता च ज्ञातव्यं चिदचिज्जगत् । तच्च सर्वं हरिः श्रीशो नारायण उदाहृतः
सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् । स लोकान्सर्वतो व्याप्य अत्यतिष्ठद्दशांगुलम्
यद्भूतं यच्च भव्यं तत्सर्वं नारायणो हरिः । उतामृतत्वस्येशानो यदन्नेन विराट्पुमान्
स एव पुरुषो विष्णुर्वासुदेवोऽच्युतो हरिः । हिरण्मयोऽथ भगवान्सोऽमृतः शाश्वतः शिवः
पतिर्विश्वस्य जगतः सर्वलोकेश्वरं प्रभुः । हिरण्यगर्भाः सविता अनंतोऽसौ महेश्वरः
भगवानिति शब्दोऽयं तथा पुरुष इत्यपि । वर्त्तते निरुपाधिश्च वासुदेवोऽखिलात्मनि
ईश्वरो भगवान्विष्णुः परमात्मा जगत्सुहृत् । शास्ता चराचरस्यैको यतीनां परमा गतिः
यो वेदादौ स्वरः प्रोक्तो वेदांते च प्रतिष्ठितः । तस्य प्रकृतिलीनस्य यः परः स महेश्वरः
योसावकारो वै विष्णुर्योऽसौ नारायणो हरिः । स एव पुरुषो नित्यः परमात्मा महेश्वरः